मध्यावकाशान् पूरयति- नाम तस्मिन् विषये विद्यमानाः अन्ये लेखाः वर्णनार्थम् एकांशं कञ्चित् गृह्णन्ति चेत्, अयं लेखः सर्वान् अंशान् गृह्णाति। उत्तमं शीर्षकं धारयति- येनायम् अन्यैः लेखैः सह सम्बद्धीकर्त्तुं शक्यते, अपि च नामपद्धतिम् अनुसरेत्। स्वविषयस्य स्पष्टवर्णनेन सह समारभते- अस्य लेखस्य अग्र्ये परिच्छेदे, विषयश्च तस्य अर्थवत्ता च स्पष्टतया, शुद्धतया च भवेत्, परन्तु नाधिकेन विस्तरेणापि। अवगम्यः स्यात्- लेखोऽयं विशेषज्ञेभ्यः अविशेषज्ञेभ्यश्च स्पष्टत्वेन व्यञ्जितं स्यात्। तदर्थं यथेष्टः विस्तारः स्यात्- विषयमधिकृत्य गहनम् अन्वेषणं स्यात् व्याख्या च भवितव्या। प्रायेण स्वयम्पूर्णः स्यात्- तस्मिन् पारिभाषिकानां शब्दानाम् अर्थाः अन्या च आवश्यकी सूचना स्यात्, तस्य च अवगमनार्थम् अन्यः लेखः प्रायेण न अपेक्ष्येत। शाखावत् बहिर्विस्तारः स्यात्-एतस्मिन् लेखे अन्यान् लेखान् प्रति सम्पर्कतन्तूनि भवन्ति, अन्येषाम् उपयोगि-लेखानां च उल्लेखः भवति। बाह्यस्रोतसां च सूचना भवति येन विषयस्य तस्य अधिकम् अध्ययनं कर्त्तुं साहाय्यं प्राप्येत। शाखाभिः सम्प्राप्यः स्यात्- अन्यान्यपि विकिपृष्ठानि तत्र भवितव्यानि यत्र एतं लेखं प्रति सम्पर्कतन्तूनि विद्येरन्। विषयस्य सर्वान् आयामान् अनुमन्यते अन्विष्यते च- विश्वकोशदृष्ट्या विषयस्य तस्य सर्वान् आयामान् सम्यक् वर्णयेत्। सर्वथा तटस्थतया निष्पक्षतया च वर्तेत- तस्य तटस्थं दृष्टिस्थानं स्यात्। नाम तत्र विवादानधिकृत्य परस्परस्पर्धिदृष्टिकोणाः तार्किकरूपेण निष्पक्षरूपेण च प्रस्तुताः स्युः। तस्मिँल्लेखे सर्वेऽपि पक्षाः सूचिताः भवन्ति, न कोऽपि पक्षश्च अनुचितरूपेण समर्थितो भवति। एवं सत्यपि तथ्यान्विततमाः सुस्वीकृताश्च दृष्टिकोणाः प्रबलीकृताः भवन्ति तत्र, अल्पस्वीकृताश्च पक्षाः गौणतया उल्लिख्यन्ते; तत्रापि सुपर्याप्ता सूचना स्रोतांसि (सन्दर्भाः) च स्युः, येन पाठकाः दृष्टिकोणविशेषम् (मतविशेषम्) अधिकृत्य अधिकं ज्ञातुं शक्नुयुः। समीचीनतया दीर्घः स्यात्- एतस्य दीर्घता समीचीना स्याद् येनात्र सुपर्याप्ता सूचना, गहनता, विषयविश्लेषणं च वर्तेत, न पुनः फल्गु विस्तारः स्यात्। या सूचना उपलेखेषु, समबन्धितेषु वा लेखेषु, इतरेषु वा विकिप्रकल्पेषु स्थातुम् अर्हति सा तत्रैव स्यात्। विशेषज्ञानां ज्ञानं प्रकाशयेत्- अयं तथ्यमूलकं स्यात्, तथा च सुष्ठु-विद्वत्तापूर्णेषु तर्कसम्मतेषु च सिद्धान्तेषु आश्रितः स्यात्। परिशुद्धः स्फुटश्च स्यात्- नैतस्मिन् अस्पष्टानि सामान्यीकृतकथनानि स्युः, न च अर्द्धसत्यानि, यानि तु विषयस्य अर्द्धज्ञानाद् उद्भवन्ति प्रायः। सम्यक् अभिलेखोपेतः स्यात्; सर्वेऽत्र तथ्यानि मतानि च प्रतिष्ठितेभ्यः स्रोतोभ्यः उद्धृतानि स्युः, स्रोतांसि च सम्प्राप्यानि स्युः अद्यावधि स्थित्यनुसारीणि च स्युः। तेषु विकिलेखेषु मौलिकं लेखनं भवितुमर्हति परन्तु न मौलिकम् अनुसन्धानं स्यात्; प्रायेण विकिपीडियालेखः विकिपीडियाप्रयोक्तॄणां लिखितकार्यम् अस्ति, परन्तु तत्र नेतरस्य प्रतिलिप्यधिकारो हन्तव्यः कदापि। न च तत्र अन्यस्य कार्यस्य प्रतिकृतिः कर्त्तव्या। परन्तु लेखस्य सूचनासारस्तु सावधानतया विश्वासार्हः कर्त्तव्यः। अपि च उद्धरणानि भवन्ति चेत्, तानि सर्वाणि उद्धरणचिह्नोपेतानि स्युः, स्रोतःसूचनायुतानि च स्युः। स्पष्टः स्यात्; द्व्यर्थितां निवार्य तिष्ठेत्, न तत्र दुरवगमनं स्यात्। तर्कसम्मता तस्य संरचना भवितव्या, सरला स्पष्टा च तस्य गद्यभाषा स्यात्; अनुपयोगिपदानि तत्र न स्युः। मनोरमोऽपि स्यात्- तस्य भाषा वर्णनात्मिका स्यात्, स्वरश्च तस्य रुचिकरः विश्वकोशार्हश्च स्यात्। भाषायाः प्रामाणिकरूपम् अनुसरेत्, नाम तस्मिन् व्याकरणसम्मतता स्यात्। लकाराणां प्रयोगः समः स्यात्। विरामचिह्नानि, आनुपूर्व्यः, पदविन्यासाश्च समाः स्युः। सूचनायुतानि यथाप्रसङ्गानि चित्राणि स्युः- तेषु च- मानचित्राणि, हस्तकृतचित्राणि, कलाकृतयः, छायाचित्राणि च- येन पाठकस्य रुचिः वर्धते अथवा पाठस्य अवगमनं सुकरं भवति। तान्यपि न बहुसङ्ख्याकानि स्युः नोचेत् पाठकः अरुचिं प्राप्नुयात्। प्रत्येके च चित्रे एकः व्याख्याकारी पाठः भवेत्, अप्येकः चित्रस्य विकल्पत्वेन दर्शनीयः पाठः भवेत् (ALT text इत्येतत्)। सुतरां वर्गीकृतः स्यात् येन तस्यान्वेषणं, समूहीकरणं च सुकरं स्यात्। यथाशक्यम् अन्यभाषाभ्यः सम्पर्कतन्तूनि स्युः। न पूर्णतया सम्प्राप्तुं शक्यते। सम्पादनेभ्यः लेखः कश्चित् सर्वाङ्गपूर्णत्वम् उपगन्तुं शक्नोति, परन्तु भिन्नेभ्यः प्रयोक्तॄभ्यः सर्वाङ्गपूर्णत्वम् इत्येतस्य भिन्नोऽर्थः स्यात्। तस्मात् सर्वाङ्गपूर्णः लेखः प्राप्तुं सदा प्रयतितव्यम् इति।
This article uses material from the Wikipedia संस्कृतम् article विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.