राजशिम्बी

भारते वर्धमानः कश्चन धान्यविशेषः निष्पावः । निष्पावः अपि सस्यजन्यः आहारपदार्थः । अयं निष्पावः आङ्ग्लभाषायां Hyacinth bean इति उच्यते । अयं निष्पावः अत्यन्तं प्रोटीनयुक्तः आहारपदार्थः । अस्य राजशिम्बी, वल्लकं, श्वेतशिम्बिकं, मुखप्रिया इत्यादीनि नामानि सन्ति । सस्यशास्त्रज्ञाः Lablab vulgaris इति वदन्ति निष्पावम् । अनेन क्वथितम्, उपमा, पौलिः, तण्डुलपिष्टेन सह योजयित्वा रोटिकां च निर्मान्ति भारते ।

राजशिम्बी
निष्पावबीजानि

आयुर्वेदस्य अनुसारम् अस्य निष्पावस्य स्वभावः

निष्पावः किञ्चिन्मात्रेण मधुरः, किञ्चिन्मात्रेण कषायः च । एषः शरीरं शुष्कीकरोति । शीघ्रं पचनं न भवति । मलमूत्रयोः अवरोधं करोति । जीर्णानन्तरम् अपि आम्लस्य परिणामं जनयति । गुणे उष्णः, अत्यन्तं वातकरः च । यद्यपि निष्पावः बलवर्धकः, पुष्टिवर्धकः च तथापि ज्वलनम् उत्पादयति । शैत्यकाले एव सामान्यतया वर्धते निष्पावः ।

राजशिम्बी 
निष्पावसस्यम्


    “निष्पावो मधुरो रूक्षो विपाकेऽम्लगुरुः सरः ।
    कषायः स्तन्यपित्तास्रमूत्रवातविबन्धकृत् ॥
    विदाह्युष्णोविषश्लेष्मशोथहृत्शुक्रनाशनः ॥“ (भा.प्र)
    १. निष्पावः शरीरं शुष्कीकरोति इति कारणात् तस्य पक्वकरणावसरे किञ्चित् प्रमाणेन तैलं योजनीयम् । अथवा प्रथमं तैलेन भर्जयित्वा अनन्तरं पक्वकरणम् अपि शक्यते ।
    २. निष्पावः यद्यपि पुष्टिदायकः तथापि शीघ्रं जीर्णं न भवति । जीर्णशक्तिः न्यूना अस्ति चेत् अजीर्णं भवति । तस्मात् वातप्रकोपाः, शरीरवेदना, जाड्यं च सञ्जायते ।
    ३. निष्पावः प्रसूतिकानां (शिशुवत्यः) हानिकारकः ।
    राजशिम्बी 
    निष्पावशलाटुः
    ४. “रक्तनिष्पावः” पुष्टिदायकः, जडः, शीतकारकः च । उदरबाधाम् उत्पादयति ।
    ५. “नदीनिष्पावः” (नद्याः तीरे वर्धितः) किञ्चिन्मात्रेण तिक्तः, कटुयुक्तः च । सः कफं वर्धयति ।
    ६. निष्पावः रक्तदोषं जनयति इत्यस्मात् चर्मरोगिणः न खादेयुः ।
    ७. निष्पावेन निर्मितानाम् आहाराणां हिङ्गुव्याघरणं भवेत् । तदा वातनिवारणं भवति ।
    ८. वृष्टिकाले निष्पावस्य उपयोगः निषिद्धः । शैत्यकाले प्रमाणं ज्ञात्वा सेवनीयः ।‎

Tags:

उपमातण्डुलपिष्टम्भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

शिक्षामायावादखण्डनम्१९७केरळराज्यम्सङ्गणकविज्ञानम्क्रैस्तमतम्ऊरुःअल्बेनियाभगवद्गीतापाकिस्थानम्अकिमेनिड्-साम्राज्यम्विविधसंस्थानां ध्येयवाक्यानिसुभद्रा कुमारी चौहानटेक्सास्विल्ञुःभारतीयसंस्कृतेः मूलतत्त्वानि१८७६चम्पादेशः१४६८पक्षिणःआवर्तनम् (Frequency)रवीन्द्रनाथ ठाकुरछन्दोमञ्जरीसूत्रलक्षणम्१०१दन्तपाली१०२४धर्मक्षेत्रे कुरुक्षेत्रे...नियोनन्यायदर्शनम्जे. साइ दीपकयज्ञःमलयाळलिपिःशार्दूलविक्रीडितच्छन्दःअमितशाहमाडिसन्शुक्लरास्यामोहम्मद रफीगो, डोग। गो!वाशिङ्ग्टन् डि सिगूगल् अर्त्भीष्मपर्वलिस्बनअरबीभाषाअशोक गहलोतसर्पण-शीलःचाडपीटर महान (रूस)कगलिआरीनवरत्नानिपादकन्दुकक्रीडाइन्डियम्१९०३जुलियस कैसरवासांसि जीर्णानि यथा विहाय...निघण्टुः५ दिसम्बररक्तम्रासायनिक संयोगःओषधयःमहाभाष्यम्मस्तिष्करोगःसावित्रीबाई फुलेअध्यापकःशल्यचिकित्सामार्टिन् लूथर् किङ्ग् (ज्यू)वेनेजुयेलाब्रह्मसूत्राणिसचिन तेण्डुलकरचक्रम् (योगशास्त्रम्)मिखाइल् गोर्बचोफ्२२ जनवरी🡆 More