तूतुकुडिमण्डलम्

तूत्तुकुडिमण्डलं (Thoothukudi District) (तमिऴ्: தூத்துகுடி மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । ‘ट्युटिकारिन् मण्डलम्’ इति अस्य मण्डलस्य ब्रिटिश्कालिकं नाम वदन्ति । अस्य केन्द्रस्थानं तूत्तुकुडिनगरम् । इदं नगरं मौक्तिकानाम् उत्पादनेन प्रसिद्धम् अस्ति । ‘तमिऴ्नाडुराज्यस्य द्वारम्’ इति विख्यातम् इदम् ।

तूतुकुडिमण्डलम्
मण्डलम्
तूतुकुडिप्रदेशस्य मत्स्योद्यमः (1662)
तूतुकुडिप्रदेशस्य मत्स्योद्यमः (1662)
तमिळ्नाडु राज्ये तूतुकुडिमण्डलम्
तमिळ्नाडु राज्ये तूतुकुडिमण्डलम्
राष्ट्रम् तूतुकुडिमण्डलम् India
State तमिळ्नाडु
उपमण्डलानि तूत्तुकुडिः, तिरुच्चेन्दूरुः, सतङ्गुळम्, श्रीवैकुण्ठम्, ओट्टपिडारम्, कोविल्पाट्टि, एट्टैयापुरम्, विळात्तिकुळम्
Government
 • Collector आशिश् कुमार्, IAS
Area
 • Total ४,६२१ km
भाषाः
 • व्यावहारिक तमिळ्
Time zone UTC+5:30 (भारतीय कालमानम्, IST)
PIN
628xxx
Telephone code 0461
Vehicle registration
Central location: ८°४८′ उत्तरदिक् ७८°८′ पूर्वदिक् / 8.800°उत्तरदिक् 78.133°पूर्वदिक् / ८.८००; ७८.१३३
Website thoothukudi.nic.in

भौगोलिकम्

तूत्तुकुडिमण्डलं तमिऴ्नाडुराज्यस्य आग्नेयकोणान्ते अस्ति । अस्य उत्तरभागे तिरुनेल्वेलि, विरुदुनगरं, रामनाथपुरमण्डलानि सन्ति । पूर्वभागे आग्नेयदिशि च मन्नारसमुद्रकुक्षिः अस्ति । पश्चिमे नैर्ऋत्ये च तिरुनेल्वेलीमण्डलम् अस्ति । मण्डलस्य विस्तारः ४६२१ चतुरश्रकिलोमीटर् अस्ति।

इतिहासः

तूत्तुकुडिमण्डलं १९८६ तमे वर्षे अक्टोबरमासस्य २० दिनाङ्के तिरुनेल्वेलिमण्डलतः पृथक्कृतम् । तूत्तुकुडिनगरं भारतस्य प्रमुखेषु नौकानिः स्थानेषु अन्यतमम् । इतिहासे क्रिस्तीयषष्ठशतकाद् अपि अस्य उल्लेखः दृश्यते । भारतस्य स्वातन्त्र्यसङ्ग्रामस्य अनेके वीराः तूत्तुकुडिमण्डले उत्पन्नाः । तेषु प्रमुखाः महाकविः सुब्रह्मण्य भारती, वी. ओ. चिदम्बरं पिळ्ळै, ऊमैतुरै, वीरपाण्ड्यकट्टबोम्मन्, वेळ्ळैयतेवन्, वीरन् सुन्दरलिङ्गम् इत्यादयः ।

जनसंख्या

२०११ तमवर्षस्य जनगणनानुगुणं तूत्तुकुडिमण्डलस्य जनसंख्या १,७३८,३७६ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २७७ तमं स्थानम् । अस्मिन् मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७८ (९८० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ९.१४% आसीत् । तूत्तुकुडिमण्डले पुं, स्त्री अनुपातः १०००:१०२४, साक्षरताप्रमाणं च ८६.५२% अस्ति । अत्र भाषमानासु तमिऴ्भाषा प्रमुखा । आङ्ग्लभाषा अपि अधिकतया उपयुज्यते ।

उपमण्डलानि

तूत्तुकुडिमण्डले ८ उपमण्डलानि सन्ति । तानि -

    १)तूत्तुकुडिः
    २)तिरुच्चेन्दूरुः
    ३)सतङ्गुळम्
    ४)श्रीवैकुण्ठम्
    ५)ओट्टपिडारम्
    ६)कोविल्पाट्टि
    ७)एट्टैयापुरम्
    ८)विळात्तिकुळम्


कृषिः वाणिज्यं च

मण्डले बृहन्तः जलाशयाः न सन्ति इत्यतह् तिरुनेल्वेलिमण्डले विद्यमानौ पापनाशं मणिमुत्तारुजलबन्धौ कृषेः जलमूलत्वेन उपयुज्यन्ते । तूत्तुकुडिमण्डले प्रवहन्त्यः वैपारु, करुमेनि, पाळैयकायल्नद्यः अपि जलं प्रयच्छन्ति ।

श्रीवैकुण्ठ, सतङ्गुळ, तिरुच्चेन्दूरु उपमण्डलेषु तण्डुलः रुह्यते । कोविल्पाट्टि, ओट्टपिडार, तूत्तुकुडि उपमण्डलेषु कार्पासस्य कृषिः दृश्यते । कुम्बु, जोळम्, कुदिरैवलि इति स्थलीयभाषायां ज्ञातानां सस्यानां कृषिः अपि अधिकतया भवति । श्रीवैकुण्ठ, तिरुच्चेन्दूरु उपमण्डलयोः कदलीफलानां शाकानां च कृषिः भवति । तमिऴ्नाडुराज्ये कदलीनाम् अत्यधिकं परस्थलविक्रयणं तूत्तुकुडिमण्डलादेवः भवति । तमिऴ्नाडुराज्यस्य ७०%, भारतस्य ३०% लवणोत्पादनम् अस्मिन् मण्डले एव भवति । भारते लवणोत्पादकेषु तूत्तुकुडिमण्डलस्य द्वितीयं स्थानम् । सिद्धवस्त्राणाम् उत्पादनेन पुदियम्पुत्तूरुग्रामः सुप्रसिद्धः । इतः आराज्यं, मुम्बयीप्रभृतिभ्यः प्रदेशेभ्यः च सिद्धवस्त्राणि प्रेष्यन्ते । अत्र दशसहस्राधिकेभ्यः उद्योगः लभ्यते ।

वीक्षणीयस्थलानि

सुब्रह्मण्यस्वामिदेवालयः, तिरुच्चेन्दूरुः

बङ्गालसमुद्रस्य तीरे अयं देवालयः अस्ति । कार्त्तिकेयस्य ‘आरुपडैवीडु’ क्षेत्रेषु इदं द्वितीयम् । अत्र मुरुगः ‘सेन्दिलाण्डवर्’ इति नाम्ना आराध्यते । इदं क्षेत्रं बहु जनप्रियम् अस्ति ।

अरुळमिगु मुत्तारम्मन् देवालयः, कुलशेखरपत्तनम्

अस्मिन् देवालये आचर्यमाणः नवरात्रोत्सवः बहु प्रसिद्धः । अस्मिन् समये ‘दसरा कुऴु’ इत्येतत् प्रामुख्यं भजते ।

तूत्तुकुडि क्रैस्तदेवालयः (अवर् लेडि आफ़् स्नोस् बेसिलिका)

अयं क्रैस्तदेवालयः षोडशशतके निर्मितः । अत्र पोर्चुगीसशैल्याः निर्माणं दृश्यते । सन्त फ़्रान्सिस् ज़ेवियरः १५४२ तमे वर्षे इमं देवालयं सन्दर्शितवान् । १९८२ तमे वर्षे अस्य देवालयस्य ४०० तमवार्षिकोत्सवस्य समये पोपेन द्वितीयजानपालेन अस्य बेसिलिकापदविः प्रदत्ता ।

बाह्यसम्पर्कतन्तुः

Tags:

तूतुकुडिमण्डलम् भौगोलिकम्तूतुकुडिमण्डलम् इतिहासःतूतुकुडिमण्डलम् जनसंख्यातूतुकुडिमण्डलम् उपमण्डलानितूतुकुडिमण्डलम् कृषिः वाणिज्यं चतूतुकुडिमण्डलम् वीक्षणीयस्थलानितूतुकुडिमण्डलम् बाह्यसम्पर्कतन्तुःतूतुकुडिमण्डलम्तमिऴ्नाडु

🔥 Trending searches on Wiki संस्कृतम्:

पतञ्जलिस्य योगकर्मनियमाःअर्जुनविषादयोगःपुराणम्सूरा अल-नासअभिज्ञानशाकुन्तलम्योगःनवम्बर १११४आयुर्वेदःमुख्यपृष्ठम्सिलवासावसिष्ठस्मृतिःउद्धरेदात्मनात्मानं...पी टी उषावापाराशरस्मृतिःभारतीयभूगोलम्२४ सितम्बरवेदव्यासःशब्दःचक्रा२६ सितम्बरजपान्१९ जूनचिलिमेजर ध्यानचन्दबिजनौररजतम्नक्षत्रम्मोक्षःकच्छमण्डलम्यवनदेशःआकस्मिक चिकित्साअलङ्कारशास्त्रस्य सम्प्रदायाःनिरुक्तम्शाब्दबोधःजम्बुद्वीपःकरतलम्विद्यासाहित्यशास्त्रम्२२ जनवरीचातुर्वर्ण्यं मया सृष्टं...प्रकरणम् (दशरूपकम्)जाती२०१०मत्त (तालः)एम् जि रामचन्द्रन्समय रैना९१२स्वास्थ्यम्श्वेतःनेपोलियन बोनापार्टक्षेमेन्द्रःमई २१६७७मानवविज्ञानम्देवनागरीपुरुषार्थःचीनदेशःमनसा, पञ्जाब्जया किशोरीशिश्नम्कालिदासस्य उपमाप्रसक्तिःकैटरीना कैफमृच्छकटिकम्सिर्सि मारिकांबा देवालयए आर् रहमान्प्तन्वी🡆 More