अन्तोन् वान् ल्यूवेन् वोक्

अयं आन्तोन् वान् ल्यूवेन् वोक् (कालः – २४.

१०. १६३२ तः २६. ०९. १७२३) (Antonie van Leeuwenhoek) कश्चन प्रसिद्धः जीवविज्ञानी । अयम् अस्माकं परिसरे विद्यमानान् सामान्यां नेत्राभ्यां द्रष्टुम् अशक्तान् सूक्ष्मजीवीन् सूक्ष्मदर्शकयन्त्रस्य साहाय्येन अदर्शयत् । अयम् आन्तोन् वान् ल्यूवेन् वोक् एव संक्ष्मदर्शकस्य संशोधकः इति उच्यते । सः आन्तोन् वान् ल्यूवेन् वोक् हालेण्ड्-देशस्य डेल्फट् इति प्रदेशे १६३२ तमे वर्षे अक्टोबर्-मासस्य २४ तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता मद्यसारवस्तूनां निर्माता आसीत् । बाल्ये पितृवियोगं प्राप्तवान् अयम् आन्तोन् वान् ल्यूवेन् वोक् १६ वयसि एव विद्याभ्यासं परित्यज्य धान्यापणे कुत्रचित् कार्यम् आरब्धवान् । २१ तमे वयसि जन्मस्थानं प्रत्यागत्य स्वोद्योगम् आरब्धवान् । तस्य आपणस्य समीपे एव उपनेत्राणां निर्माणस्य आपणः आसीत् । तत्र लघूनि अपि वस्तूनि बृहत् यथा दृश्येत तथा उपनेत्राणां निर्माणं यत् क्रियमाणम् आसीत् तत् आश्चर्येण पश्यति स्म अयम् आन्तोन् वान् ल्यूवेन् वोक् । ततः स्वयम् एव तादृशम् उपनेत्रसदृशं किञ्चित् यन्त्रं निर्माय तेन चर्म, पर्णं, केशं, कीटं, जलबिन्दुम् इत्यादिकं यदा दृष्टवान् तदा तत्सर्वं शतगुणितं बृहत् दृष्टम् ।

आन्तोन् वान् ल्यूवेन् वोक्
अन्तोन् वान् ल्यूवेन् वोक्
Portrait of Antonie van Leeuwenhoek (1632–1723) by Jan Verkolje
जननम् (१६३२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२४)२४, १६३२
Delft, Netherlands
मरणम् २६, १७२३(१७२३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२६) (आयुः ९०)
Delft, Netherlands
वासस्थानम् Netherlands
देशीयता Dutch
कार्यक्षेत्राणि Microscopist and Biologist
विषयेषु प्रसिद्धः Discovery of protozoa
First red blood cell description
धर्मः Dutch reformed
हस्ताक्षरम्
अन्तोन् वान् ल्यूवेन् वोक्

अयं आन्तोन् वान् ल्यूवेन् वोक् स्वयम् एव काचकान् निर्माय तान् लोहस्य वाहिकानाम् अन्ते योजयित्वा यदा जलबिन्दुं दृष्टवान् तदा तस्मिन् जलबिन्दौ असंख्यान् सूक्ष्मजीवीन् अपश्यत् । सः प्रायः ४०० विधान् विभिन्नान् काचकान् निर्मितवान् आसीत् । तेषां काचकानां सूक्ष्मदर्शकशक्तिः ५० तः ३०० पर्यन्तं भवति स्म । सः एतानि सूक्ष्मदर्श्कयन्त्राणि सुन्दरतया, कलात्मकतया अपि निर्मितवान् आसीत् । तेषु यन्त्रेषु काचकान् रजतेन सुवर्णेन वा योजितवान् आसीत् । नगरान्तरं गमनागमनसमये आनुकूल्यार्थं त्सरुः अपि निर्मितवान् आसीत् । तत्र दर्पणादिकं स्थापयितुं स्थलम् अपि कल्पितवान् । सदा सूक्ष्मदर्शकद्वारा पश्यन्तम् एतम् आन्तोन् वान् ल्यूवेन् वोकं जनाः उन्मत्तः इति अवदन् । तथापि सः प्रयोगान् न परित्यक्तवान् । तस्य आन्तोन् वान् ल्यूवेन् वोकस्य ग्रामस्थः कश्चन इङ्ग्लेण्ड्-देशे विद्यमानायाः सुप्रसिद्धैः विज्ञानिभिः संस्थापितायाः प्रख्यातायाः “रायल् सोसैटि” इत्याख्यायाः संस्थायाः सदस्यः आसीत् । सः एतम् अयं आन्तोन् वान् ल्यूवेन् वोकं तत्रत्यान् विज्ञानीन् वदतु इति अचोदयत् । किन्तु अस्य अयं आन्तोन् वान् ल्यूवेन् वोकस्य धैर्यम् अपि नासीत्, तद्विषये विश्वासः अपि नासीत् । सः ग्रामस्थः पुनः पुनः एतम् अयं आन्तोन् वान् ल्यूवेन् वोकं चोदितवान् इत्यस्मात् कारणात् स्वेन कृतान् प्रयोगान् तत्रत्यान् अवदत् । तदनन्तरं वैज्ञानिकजगति अद्भुतं परिवर्तनं सञ्जातम् । यदा अयं आन्तोन् वान् ल्यूवेन् वोक् जलबिन्दुं सूक्ष्मदर्शकेण दृष्टवान् तदा तत्र दृष्टाः सूक्ष्मजीविनः एव ’ब्याक्टीरिय्’ इत्याख्याः । एषः आन्तोन् वान् ल्यूवेन् वोक् एव "सूक्ष्मजीविनः वंशाभिवृद्धिं कुर्वन्ति, न ते निर्जीवेभ्यः वस्तुभ्यः जन्म प्राप्नुवन्ति" इत्यपि संशोधितवान् ।

अस्य आन्तोन् वान् ल्यूवेन् वोकस्य संशोधनं न केवलं सूक्ष्मजीविनां विषये आसीत् अपि तु रक्तस्य विषये, मीनस्य देहस्य रक्तपरिचलनस्य विषये चापि आसीत् । अभ्यासार्थम् आरब्धाः प्रयोगाः सम्पूर्णतया वैज्ञानिकाः सञ्जाताः । अनेन आन्तोन् वान् ल्यूवेन् वोकेन लिखिताः लेखाः अपि प्रसिद्धायां रायल् सोसैट्यां प्रकाशिताः । एषः आन्तोन् वान् ल्यूवेन् वोक् ९० तमे वयसि १७२३ तमे वर्षे सप्टेम्बर् मासस्य २६ तमे दिनाङ्के दिवं गतः ।

बाह्यसम्पर्कतन्तुः

Tags:

कीटःकेशःचर्मनेत्रम्हालेण्ड्

🔥 Trending searches on Wiki संस्कृतम्:

उर्वारुकम्७५२सितम्बर ६भरतः (नाट्यशास्त्रप्रणेता)१७०५यामिमां पुष्पितां वाचं…२३ जुलाई१८९६लिबियावाहनम्ऋतुःसंस्कृतविकिपीडिया१६५गणेशः२८८अभिज्ञानशाकुन्तलम्अमृत-बिन्दूपनिषत्१०४४मुख्यपृष्ठम्रससम्प्रदायःरीतिसम्प्रदायः६५८वसन्तःरिपब्लिकन् पक्षःडियेगो माराडोनास्मृतयःटेनिस्-क्रीडारघुवंशम्कारकम्भूगोलम्3.33 प्रातिभाद्वा सर्वम्पतञ्जलिःरास्याकेसरम्१६५६१६२१बहासा इंडोनेशिया५२८आहारःमहात्मा गान्धी११६४६५१५५२माधवः (ज्योतिर्विद्)१० मार्च२९६१३५५नार्थ केरोलैनारवीना टंडनमोहिनीयाट्टम्२४२१७१२वेदाविनाशिनं नित्यं...प्रीतम कोटालमहाकाव्यम्गणितम्९ अक्तूबरमध्यप्रदेशराज्यम्उपपुराणानि११९२बोयिङ्ग् ७८७सेवील्लजार्ज ३६४२द सिम्प्सन्स्भारविः९९४मीमांसादर्शनम्९९६न्यायदर्शनम्४५९🡆 More