तात्पर्यचन्द्रिकोक्तदिशा कर्तृत्वाधिकरणविमर्शः अत्र चिकीर्षितः । प्रथमतः अद्वैतसिध्दान्तानुरोधेन अधिकरणरचनक्रमः प्रदर्श्यते । अद्वैतनयानुरोधेन सप्तसूत्राणि –कर्ता शास्त्रार्थवत्वात् (२.३.४.३३.) विहारोपदेशात् ३४, उपादानात् ३५, व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ३६, उपलब्धिवदनियमः ३७, शक्तिविपर्ययात् ३८, समाध्यभावाच्च ३९, यथा न तक्षोभयथा ४० ।
कर्तृत्वाधिकरणम् | |
---|---|
रामानुजाचार्यस्य चित्रम् |
जीवस्य कर्तृत्व एव ‘जुहुयाद्’ ‘दद्यात्’ इत्यादिशास्त्रमर्थवद्भवतीति अङ्गीकार्यमेव कर्तृत्वम् । शास्त्रफलं प्रयोक्तरि (अनुष्ठातरि) तल्लक्षणत्वात् (प्रयोक्तृफलसाधनतालक्षणत्वात् ) इति जैमिन्युक्तेश्च । विहारोपदेशात्, ‘प्राणान् गृहीत्वा’ इति करणानामुपादानप्रतीतेश्च जीव एव कर्ता । जीवस्य कर्तृत्व्ं हि ‘विज्ञानं यज्ञं तनुत’ इति प्रसिध्दम् , न चात्र बुध्दिर्निर्दिष्टा । अन्यथा विज्ञानेनेति निर्देशविपर्ययः स्यात् । न च इष्टानुपलब्ध्यनिष्टोपलब्धिदर्शनात् न जीवः स्वतन्त्रः । तस्मान्न कर्तेति शड्क्यम् । करणादीनि कर्ता उपयुञ्जन्नेव कर्म करोति । क्वचिदिष्टमभिप्रेप्सुरदृष्टवशात्तत्साधनविभ्रमेणानिष्टोपायं व्यापारयन्ननिष्टं लभते । न चैतावता स्वतन्त्र्याभावेऽपि कर्तृत्वं नास्तीत्यापन्नम् ।
यदि बुध्दिः कर्त्री तर्हि करणशक्तिर्हीयेत कर्तृशक्तिश्चापद्येत् । बुध्देः कर्तृशक्तौ तस्य एव अहंप्रत्ययविष्यत्वमभ्युपेयं स्यात् । किञ्च ‘आत्मा वारे द्र्ष्टव्यः’ इत्यादौ य आत्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टः वेदान्तेषु स च आत्मनोऽकर्तृत्वे अनुपपन्न एव भवति । यथा च तक्षोभयथा ४० (अधिकरण ५ )
अभ्युपगतमात्मनः कर्तृत्वम् । न चैतत् स्वाभाविकम् । तथात्वे चानिर्मोक्षप्रसङ्गः । ‘ध्यायतीव’ ‘लेलायतीव’ ‘नान्योतोऽस्ति द्र्ष्टा’ इत्यादौ श्रुतिर्निर्विशेषचैतन्यावस्थानमेव मुक्तिमभिदधति । यथा तक्षा वात्स्यादिकरणहस्तः कर्ता दुःखी च भवति, तद्विहीनश्चाकर्ता सुखी च भवति गृहे, तद्वत् जागरितस्वप्नयोरविद्योपस्थापितद्वैतसंपृक्त आत्मा कर्ता दुःखी च भवति । तद्विहीनश्च सम्प्रसादोऽकर्ता सुखी च भवति । एवमेव मुक्तावपि विद्योदयेनाकर्ता सुखी तिष्ठति तस्मान्न कर्तृत्वं स्वाभाविकम् । परात्तु तच्छ्रतेः ४१ (अधिकरण ६)
ईश्वरस्य कारयितृत्वे तस्य वैषम्यादि प्रसज्यत इति जीव एव कर्तेति प्राप्ते निराचकार भगवान् पाराशरः ‘परात्तु तच्छ्र्तेः’ इति । ‘एष ह्येव साधु कर्म कारयति’ इति श्रुत्या ईश्वरस्य कारयितृत्वमविद्यावस्थायामभ्युपेयमेवेति ।
रामानुजीये तु कर्तृधिकरणं सूत्रषट्कोपेतम् । ते हि उपादानाद्विहारोपदेशात् इति मिलित्वैकं सूत्रमामनन्ति । ततः परायत्ताधिकरणम् (६ अधिकरण) तत्र शाङ्कराणामिव द्वौ सूत्रौ विद्येते । अयमधिकरणसारः विशिष्टाद्वैतनये- आत्मनो ह्यकर्तृत्वं गुणानां च कर्तृत्वमाध्यात्मशास्त्रे श्रूयते – ‘ न जायते म्रियते’ इति ‘प्रकृतेः क्रियमाणानि’ ‘नान्यं गुणेभ्यः कर्तारं’------------- इति च । अतः पुरुषस्य केवलं भोक्तृत्वमेव न कर्तृत्वमिति । तत्र प्र्तिविहितं-कर्ता शास्त्रार्थ वत्वात् इति । आत्मैव कर्ता न् गुणाः । ‘यजेत् स्वर्गकाम’ इत्यादिशास्त्राणि भोक्तारमेव कर्तारं प्रतिपादयन्ति । अत एव शास्त्रास्यार्थवत्वम् । न चाचेतनस्य प्रधानस्य विधिनिषेधादिकमर्थवत् भवति । तदुक्तं जैमिनीये- ‘शास्त्रफलं प्रयोक्तरि’ इति । आत्मनः कर्तृत्वनिषेधवचनानि तु केवलस्यात्मनः कर्तृत्वं निराकुर्वतः इति न विरोधगन्धः ।
आत्मनोऽकर्त्रृत्वे दोष उच्यते । प्रकृतेः कर्तृत्वे तस्याः सर्वपुरुषसाधारण्यात् सर्वाणि कर्माणि सर्वेषां भोगाय स्युः । नैव वा कस्यचित । आत्मनां विभुत्वाभ्युपगात् सन्निधानमपि सर्वेषामविशिष्टम् ।
बुध्देः कर्तृत्वे कर्त्रन्यस्य भोक्तृत्वानुपपत्तेः भोक्तृशक्तिरपि तस्या एव भवेत् । ततश्चात्मसद्भावे प्रमाणाभावः साड्ख्यानाम् । ‘पुरुषोऽस्ति भोक्तृभावात्’ इति हि तेषामभ्युपगमः ।
बुध्देः कर्तृत्वे मोक्षसाधनसमाधावपि सैव कर्त्रीति वाच्यम् । समाधिश्च प्रकृतेरन्योऽहमस्मीत्येवमाकार अभ्युपगतः साड्ख्यैः । न च प्रकृतेरन्योऽस्मीति प्रकृतिः समाधातुमलम् । अतोऽप्यात्मैव कर्ता ।
आत्मनः कर्तृत्वे सर्वदा कर्तृत्वं नोपरमेतेत्यत्राह- यथा चेति । यथा तक्षा वास्यादिकरणसम्पन्नोऽपि इच्छानुगुण्येन करोति तदभावे च न करोति तथैवात्मापि वागादिकरणसम्पन्नोऽपि यदेच्छति तदा करोति । तदभावे च तदभावः ।
यो हि स्वबुध्द्या प्रवृत्तिनिवृत्यारम्भकः स एव नियोज्य इति । कर्तृत्वं जीवस्य स्वातन्त्र्येणैवेति पूर्वपक्षिते परात्तु इत्यत्र तु शब्देन ईश्वराधीनमेव कर्तृत्वं जीवस्येत्याह सूत्रकारः । अत एवोक्तम् –‘अन्तः प्रविष्टः शास्ता जनानाम्’ इति ‘य आत्मानमन्तरो यमयति’ ‘सर्वस्य चाहं हृदि’ ‘ईश्वरः सर्वभूतानाम्’ इति च ।
अत्रेदं रहस्यम् –पराधीनकर्तृत्वेऽपि जीवस्य परमात्मनः स्वतन्त्रकर्तूत्वेन तस्यैव फलभोक्तृत्वं वैषम्यादिकञ्च दुर्वारम् । जीवस्य कदाचिदपि स्वातन्त्र्यानभ्युपगमे नैषा शङ्का दूरोत्सारिता भवति । अत एव समाधिरियं भवति –प्रथम्-प्रवृत्तौ जीवः ईश्वरदत्तस्वातन्त्र्येण कर्मणि प्रवर्तते । तदा तु नेश्वरः कर्ता कारयिता वा । अपि तु केवलमनुमन्ता उपेक्षकश्च । द्वितीयादिप्रवृत्तौ तु प्राक्तनकर्मानुरोधेन फलदातृत्वात् नेश्वरस्य वैषम्यादि । तदुक्तम्-
तत्त्वमार्ताण्डे स्वमतसमर्थनम्- शास्त्रार्थवत्त्वाय हि जीवस्य कर्तृत्वं कल्प्यम् । तद्यदि प्रथमप्रवृत्तावपि परायत्तं तदा शास्त्रार्थवत्वं न सिध्द्येत् । ईश्वरस्य फलभाक्तत्वं च स्यात् । प्रेर्यभृत्यन्यायेन जीवस्य फलान्वेयो न स्यात् । प्रथमप्रवृत्तौ जीवस्य स्वातन्त्र्ये ईश्वरस्यौदासीन्ये च न काचिदनुपपत्तिः इच्छाशक्तिमत्त्वे सति तन्निवारणसामर्थ्यं स्वातन्त्र्यं जीवस्य विषान्नभक्षणादिस्थले दृष्टम् । प्रथमप्रवृत्तावौदासीन्येऽपि ईश्वरस्य न स्वातन्त्र्यभङ्गः करणकलेवरादिदानात् ।
न च द्वितीयादिप्रवृत्तावपीश्वरस्यौदासीन्यप्रसङ्गः । असन्निहितवस्तुसन्निधापनाय तत्रेश्वरव्यापारावश्यंभावात् । अन्यथा प्राचीनकर्मफलदातृत्वमीश्वरस्य न स्यात् । अतः प्रथमप्रवृत्त्यनुगुणफलसिध्द्यनुकूलतत्तदुपकारे भगवद्भिसन्धिरावश्यक इति तत्रानुमन्तृत्वम् । प्रथमप्रवृत्तावन्यफलदित्साभिसन्धिर्नास्तीति तस्यौदासीन्यम् ।
महानिष्टफलकप्रवृत्तेरनिवर्तने को दोष ईश्वरस्य । तस्यापि तदनिष्टं स्यादिति वा तस्य नैर्घृण्यं स्यादिति वा । नाद्यः । प्रथमप्रवृत्तावौदासीन्येन तत्प्रसङ्गाभावात् । पुत्रयोः क्षेत्रादिविभाजकपितृवत् । न च पुत्रयोः सदसद्व्ययज्ञानाज्ञानाभ्यां तदनुमन्तृत्वाननुमन्तृत्वाभ्यां प्रथमप्रवृत्तिहेतुत्वाहेतुत्वाभ्यां विशेष इति वाच्यम् । ज्ञानाज्ञानयोरप्रयोजकत्वात् । पितुरप्यनुमन्तृत्वात् । पितुरसद्व्ययाभिसन्धिर्नास्तीति चेदीश्वरस्यापि तथैव । प्राचीनकर्मफलतयैवानुष्ठापनात्, अन्यफल्दित्साभिसन्ध्यभावात् । नन्वनिष्टफलं नियमेन जायत इति जानत ईश्वरस्य कथं तत्रोदासीन्यम् । घटपट- प्रासादरथ्या –दीपदृष्टान्तः ।
न चेश्वरस्य घातुकत्वप्रसङ्गः । आचार्यशास्त्रदेहादिदानेन विशेषोपकारात् । नैर्घृण्यप्रसङ्गस्तु नास्ति । मोक्षप्रतिबन्धकानामनुभवैकनाश्यानां कर्माणां ……… । वैद्यदृष्टान्तः । अतः सङ्कोचः । यत्रादावेव प्रयोजकत्वं तत्र सार्वभौमन्यायेन दोषः परास्तः । तत्त्वमार्ताण्डे चन्द्रिकादूषणम्
ऎकाधिकरण्यमयुक्तम् । कर्तृत्वसमर्थनानन्तरमेव पराधीनत्वविचारस्य सङ्गतत्वात् शास्त्रार्थवत्त्व विहितप्रतिषेधावैयर्थ्य इत्यनयोः पौनरुक्तयं च । पूर्वपक्षश्चायुक्तः । कर्तृत्वमात्रसाधनेन शास्त्रार्थवत्त्वासिध्देः । तदा हिताकरणादियुक्तिसाचिव्यासिध्देर्न पूर्वपक्षस्य बलीयस्त्वम् । कथञ्चित् पूर्वपक्षसम्भवेऽपि कर्तेति परात्त्विति सूत्रयोः ==पौनरुक्त्यम्== सिध्दान्तोऽप्ययुक्तः । परतन्त्रकर्तुर्विधिनिषेधानन्वयात् भृत्यवत् । तक्षादिवच्चेत् अस्मदिष्टम् । तस्य तक्षणादौ स्वातन्त्र्याङ्गीकारात् । तादृशमेवेश्वरस्य प्रथमप्रवृत्तावौदासीन्यम् । प्रथमप्रवृत्तेरभयेच्छाजन्यत्वे फलस्योभयगामित्वं स्यात् तक्षयजमानयोरिव । सर्वस्येश्वरेच्छाप्रयोज्यत्वं सामान्याकारेणैव न तु विशेषाकारेणेति नास्माकं दोषः । राजेच्छाप्रयोज्यभृत्ययुध्दजन्यफलस्य राजगामित्वं तदिच्छप्रयोज्यभृत्यभोजनजन्यतृप्तेर्भृत्यगामित्वं च दृष्टम् । माणवकादिस्थलेऽपि पितुः फलान्वयोऽस्ति । विष्टिस्थलेऽपि राजभृत्यस्य तथा ।
प्रथमप्रवृत्तौ प्राचीनकर्मफलतया अनुष्ठापयामीति ईश्वराभिसन्धिः द्वितीयादिप्रवृत्तौ प्रथमप्रवृत्तिफलतया फलान्तरदित्सया च अनुष्ठापयामीति ईश्वराभिसन्धिरित्युक्तम् । तत्र नियामकं किम् ?
पराधीनकर्तुरपि फलभाक्तत्वं लोके सिध्दमिति सिध्दान्तेऽप्युपपन्न एव ।
F.N. Page 3 ०१. तत्त्वसारः २.३.६.P.91
This article uses material from the Wikipedia संस्कृतम् article कर्तृत्वाधिकरणम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.