वाग्भटालङ्कारः

वाग्भटेन वाग्भटालङ्कारः(Vagbhatalankara) इति ग्रन्थः लिखितः । अस्मिन् प्रधानाः अलङ्काराः सर्वेऽपि सन्ति । अस्मिन् ५ परिच्छेदाःसन्ति । अत्र च काव्यलक्षणम्, काव्यसमयः, काव्यभाषा, गुणाः, दोषाः, अलङ्काराः, रीतयः, रसाः, इत्यादयः विचाराः निरूपिताः ।

प्रथमपरिच्छेदः

अस्मिन् व्युत्पत्तिः, अभ्यासः, कविसमयः च विद्यते ।

द्वितीयपरिच्छेदः

प्राकृतादिभाषालक्षणम्, काव्यदोषविवरणम्, उदाहरणानि च विद्यन्ते ।

तृतीयपरिच्छेदः

औदार्यसमतादिकाव्यगुणलक्षणानि विवृतानि सन्ति ।

चतुर्थपरिच्छेदः

शब्दालङ्कारलक्षणानि, अर्थालङ्कारलक्षणानि, काव्यरीतिः च अत्र उच्यन्ते ।

पञ्चमपरिच्छेदः

नवरसलक्षणानि, विभावानुभावरीतयः च मनोहरशैल्या सङ्गृहीताः सन्ति ।

अत्रत्यानि उदाहरणानि किं स्वयं रचितानि उत अन्येभ्यः ग्रन्थेभ्यः स्वीकृतानि इति न ज्ञायते । अस्य शैली सरसा इत्यत्र न विप्रतिपत्तिः । बोधप्रदाः केचन श्लोकाः अत्र उदाह्रियन्ते ।

    पतितानां संसर्गम् त्यजन्ति दूरेण निर्मला गुणिनः ।
    इति कथयन् जरतीनां हारः परिहरसि कुचयुगलम् ॥ (४, ८३)
    ग्रामे वासो नायको निर्विवेकः ।
    कौटिल्यानामेकपात्रं कलत्रम् ।
    नित्यं रोगः पारवश्यं च पुंसाम् ।
    एतत्सर्वं जीवतामेव मृत्युः ॥ (पृ १०७, श्लोकः १३३)

इदम् अत्यपकृष्ट-समुच्चयालङ्कारस्य उदाहरणम् ।

प्रश्नोत्तरालङ्कारस्य उदाहरणम् -

    क्व वसन्ति श्रियो नित्यं भूभृतां वद कोविद ।
    असावतिशयः कोऽपि यदुक्तमपि नोह्यते ॥ (पृ १०, श्लो १४६)

व्याख्यानकाराः

१ आदिनाथः / जिनवर्धनसूरिः२ सिंहदेवगणि ३ मूर्तिधरः ४ क्षेमहंसगणिः ५ समयसुन्दरः ६ अनन्तभट्टस्य पुत्रः गणेशः ७ राजहंसः ८ वाचनाचार्यः अन्यौ अनामधेयौ च व्याख्यानं लिखितवन्तौ स्तः ।

सम्बद्धाः लेखाः

Tags:

वाग्भटालङ्कारः प्रथमपरिच्छेदःवाग्भटालङ्कारः द्वितीयपरिच्छेदःवाग्भटालङ्कारः तृतीयपरिच्छेदःवाग्भटालङ्कारः चतुर्थपरिच्छेदःवाग्भटालङ्कारः पञ्चमपरिच्छेदःवाग्भटालङ्कारः व्याख्यानकाराःवाग्भटालङ्कारः सम्बद्धाः लेखाःवाग्भटालङ्कारः

🔥 Trending searches on Wiki संस्कृतम्:

मृच्छकटिकम्तत्त्वज्ञानम्रसगङ्गाधरःरामायणम्७९वेदाङ्गम्३६८रास्या१००८२२५आत्मा२६४शकुन्तला४४४मुहम्मद इकबाल१५०७दशकुमारचरितम्शुकःकिरण बेदीनेपोलियन बोनापार्टअष्टाङ्गयोगःजर्मनभाषा१४ अप्रैलकालिदासस्य उपमाप्रसक्तिःधारक्रिकेट्-क्रीडाबहुब्रीहिसमासः८ फरवरीइण्डोनेशियाउद्भटःमहाभारतम्दण्डीप्यानारिकेलम्मालिनीछन्दःबादामीवेणीसंहारम्हरीतकीमदर् तेरेसाखो खो क्रीडाजया किशोरीयूरोपखण्डःपिप्पलीचार्ल्सटन्१५ मईडेनमार्कमोहम्मद रफीन काङ्क्षे विजयं कृष्ण...तपः१०९८मेघदूतम्पर्यावरण प्रदूषणस्वप्नवासवदत्तम्१७४६पतञ्जलिः२३७ठ्१०१५मराठीभाषावीतरागभयक्रोधा...१७५४मकरराशिः११९०प्राणायामःपर्यावरणशिक्षाछन्दः१७७६बास्टन्दुष्यन्तःसेवुणवंशः१२९३कलिंगद्वीपविश्वकोशः१२१भर्तृहरिःभारतस्य शासनप्रणालिः🡆 More