मूला

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते मूलानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् मूलानक्षत्रं भवति नवदशं नक्षत्रम् । आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

मूला
मूलानक्षत्रम्

आकृतिः

मूला कुप्यत्केसरि पञ्च - कुपितस्य केसरिणः आकृतौ विद्यमानानि पञ्च नक्षत्राणि ।

सम्बद्धानि अक्षराणि

ये यो बा बि - मूलानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्

    उदगातां भगवती विचृती नाम तारके ।
    वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥

वैदिकसाहित्ये इदं नक्षत्रं 'विचृतिः' 'मूलबर्हणः' इत्यादिभिः नामभिः निर्दिष्टमस्ति । तैत्तिरीयसंहितायाम् अस्य नक्षत्रस्य स्वामी पितरः इति क्वचित्, निर्ऋतिः इति क्वचिच्च उल्लिखितमस्ति । निर्ऋतिः दिक्पालः अस्ति । अस्मिन् एव नक्षत्रे देवाः असुराणां मूलोत्पाटनम् अकुर्वन् । अस्मिन् नक्षत्रे जातः अनिष्टकारकः, कुलनाशकः भवति इति निर्दिष्टमस्ति ।

आश्रिताः पदार्थाः

    मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः ।
    बीजान्यतिधनयुक्ताः फलमूलैर्ये च वर्तन्ते ॥

भेषजमौषधम् । भिषजो वैद्याः । गणमुख्याः समूहप्रधानाः । कुसुममूलफलवार्ताः । कुसुमानि पुष्पाणि, मूलानि फलानि च वार्ता वृत्तिर्येषाम् । बीजानि सर्वाणि यान्युप्यन्ते । ये चातिधनयुक्ताः प्रभूतवित्तसमन्विताः । ये च फलमूलैर्वर्तन्ते जीवन्ति । ते सर्व एव मूले ॥

स्वरूपम्

    कृषिभवनविपिनकार्यं वापीकूपादिबीजनिर्वापम् ।
    समरविभूषणशिल्पं विग्रहसन्धिश्च मूलनक्षत्रे ॥

मूलानक्षत्रे कृषिः, भवनम्, वनकार्यम्, वापिकार्यम्, बीजावापनम्, युद्धकार्यम्, सन्धिकार्यम् इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

तीक्ष्णसंज्ञकनक्षत्राणि

    मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति ।
    अभिघातमन्त्रवेतालबन्धभेदसम्बद्धाः

अथ तीक्ष्णानि नक्षत्राणि तैर्यानि कर्माणि क्रियन्ते तानि चाह - मूलं प्रसिद्धम् । शिवाधिपमार्द्रा । शक्राधिपं ज्येष्ठा । भुजगाधिपं सर्पदैवत्यमाश्लेषा । एतानि नक्षत्राणि तीक्ष्णानि दारुणानीत्यर्थः । तेषु तीक्ष्णेषु सिद्ध्यन्ति । के ते ? अभिघात उपद्रवः । मन्त्रो मन्त्रसाधनप्रयोगः । वेतालं वेतालोत्थापनादिकर्म । बन्धो बन्धनम् । वधस्ताडनम् । भेदः पृथ्क्करणं श्लिष्टयोर्द्वयोः । सम्बन्धो राजकुल आवेदनम् । एते सिद्ध्यन्ति ।

पश्य

Tags:

मूला आकृतिःमूला सम्बद्धानि अक्षराणिमूला अधिदैवम्, वैदिकविवेचनम्मूला आश्रिताः पदार्थाःमूला स्वरूपम्मूला तीक्ष्णसंज्ञकनक्षत्राणिमूला पश्यमूलारविः

🔥 Trending searches on Wiki संस्कृतम्:

श्वेतःमिकी माउससरोजिनी नायुडुभक्तिःपञ्चाङ्गम्जार्ज ३3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्मङ्गलःकालिदासस्य उपमाप्रसक्तिःविद्युदणुः१८५०हितोपदेशःभारविःओषधयःह्रीसंस्कृतभारत्याः कार्यपद्धतिःउपसर्गःकाव्यम्अन्ताराष्ट्रियः व्यापारःइग्नेसी ल्युकसिविक्जकेन्या१८८०अन्तर्जालम्सचिन तेण्डुलकरघ्५८७विजयनगरसाम्राज्यम्न हि कश्चित्क्षणमपि...पी टी उषानव रसाःसर्वपल्ली राधाकृष्णन्सुमित्रानन्दन पन्तलाट्वियाकर्तृकारकम्देवगिरि शिखरम्१५९५द्वारकाद्वीपःइतिहासःकैटरीना कैफशुनकःतर्कसङ्ग्रहःरामायणम्२१ जुलाईमन्त्रःहास्यरसःब्धर्मकीर्तिः१४७८रत्नावलीबाणभट्टः१३८७पेलेअग्रिजेन्तो१०९०ऋतवःभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेकुमारसम्भवम्चार्ल्सटन्रोनाल्द रेगनभारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःतपस्विभ्योऽधिको योगी...पाटलीपुत्रम्प्राणायामःअर्थशास्त्रम् (शास्त्रम्)१७१२४२०इष्टान्भोगान् हि वो देवा...सांख्ययोगःनीलःबुधवासरः🡆 More