वृषभराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।
वृषभद्वयं शकटे योज्यते चेदपि हले योज्यते चेदपि समानतया कार्यं कुरुतः । किन्तु एकः वृषभः भवति चेत् तस्मिन् असमत्वं दृश्यते । स्वेच्छानुसारं प्रवर्तते । वृषभराशिवन्तः एवमेव व्यवहरन्ति । अतः तेषां विषये पूर्वजागरूकता वोढव्या ।
वृषभ-तुलाराश्योः शुक्रः अधिपतिः । ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा गुरुः । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं सूक्तनिर्णयान् स्वीकुर्वन् समस्यानिरारणाय प्रयतमानः परोपकारस्वभावी अस्ति । वृषभराशिवन्तः समाजे प्रभाविजनैः सह उत्तमबान्धव्यं सम्पादयन्ति । तद्वारा स्वस्य अन्येषां च कार्याणि साधयन्ति । स्वस्य शक्तेः अपेक्षया अधिकं प्रचारं प्राप्नुवन्ति एते । कदाचित् अयं स्वभावः व्यतिरेकपरिणामं जनयेत् । समस्यापरिहरणे एतेषां सामर्थ्यम् अधिकम् इत्यतः सर्वेषां प्रीतिपात्रताम् आप्नुवन्ति ।
वृषभः सहजद्वितीयभावः इति निर्दिश्यते । द्वितीयभावे धनम्, वाक्, कुटुम्बः, नेत्रे - इत्येते अंशाः भवन्ति ।
स्त्रीजातिः, स्थिरसंज्ञकः, भूमितत्त्वं, शीतलस्वभावः, कान्तिरहितः, दक्षिणदिशः स्वामी, वातप्रकृतिः, रात्रीबली, चतुश्चरणवान्, श्वेतवर्णः, महाशब्दकारी, विषमोदयी, मध्यमसन्ततिः, वैश्यवर्णः, शिथिलशरीरं चास्ति । अयं राशिः अर्धजलराशिः इत्युच्यते । अस्य स्वभावः स्वार्थी, सांसारिककार्येषु दक्षश्च भवति । अनेन कण्ठ-मुख-कपोलानां विचारः क्रियते । अस्य स्वामी शुक्रग्रहः वर्तते । उक्तं च -
वृषभराशौ कृत्तिकायाः २, ३, ४ पादाः, रोहिण्याः ४ पादाः, मृगशिरायाः प्रथम-द्वितीयपादौ भवन्ति इत्यतः ई, ऊ, ए, वो, वा, वी, वू, वे, वो ... इत्येतानि अक्षराणि वृषभसम्बद्धानि इति वक्तुं शक्यते ।
येषां जन्मदिनम् एप्रिल्-मासस्य २१ दिनाङ्कतः मेमासस्य २० दिनाङ्कतः पूर्वं भवति तेषां वृषभराशिः ।
This article uses material from the Wikipedia संस्कृतम् article वृषभराशिः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.