वररुचिः

वररुचिः प्राचीनभारतीयः ग्रन्थकर्ता अस्ति । भारतस्य नैके भागे अनेकेषु पुराणेतिहासस्य शास्त्राणां च ग्रन्थैः सह वररुचेः नाम श्रूयते । किन्तु अयं सः वररुचिः यः वार्तिककारः कात्यायनः इति प्रथितः। प्रकृतभाषायाः सर्वप्रथमव्याकरणग्रन्थस्य प्राकृतप्रकाशस्य रचयिता अयमेव वररुचिः इति पण्डितानां वादः । शकपुरुषस्य राज्ञः विक्रमादित्यस्य अस्थाने विद्यमानेषु नवरत्नेषु (नव पण्डितेषु) अन्यतमः । कथासरित्सागरम् नाम एकादशशतकस्य प्रसिद्धे महाग्रन्थे वररुचिः इति नाम प्रधानपात्रं वहति ।

कात्यायनः वार्तिककारः । वररुचिः इति एतस्य अपरं नाम । एषः कौशाम्बीनिवासी । सोमदत्तः एतस्य पिता । एषः दाक्षिणात्यः आसीत् । भाष्यकारः पतञ्जलिः एतं 'भगवान्’ इति, ’आचार्यः’ इति च आदरेण निर्दिशति । एतस्य कालः क्रि.पू. ४ शतकं स्यात् इति पण्डिताः भावयन्ति । वार्तिकानि नाम सूत्राणां व्याख्यानरूपाणि । सूत्रेषु प्रयुक्तानां पदानां प्रयोजनचिन्तनम्, अनुक्तानां पदानां योजनं, दुरुक्तानां पदानां समीकरणं च करोति वार्तिकम् । वार्तिकानि पृथग्ग्रन्थरूपेण न उपलभ्यन्ते । महाभाष्ये(पतञ्जलिकृते) तानि सम्मिलितानि सन्ति । कात्यायनस्य वार्तिकशैली सूत्रशैलीम् एव अनुकरोति । कात्यायनेन व्याकरणस्य समृद्धिः विशेषतः वर्धिता अस्ति ।

केरलराज्यस्य प्रसिद्धप्राचिनकथायां वररुचिः इति नाम प्रधानपत्रेण श्रूयते। संस्कृतभाषायां दशाधिकेषु पुराणेतिहासलेखेषु वररुचिः इति नाम दृश्यते । कात्यायनः इति नाम अपि षोढषसंस्कृतग्रन्थेषु अस्ति । खगोलशास्त्रस्य गणितस्य च दशाधिकग्रन्थानां सम्बन्धे वररुचेः नाम संलग्नमस्ति ।

अयं वररुचिः खगोलशास्त्रज्ञः दक्षिणभारते प्रसिद्धस्य वाक्यपञ्चाङ्गस्य मूलभूतस्य वाक्यकारणम् इति ग्रन्थस्य रचयिता । सः तमिळुनाडुप्रान्तीयः इति तस्य कृतेः आरम्भे एव स्पष्टं कृतवान् । अयं ग्रन्थः क्रि.श.१२८२तमे वर्षे तमिळुनाडुराज्यस्य काञ्जीप्रदेशे लिखितः इत्यपि ज्ञायते ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१०५४२०१०अलङ्कारशास्त्रम्क्षीरपथ-आकाशगङ्गाशरीरं च रक्तवाः स्रोतआर्मीनिया१८०७ब्राह्मणम्मिनेसोटा२६पाणिनिःमीमांसादर्शनम्एप्पल्लेखाअजोऽपि सन्नव्ययात्मा...उपमेयोपमालङ्कारःकालिदासःबिहार विधानसभाअलवरअण्टीग्वाराँचीविश्रवाःविक्रमोर्वशीयम्गद्यकाव्यम्सूत्रलक्षणम्अर्जुनविषादयोगःजीवनीजया किशोरीवैश्विकस्थितिसूचकपद्धतिःदर्शन् रङ्गनाथन्अरुणाचलप्रदेशराज्यम्वेदाविनाशिनं नित्यं...पाणिनीया शिक्षासावित्रीबाई फुलेनास्ति बुद्धिरयुक्तस्य...इङ्गुदवृक्षःवर्षःचार्वाकदर्शनम्साहित्यशास्त्रम्क्रीडासंस्कृतम्संस्कृतसाहित्यशास्त्रम्शब्दःपी टी उषास्वास्थ्यम्प्रकरणम् (दशरूपकम्)अण्डोरारत्नावली३५८पञ्चतन्त्रम्साङ्ख्यदर्शनम्सङ्गणकम्सचिन तेण्डुलकररूपकालङ्कारःभारतस्य इतिहासः२४विश्वकोशःमैथुनम्द हिन्दूवि के गोकाकलेसोथोए आर् रहमान्इस्लाम्-मतम्१८१४कङ्गारूयजुर्वेदःआङ्ग्लविकिपीडिया१३१५चम्पादेशः२०१५१८१८मिथकशास्त्रम्शुष्कफलानियोगदर्शनस्य इतिहासः🡆 More