ऐजोलमण्डलम्

ऐजोलमण्डलम् (आङ्ग्ल: Aizawl District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् ऐजोल इत्येतन्नगरम् ।

ऐजोलमण्डलम्

Aizawl district
मण्डलम्
मिझोरामराज्ये ऐजोलमण्डलम्
मिझोरामराज्ये ऐजोलमण्डलम्
देशः ऐजोलमण्डलम् India
जिल्हा ऐजोलमण्डलम्
विस्तारः ३,५७६ च.कि.मी.
जनसङ्ख्या(२०११) ४,००,३०९
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://aizawl.nic.in/index.htm
ऐजोलमण्डलम्
मिझोराम राज्यसङ्ग्रहालयः
ऐजोलमण्डलम्
ऐजोलनगरे प्रकृतिसौन्दर्यस्य एकं दृश्यम्

भौगोलिकम्

ऐजोलमण्डलस्य विस्तारः ३,५७६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि चम्पायमण्डलं, पश्चिमदिशि कोलासिबमण्डलं, मामितमण्डलं च, दक्षिणदिशि सेरसिपमण्डलं, लुङ्गलैमण्डलं च, उत्तरदिशि मणिपुरराज्यम्, असामराज्यं च अस्ति ।

जनसङ्ख्या

ऐजोलमण्डलस्य जनसङ्ख्या(२०११) ४,००,३०९ अस्ति । अस्मिन् १,९९,२७० पुरुषाः, २,०१,०३९ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ११२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००९ अस्ति । अत्र साक्षरता ९७.८९ % अस्ति । मण्डलेऽस्मिन् २१.३७% जनाः ग्रामेषु निवसन्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च-उपमण्डलानि सन्ति तानि -

  • दार्लोन
  • फुल्लेन्
  • त्लाङ्गनाम
  • थिङ्गसुम्थ्लैह्
  • ऐबोक्

लोकजीवनम्

पर्यटनम् अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । अस्य प्रदेशस्य आदिवासिसंस्कृतिः --म्यानमारदेशस्य संस्कृतिः एतयोः सादृश्यं दृश्यते । अत्रस्थाः जनाः सामान्यतः मिजो, आङ्ग्लं, हिन्दी इत्येताः भाषाः वदन्ति । मिजोरामराज्यस्य, ऐजोलमण्डलस्य च राजधानीभूतम् ऐजोल इत्येतन्नगरं मिजोरामराज्यस्य उद्योगानां, सर्वकारकार्यालयाणां च केन्द्रम् अस्ति । पर्यटनव्यवसायः बहुसङ्ख्यजनानां जीविकासाधनं वर्तते । अस्य परिसरस्य प्रकृतिसौन्दर्यं, जीववैविध्यं च विशिष्टम् । तद् द्रष्टुं बहुसङ्ख्यजनाः आगच्छन्ति ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

ऐजोलमण्डलम् 
पलक सरोवरः
ऐजोलमण्डलम् 
ऐजोल
  • वन्तोङ्ग जलप्रपातः
  • पलक सरोवरः
  • फोङ्गुइ
  • मिजोराम राज्यसङ्ग्रहालयः
  • पुक्झिङ्ग गह्वरः
  • तम्दिल् सरः
  • बोरा व्यापारीकेन्द्रम्
  • वयनकेन्द्रम्
  • बेरात्लोङ्ग इत्यत्र विज्ञानकेन्द्रम्

बाह्यानुबन्धाः


Tags:

ऐजोलमण्डलम् भौगोलिकम्ऐजोलमण्डलम् जनसङ्ख्याऐजोलमण्डलम् उपमण्डलानिऐजोलमण्डलम् लोकजीवनम्ऐजोलमण्डलम् वीक्षणीयस्थलानिऐजोलमण्डलम् बाह्यानुबन्धाःऐजोलमण्डलम्आङ्ग्लभाषाऐज़ौलमिजोरमराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

महात्मा गान्धीमालविकाग्निमित्रम्प्राचीनवंशावलीकुतस्त्वा कश्मलमिदं...इण्डोनेशिया१६४८मोनाकोमाधवीअनन्यचेताः सततं...कुमारसम्भवम्मेलबॉर्नकणादःबहामाससरदार वल्लभभाई पटेलमाण्डूक्योपनिषत्सितम्बर १७पुंसवनसंस्कारःअक्षरं ब्रह्म परमं...शिक्षापिकःधर्मकीर्तिः१०१३२११शनिःसुमुखी१४०८९८पञ्चगव्यम्कृष्णः५ फरवरीसमासःसेम पित्रोडा२३८राधाविकिमीडिया3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्विजयनगरसाम्राज्यम्तुलसीदासःपुर्तगालइलेनॉइस्भगत सिंह१२१३अम्बिकादत्तव्यासःकदलीफलम्१३ मार्चसरोजिनी नायुडु११३८२०११रामः१६०अलङ्काराःमरीचिका (शाकम्)वाशिङ्टन्उदयनाचार्यःव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)८३३द्कालिका पुराणजातीइस्रेलम्लेलिह्यसे ग्रसमानः...कैटरीना कैफ🡆 More