कोलकाता

कोल्काता (वङ्ग: কলকাতা, কোলকাতা), भारतस्य पूर्वाञ्चलीयस्य पश्चिमवङ्गराज्यस्य राजधानी, प्रधानवानिज्यकेन्द्रं तथा वृहत्तमनगरम् । हुगलीनद्याः पूर्वतीरे अवस्थिते नगरेऽस्मिन् पञ्चाशताधिकलक्षजनाः निवसन्ति । परन्तु कोलकातानगरसंलग्नानां प्रदेशानाम् अंशविषेशेन निर्मितस्य वृहत्तरकोलकातानगरस्य जनसंख्या प्रायः १ कोटि ४० लक्षपरिमितम् । जनसंख्याविचारे नगरमिदं भारतस्य तृतीयवृहन्नगरं तथा द्वितीयमहानगरम् । समग्रविश्वे कोलकातामहानगरं अष्टमस्थानम् (जनसंख्याविचारे) आवहति ।

कोल्काता
কলকাতা
कलिकाता
सिटि ऑफ़् जॉय् (आनन्दनगरम्)
—  बृहन्नगरम्  —
कोलकाता
उपरिष्टात् घटिकानुवर्तनम् : विक्टोरिया मेमोरियल्, सैण्ट् पॉल्स् कथीड्रल्, वाणिज्यकेन्द्रम्, हाव्डासेतुः, नगरे ट्राम् व्यवस्था, विद्यासागरसेतुः
उपरिष्टात् घटिकानुवर्तनम् : विक्टोरिया मेमोरियल्, सैण्ट् पॉल्स् कथीड्रल्, वाणिज्यकेन्द्रम्, हाव्डासेतुः, नगरे ट्राम् व्यवस्था, विद्यासागरसेतुः
कोलकाता
कोलकाता
कोल्काता
কলকাতা
कलिकाता
Location of कोल्काता
কলকাতা
कलिकाता
in पश्चिमवङ्गः
निर्देशाङ्काः

२२°३४′२२″उत्तरदिक् ८८°२१′५०″पूर्वदिक् / 22.5726723°उत्तरदिक् 88.3638815°पूर्वदिक् / २२.५७२६७२३; ८८.३६३८८१५

देशः भारतम्
राज्यम् पश्चिमवङ्गः
मण्डलम् कोल्कातामण्डलम्
पौरपिता शोभन् चट्टोपाध्याय
रक्षणमुख्यायुक्तः सुरजीत् कर् पुरकायस्थ
शेरिफ़् इन्द्रजीत् राय्
जनसङ्ख्या

• सान्द्रता
• महानगरम्

४४,८६,६७९

24,252 /किमी2 (62,812 /वर्ग मील)
१,४१,१२,५३६

व्यावहारिकभाषा(ः) वङ्गभाषाः, आंग्लः, हिन्दी
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 1,886.67 वर्ग किलोमीटर (728.45 वर्ग मील)
जालस्थानम् www.kolkatamycity.com

१७७२ तमे संवत्सरे वङ्गस्य राजधानी प्रथमवारं मुर्शिदाबादतः कोलकातां प्रति स्थानान्तरिता आसीत् । न केवलं वङ्गस्य अपि तु १९११ वर्षपर्यन्तं समग्रभारतस्य राजधानी आसीत् । १९२३ तमे वर्षे क्यालकाटा म्युनिसिपल् एक्ट् माध्यमेन कोलकातनगरस्य स्वायत्वशासनकर्ती एका पौरसंस्था स्थापिताऽसीत् । १९४७ वर्षे भारतविभाजनान्तरं कोलकाता नवनिर्मितस्य पश्चिमवङ्गराज्यस्य राजधानी घोषिता जाता आसीत् । तस्मिन् समये कोलकाता आधुनिकभारतस्य शिक्षा-विज्ञान-शिल्प-संस्कृति-राजनीतेः पीठस्थानमासीत् । १९५४ तमवर्षानन्तरं राजनैतिकास्थिरतया तथा अर्थनैतिकावक्षयेन प्राचीनगौरवस्थानं खर्वितम् आसीत् ।

वैप्लविकान्दोलननिमित्तम् एवञ्च सुदीर्घसांस्कृतिक-ऐतिह्यनिमित्तम् अस्य कोलकातानगरस्य प्रसिद्धिः । भारतस्य स्वाधीनतान्दोलने तथा परवर्तीकाले वामपन्थीनः गणान्दोलने नगरमिदं प्रमुखभूमिकाम् अवहत् । अपरपक्षे आधुनिकभारतस्य प्रधानसांस्कृतिककेन्द्रेषु अन्यतमा कोलकाता जाता । एतस्मात् कोलकाता भारतस्य सांस्कृतिकराजधानी इत्याख्यया अभिहिता । अपरेपक्षे कोलकातायाः आनन्दनगरी(City of Joy) इत्यपि सुप्रसिद्धनाम विद्यते । राजा राममोहन राय, रवीन्द्रनाथ ठाकुर्, स्वामी विवेकानन्दः, सुभाष चन्द्र बसु, मादार् तेरेसा, सत्यजीत् राय, सी वी रमन्, अमर्त्य सेन् प्रमुखाणां विश्ववरेण्यव्यक्तीनां कर्मभूमिः कोलकाता महानगरी । समृद्धसांस्कृतिक-ऐतिह्यनिमित्तं एषा नगरी आ विश्वे उन्नतस्थानम् आप्नोति ।

नामौचित्यम्

कोलकाता 
कालीघाटमन्दिरम्

वर्तमानकोलकाता नगरी भारते ब्रिटिशानां आगमनात् प्राक् 'सुतानुटि', 'गोविन्दपुर' तथा 'कलकाता' इति त्रिधा विभक्ता आसीत् । बाङ्गलाशब्दः कलकाता तथा आङ्ग्लशब्दः क्यालकाटा नामपदयोः उत्सः कलिकाता इति शब्दः । "कलिकाता" इति नामपदस्य व्युत्पत्तिः व्युत्पत्तिप्रसङ्गे विद्वत्सु नास्ति मतैकम् । प्रसिद्धमतमस्ति यत् कालीक्षेत्रम् इति शब्दात् कलिकातापदम् आगतम् । कालीक्षेत्रमित्येन पदेन देव्याः काल्याः राज्यमिति अर्थः द्योत्यते । मतान्तरं पोषयन्ति केचनाः यत् किलकिला इति बाङ्गलाशब्दात् कोलकाताशब्दः आगतः । अपरेकं मतानुसारं खाल(नलः) काट्टा(खननम्) इति पदयोः संयोगात् इदानीन्तन-नामपदमागतम् ।

२००१ तमे वर्षे नगरस्य आधिकारिक-आङ्ग्लनाम क्यालकाटा"-तः ("Calcutta") परिवर्त्य कोलकाता" ("Kolkata") अभवत् । केचनाः मन्वन्ति यत् अस्य नगरस्य ब्रिटिशोत्तराधिकारसूत्रं विलोपं नामपरिवर्तनकरणेन जातम् । वैदेशीयगणमाध्यमाः इदं नामकरणं नाङ्गीकारं कृतवन्तः । परन्तु बि बि सी इति गणमाध्यमेन बोम्बाई स्थले मुम्बई तथा क्यालकाटा स्थले कोलकाता इति नामद्वयम् अङ्गीकृतम् ।

इतिहासः

प्राक्-ब्रिटिशकालः

कोलकाता 
फोर्ट् विलियम्, कोलकाता,(विलियम् वुड् महोदयेन अङ्कितम्-१८२८ क्रै.स

कोलकतानगरस्य समीपे चन्द्रकेतुगढनामकस्थाने प्रत्नतात्त्विकखननात् प्रमाणितं यत् अयं प्रदेशः द्विसहस्रवर्षं पूर्वमपि वस्तिपूर्णमासीत् । मध्ययुगीय-नैकेषु ग्रन्थेषु(बाङ्गला) हुगलीनद्याः तीरवर्तीग्रामस्य कोलकातायाः उल्लेखमस्ति । एतेषु विप्रदासस्य मनसामङ्गलकाव्यम्(१४९५ क्रै.स), मुकुन्दराम-चक्रवर्तिना रचितं चण्डीमङ्गलकाव्यम्(१५९४-१६०६), सैयद् आलाओलस्य पद्मावती(१६४५-५२), कृष्णराम महोदयस्य कालिकामङ्गलकाव्यम्(१६७६-७७) सनातन घोषाल महोदयस्य भाषा-भागवत्(१६७९-८०) इति अन्यतमाः ग्रन्थाः भवन्ति ।

१५८२ तमे वर्षे राज्ञः टोडरमलस्य निर्देशानुसारं समग्रवङ्गप्रदेशस्य(अविभक्तवङ्गः) भूमिमापनकार्यम् अभूत् । ओयालिश्-ए-जमा तुमार् इति नाम्ना मापनकार्यस्य एका आवली प्रकाशिता आसीत् । 'आबुल् फज़ल्' महोदयस्य आइन्-ए-आकबरी(१५९० क्रै स) इति ग्रन्थे उद्धृता इयं आवली । अस्याम् आवल्यां कलिकाता इति ग्रामस्य उल्लेखः अस्ति । १६९० तमे वर्षे ब्रिटिश् ईष्ट् इण्डिया संस्थायाः वाणिज्यकाः प्रथमवारं वाणिज्यविस्ताराय ’कलिकाता’नगरीम् आगतवन्तः . इतःपरमेव कलिकातायाः लिखितेतिहासस्य प्रारम्भः आसीत् . साम्राज्यवादी ऐतिहासिकगणस्तु ’जब् चार्णक्’ इति ब्रिटिशप्रशासकं कोलकातानगर्य्याः प्रतिष्ठातारूपेण स्वीकरोति स्म . यद्यपि आधुनिकैः गवेषकैः मतमिदं खण्डितम् अस्ति . २००३ तमे वर्षे कोलकाता-उच्चन्यायालयेन जनस्वार्थपरिप्रेक्षिते सूचितं यत् कामपि व्याक्तिं कोलकातायाः प्रतिष्ठाता इत्यभिधया अभिहितं कर्तुं न शक्यते .

कोलकाता 
फोर्ट् विलियम्, कोलकाता, १७३५ क्रै स
कोलकाता 
कोलकाता पोताश्रये नौयानतः गजस्य अवतारणस्य दृश्यम् -”हार्पास् विक्ली”पत्रिका १८५८ क्रै.
कोलकाता 
चित्पुरमर्गस्य(अधुना रवीन्द्रसरणी) दृश्यम्; विलियम् सिम्पसन् महोदयस्य ”इन्डिया एन्सियेन्ट् एन्ड् मर्डार्न् पुस्तके प्रकाशितम्, १८६७


भौगोलिकावस्थितिः

कोलकाता 
पूर्वकोलकातायाः जलाभूमिः
कोलकाता 
स्पट् स्याटेलैट्-तः स्वीकृतं कोलकातानगर्य्याः चित्रम्

कोलकाता नगरी पूर्वदिशि २२°३३′ उत्तरगोलार्धे तथा ८८°२०′ पूर्वद्राघिमांशे विद्यते . इयं नगरी गाङ्गेय-त्रिकोणाकारे द्वीप्रदेशे अवस्थिता अस्ति . समुद्रपृष्ठतः कोलकातायाः औन्नत्यं प्रायः १.५(५ फुट्) – ९(३० फुट्) मिटर् पर्यन्तम् भवति . उत्तर-दक्षिणदिशि अस्य नगरस्य विस्तारः हुगलीनद्याः तटीयप्रदेशानुभूमिकः आसीत् . वस्तुतः स्थलमिदं जलपूर्णमासीत् . नगरस्य जनसंख्यायाः वृद्ध्यानुगुणं वसतिनिमित्तं अवतलभूमिः जनैः पूरिमासीत् . अवशिष्टा पूर्वकोलकाता-जलभूमिः नाम्ना परिचिता । 'रामसार् कन्भेन्सन्' अनुसारं इयं जलभूमिः अन्ताराष्ट्रिय-गुरुत्वसम्पन्ना ।

सिन्धु-गाङ्गेय समभूमेः सदृशः अयं प्रदेशोऽपि पलिजया(alluvial) मृत्तिकया निर्मिता । अस्मिन् प्रदेशे कोवाटारनारियुगस्य मृत्तिकास्तरः दृश्यते । मृत्तिकास्तरे कर्दमास्तरद्वयम् अस्ति । अधस्तनस्य कर्दमास्तरस्य गहनता २५० मीटर्-तः (८२० फूट्) ६५० मीटर् (२,१३३ फूट्) पर्यन्तम् । तथा उपरितनस्य स्तरस्य गहनता १० मीटर्-तः (१३१ फूट्) ४० मीटर् (१३१ फूट्)-पर्यन्तम् । ब्युरो इण्डियन् स्ट्यान्डार्स् संस्थायाः अभिलेखनुसारं कोलकाता तृतीयस्तरीया भू-कम्पनक्षेत्रम् ।


टिप्पणी

बाह्यसम्पर्कतन्तुः


Tags:

कोलकाता नामौचित्यम्कोलकाता इतिहासःकोलकाता भौगोलिकावस्थितिःकोलकाता टिप्पणीकोलकाता बाह्यसम्पर्कतन्तुःकोलकातापश्चिमबङ्गराज्यम्भारतम्वङ्ग language

🔥 Trending searches on Wiki संस्कृतम्:

क्रिकेट्-क्रीडाअगस्त १५बदरीफलम्सम्प्रदानकारकम्तमिळभाषानाहं वेदैर्न तपसा...डॉनल्ड ट्रम्पतैत्तिरीयोपनिषत्आङ्ग्लभाषाअपर्याप्तं तदस्माकं...रसगङ्गाधरःविशिष्टाद्वैतवेदान्तःरोम-नगरम्भोजपुरी सिनेमाक्षमा रावद्यावापृथिव्योरिदम् - 11.20वेदःवायुमण्डलम्खानिजः१ फरवरीगीतगोविन्दम्अम्लम्कृष्णःजून ९चित्स्थितप्रज्ञस्य का भाषा...गढवळिभाषाहिन्द-आर्यभाषाःमानवसञ्चारतन्त्रम्संस्कृतवर्णमालावैराग्यशतकम्चार्ल्स २कर्मण्येवाधिकारस्ते...दृष्ट्वा तु पाण्डवानीकं...नासावार्त्तापत्रम्४ फरवरी१८५२जार्ज ३प्राचीनभारतीया शिल्पकलाकोषि अगस्टीन् लूयीचन्दनम्ब्रह्मगुप्तःमुन्नार्१२१९थामस् जेफरसन्१९०७ज्ञानविज्ञानयोगःमन्थरासऊदी अरबभौतिकशास्त्रम्१८०९गजःचतुर्थी विभक्तिःफलम्वृकः५९३विकिः१६८०खो खो क्रीडारघुवंशम्दशरूपकम् (ग्रन्थः)प्रातिशाख्यम्कोमो१३७२१०७१जनवरी १३३६सावित्रीबाई फुलेअथ योगानुशासनम् (योगसूत्रम्)शाम्भवीशर्करा🡆 More