न जायते म्रियते वा कदाचिद् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अविकारिणः आत्मनः स्वरूपं वर्णयति । पूर्वस्मिन् श्लोके अज्ञानिनः परिभाषाम् उक्त्वा अत्र भगवान् आत्मनः निर्विकारित्वम् उपस्थापयति । सः कथयति यत्, एतच्छरीरी न कदापि जायते, न च म्रियते । सः उत्पन्नः सन् पुनः जातः इत्यपि नास्ति । सः जन्मरहितः, नित्यः, शाश्वतः, पुराणः (अनादिः) च । शरीरे हतेऽपि सः न हन्यते इति ।
न जायते म्रियते वा कदाचित्... अविकारिणः आत्मनः स्वरूपम् | |
---|---|
श्लोकसङ्ख्या | २/२० |
श्लोकच्छन्दः | उपजातिच्छन्दः |
पूर्वश्लोकः | य एनं वेत्ति हन्तारं... |
अग्रिमश्लोकः | वेदाविनाशिनं नित्यं... |
न, जायते, म्रियते, वा, कदाचित्, नायम्, भूत्वा, भविता, वा, न, भूयः । अजः, नित्यः, शाश्वतः, अयम्, पुराणः, न, हन्यते, हन्यमाने, शरीरे ॥
अयं कदाचित् न जायते न वा म्रियते । अयं भूत्वा भूयः भविता वा न । अयम् अजः नित्यः शाश्वतः पुराणः शरीरे हन्यमाने अपि न च हन्यते ।
अन्वयः | विवरणम् | सरलसंस्कृतम् |
अयम् | इदम्-म.सर्व.पुं.प्र.एक. | एषः आत्मा |
कदाचित् | अव्ययम् | कदापि |
न | अव्ययम् | न |
जायते | √जन जनने-आत्म.कर्तरि, लट्.प्रपु.एक. | उत्पद्यते |
न वा | अव्ययम् | वा न |
म्रियते | √मृ मरणे-आत्म.कर्तरि, लट्.प्रपु.एक. | मृतो भवति |
अयम् | इदम्-म.सर्व.पुं.प्र.एक. | एषः आत्मा |
भूत्वा | क्त्वान्तम् अव्ययम् | उत्पद्य |
भूयः | अव्ययम् | पुनः |
न | अव्ययम् | न |
भविता | √ भू सत्तायाम्-पर.कर्तरि, लुट्.प्रपु.एक. | उत्पत्स्यते |
वा | अव्ययम् | |
नित्यः | अ.पुं.प्र.एक. | निर्विकारः |
शाश्वतः | अ.पुं.प्र.एक. | क्षयरहितः |
पुराणः | अ.पुं.प्र.एक. | पुरातनः |
शरीरे | अ.नपुं.स.एक. | शरीरे |
हन्यमाने | अ.नपुं.स.एक. | नाशितेऽपि |
न | अव्ययम् | न |
हन्यते | √हन हिंसागत्योः-कर्मणि, लट्.प्रपु.एक. | नश्यति । |
अयम् आत्मा कदापि न जायते न म्रियते वा, उत्पद्य पुनरपि उत्पत्स्यते इत्यपि वक्तुं न शक्यते,यतः अयम् आत्मा जन्मरहितः, सनातनः, पुरातनश्च । शरीरे नष्टेऽपि सः न नश्यति ।
'न जायते म्रियते वा कदाचिन्न' – यथा शरीरम् उत्पद्यते, तथैव शरीरी कदापि नोत्पद्यते । सः तु सर्वदा अस्ति । भगवान् शरीरिणं स्वांशत्वेन उपस्थाप्य 'सः सनातनः' इति अवदत् । सः शरीरी न कदापि जायते, न च म्रियते । 'म्रियते' इत्यस्य प्रयोगः तदा भवति, यदा पिण्डप्राणवियोगः भवति । पिण्डप्राणवियोगः तु शरीरे भवति, न तु शरीरिणि । शरीरिणि न संयोगः भवति, न वा वियोगः । जन्मादयः ये सर्वे विकाराः सन्ति, तेषु जन्ममृत्यू एव मुख्यौ । अतः भगवान् तयोः वारद्वयं निषेधम् अवदत् । 'न जायते', 'अजः' इत्येताभ्यां जन्मरहितत्वं, 'न म्रियते', 'न हन्यते हन्यमाने शरीरे' इत्येताभ्यां मृत्युरहितत्वं च बोधयति । शरीरे षड् विकाराः भवन्ति । जननं, दर्शनं, परिवर्तनं, वर्धनं, न्यूनीभवनं, नाशश्च । शरीरी तेभ्यः विकारेभ्यः रहितः ।
'अयं भूत्वा भविता वा न भूयः' – एतद् अविनाशि नित्यतत्त्वम् उत्पन्नं सत् पुनः भवति इति नास्ति । अर्थात् तत् तत्त्वं स्वतस्सिद्धं, निर्विकारञ्च अस्ति । शिशोः जन्म भवति, ततः तस्य अस्तित्वं भवति । यावद् सः शिशुः गर्भस्थः भवति, तावत् तस्य 'अस्तित्वम् अस्ति' इति न कोऽपि कथयति । अर्थात् शिशोः जन्मोत्तरं तस्य अस्तित्वं भवति । यतो हि विकारिणः अस्तित्वस्य आद्यन्तौ भवतः । परन्तु नित्यतत्त्वस्य अस्तित्वं तु स्वतस्सिद्धं, निर्विकारं च अस्ति, यतो हि एतस्याः अविनाशिसत्तायाः आद्यन्तौ न भवतः ।
'अजः' – एषः कदापि न जायते । अतः सः 'अजः' इति । एवं सः जन्मरहितः उच्यते ।
'नित्यः' – सः सार्वकालिकः भवति । अतः तस्य विनाशः कदापि न भवति । विनाशः तु तस्य भवति, यद् अनित्यम् अस्ति । यथा कालान्तरे शरीरस्य जर्जरत्वं प्रत्यक्षं भवति । बलं न भवति, इन्द्रियाणि अशक्तानि भवन्ति इत्यादि । एवं शरीरेन्द्रियान्तःकरणादीनां विनाशः भवति, परन्तु शरीरिणः विनाशः न भवति । तस्मिन् अनित्यतत्वे न कदापि जर्जरत्वं भवति ।
'शाश्वतः' – एतत् नित्यतत्त्वम् एकरूपं भवति । तस्मिन् अवस्थायाः परिवर्तनं न भवति । अर्थात् तस्मिन् परिवर्तनं न भवति ।
'पुराणः' – एतद् अविनाशितत्त्वं पुराणम् अस्ति । अर्थात् अनादि अस्ति । तन्न कदापि उत्पन्नं तावत् प्राचीनम् अस्ति । उत्पन्नवस्तुषु विकारः दृश्यते यत्, एकवारं यत् पुरातनं भवति, तत् कदापि न वर्धते, प्रत्युत नष्टं भवति । तर्हि एतत् तु अनुत्पन्नं तत्त्वम् एतस्मिन् वृद्धिरूपिविकारः असम्भवः ।
'न हन्यते हन्यमाने शरीरे' – शरीरस्य नाशे सत्यपि अविनाशिनः शरीरिणः नाशः न भवति । अत्र 'शरीरे' इत्यस्य पदस्य उपयोगः अस्ति । तस्य तात्पर्यम् अस्ति यत्, एतद् शरीरं नश्यमानम् अस्ति । एतस्मिन् नश्यमाने शरीरे एव षड् विकाराः उत्पद्यन्ते, न तु शरीरिणि । एतेषु पदेषु भगवता शरीरस्य, शरीरिणश्च यावद् स्पष्टं वर्णनं कृतम् अस्ति, तावद् स्पष्टं वर्णनम् अखिले गीताशास्त्रे कुत्रापि न प्राप्यते ।
अर्जुनः युद्धे कुटुम्बकानां हननशङ्कया शोकमग्नः आसीत् । तं शोकं दूरीकर्तुं भगवान् तं शरीरे मृते सत्यपि शरीरिणः नाशः न भवति इति कथयति । अर्थात् शरीरिणः अभावः न भवति, अतः शोकः अनुचितः इति ।
कथमविक्रय आत्मेति द्वितीयो मन्त्रः -
न जायते न उत्पद्यते जनिलक्षणा वस्तुविक्रिया न आत्मनो विद्यते इत्यर्थः। तथा न म्रियते वा । वाशब्दः चार्थे। न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते। कदाचिच्छ ब्दः सर्वविक्रियाप्रतिषेधैः संबध्यते न कदाचित् जायते न कदाचित् म्रियते इत्येवम्। यस्मात् अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभविता अभावं गन्ता न भूयः पुनः तस्मात् न म्रियते। यो हि भूत्वा न भविता स म्रियत इत्युच्यते लोके। वाशब्दात् न शब्दाच्च अयमात्मा अभूत्वा वा भविता देहवत् न भूयः। तस्मात् न जायते। यो हि अभूत्वा भविता स जायत इत्युच्यते। नैवमात्मा। अतो न जायते। यस्मादेवं तस्मात् अजः यस्मात् न म्रियते तस्मात् नित्य श्च। यद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यात् इत्याह शाश्वत इत्यादिना। शाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते। शश्वद्भवः शाश्वतः। न अपक्षीयते स्वरूपेण निरवयवत्वात्। नापि गुणक्षयेण अपक्षयः निर्गुणत्वात्। अपक्षयविपरीतापि वृद्धिलक्षणा विक्रिया प्रतिषिध्यते पुराण इति। यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते। अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः न वर्धते इत्यर्थः। तथा न हन्यते । हन्तिः अत्र विपरिणामार्थे द्रष्टव्यः अपुनरुक्ततायै। न विपरिणम्यते इत्यर्थः।
हन्यमाने विपरिणम्यमानेऽपि शरीरे । अस्मिन् मन्त्रे षड् भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते। सर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थः। यस्मादेवं तस्मात् उभौ तौ न विजानीतः इति पूर्वेण मन्त्रेण अस्य संबन्धः।।
आत्मा निर्विकारी कथम् ? इत्यस्य द्वितीयः प्रकारः अस्ति –
एषः आत्मा न कदापि उत्पद्यते । अर्थात् उत्पत्तिरूपी वस्तुविकारः आत्मनि न भवति । एवं सः न म्रियते । अस्मिन् श्लोके उपयुक्तं 'वा' इति पदं 'च' इत्यार्थबोधकम् । 'न म्रियते च' इत्यनेन कथनेन विनाशरूपस्य अन्तिमविकारस्य प्रतिषेधः (निषेधः) कृतः । 'कदाचित्' इत्यस्य शब्दस्य सम्बन्धः सर्वेषां विकाराणां प्रतिषेधेन सह अस्ति । यथा एषः आत्मा न कदापि जायते, तथैव न कदापि म्रियते इत्यादि अन्यविकारेषु अपि ज्ञातव्यम् । एषः आत्मा उत्पन्नः सन् अर्थात् उत्पत्तिरूपविकारस्य अनुभवं कृत्वा पुनः अभावं प्राप्नोति इति नास्ति । अतः सः न म्रियते । यतो हि यः उत्पद्य पुनः न भवति, सः 'म्रियते' इति लोके प्रसिद्धिः । 'वा', 'न' इत्येतयोः पदयोः उपयोगेन अर्थोक्तिः भवति यत्, आत्मा शरीरवद् उत्पद्य पुनः न भवति । अतः सः न जायते । यतो हि अभूत्वा पुनः भवति स एव 'जायते' इति उच्यते । आत्मा तथा नास्ति, अतः सः न जायते । एवम् आत्मा अजः, नित्यश्च ।
यद्यपि आद्यन्तयोः विकारयोः प्रतिषेधे सति सर्वेषां मध्यस्थानां विकाराणां प्रतिषेधः जायते, तथापि मध्यस्थानां विकाराणाम् अपि प्रतिषेधार्थकैः मुख्यशब्दैः प्रतिषेधः उचितः मन्यते । अतः उपरि अनुक्तानां यौवनादिविकाराणाम् अपि प्रतिषेधं कर्तुं 'शाश्वतः' इत्यादीनां शब्दानाम् उपयोगः अभवत् । सर्वदा यः विद्यमानः सः शाश्वतः । 'शाश्वत' इत्यनेन शब्देन अपक्षयरूपस्य विकारस्य प्रतिषेधः कृतः । यतो हि आत्मा अवयवरहितः अस्ति । अतः तस्मिन् स्वरूपगतं भयं न भवितुम् अर्हति । तथा च निर्गुणत्वाद् गुणानां क्षयेऽपि तस्य क्षयः न भवति । 'पुराणः' इत्यनेन शब्देन अपक्षयस्य विपरीतस्य वृद्धिरूपविकारस्यापि प्रतिषेधः कृतः । यः पदार्थः कस्यापि अवयवस्य उत्पत्त्या पुष्टः भवति, सः 'वर्धते', 'नवीभवति' इत्यादि उच्यते । परन्तु एषः आत्मा तु अवयवरहितः अस्ति । अतः एषः सर्वदा नवीनः अस्ति । अतः पुराणः इति कथनं युक्तिसङ्गतम् । अर्थात् सः न कदापि वृद्धिं गच्छति । तथा च शरीरस्य नाशे सति अर्थात् विपरीतपरिणामे प्राप्ते सत्यपि आत्मा न नश्यति । अर्थात् दुर्बलतादयः अवस्थाः आत्मनः न भवन्ति ।
अत्र 'हन्ति' इत्यस्य क्रियापदस्य अर्थः पुनरुक्तिदोषाद् रक्षयितुं विपरीतपरिणामः इति स्वीकर्तव्यः । एवम् आत्मा स्वरूपं न परिवर्तयति इत्यर्थः भवति । एतस्मिन् प्रकारे (मन्त्रे) लौकिकवस्तुषु जायमानानां षड् भावविकाराणाम् आत्मनि अभावः प्रदर्शितः । आत्मा सर्वेभ्यः विकारेभ्यः रहितः इति एतस्य मन्त्रस्य वाक्यार्थः । अतः तौ उभौ आत्मस्वरूपं न जानीतः इति पूर्वश्लोकेन सह एतस्य सम्बन्धः भवति ।
उक्तैः एव हेतुभिः नित्यत्वाद् अपरिणामित्वाद् आत्मनो जन्ममरणादयः सर्व एव अचेतनदेहधर्मा न सन्ति इति उच्यते।
तत्र न जायते म्रियत इति वर्तमानतया सर्वेषु देहेषु सर्वैः अनुभूयमाने जन्ममरणे कदाचिद् अपि आत्मानं न स्पृशतः। नायं भूत्वा भवति वा न भूयः अयं कल्पादौ भूत्वा भूयः कल्पान्ते च न भविता इति न। केषुचित् प्रजापतिप्रभृतिदेहेषु आगमेन उपलभ्यमानं कल्पादौ जननं कल्पान्ते च मरणम् आत्मानं न स्पृशति इत्यर्थः।
अतः सर्व देहगत आत्मा अजः अत एव नित्यः शाश्वतः प्रकृतिवदविशदसततपरिणामैः अपि न अन्वीयते। अतः पुराणः पुरातनः अपि नवः सर्वदा अपूर्ववद् अनुभाव्य इत्यर्थः। अतः शरीरे हन्यमाने अपि न हन्यते अयम् आत्मा ।
उपर्युक्तकारणैः एव आत्मा नित्यः, परिणामरहितश्च । अतः तस्मिन् अचेतनस्य देहस्य जन्ममृत्य्वादयः धर्माः न भवन्ति इति उच्यते –
'आत्मा न जायते, न म्रियते' इत्यस्य अभिप्रायः अस्ति यत्, वर्तमाने साधारणदृष्ट्या सर्वेषां शरीराणाम् अनुभवे आगम्यमानाः जन्ममृत्य्वादिविकाराः आत्मनः स्पर्शं कर्तुं न प्रभवन्ति । 'एषः आत्मा भूत्वा पुनः न भवति' अतः आत्मा कल्पारम्भे भूत्वा कल्पान्ते नंक्ष्यति इति नास्ति । अभिप्रायः अस्ति यत्, यस्य कस्यापि प्रजापतेः शरीरे कल्पारम्भे जननविकारः, कल्पान्ते च मरणविकारश्च ये शास्त्रेषु उक्ताः, ते आत्मनः स्पर्शं कर्तुं न शक्नुवन्ति इति । अत एव पीपिलाकातः प्रजापतिपर्यन्तं सर्वेषु देहेषु स्थितः आत्मा अजन्मा अस्ति । अतः नित्यः, शाश्वतश्च अस्ति । प्रकृतौ निरन्तरं जायमानानि अविशदपरिवर्तनानि (सूक्ष्मपरिवर्तनानि) अपि तस्मिन् न भवन्ति । अत एव सः पुराणः सन्नपि नवीनः । सर्वदा अपूर्ववद् अनुभाव्यः । अत एव शरीरे मारितेऽपि सः आत्मा न हन्यते ।
|
विकिमीडिया कॉमन्स् मध्ये न जायते म्रियते वा कदाचित्... सम्बन्धिताः सञ्चिकाः सन्ति। |
This article uses material from the Wikipedia संस्कृतम् article न जायते म्रियते वा कदाचित्..., which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.