महाचोळमन्दिराणि

महाचोळदेवालयाः भारतस्य तमिळ्नाडुराज्ये सन्ति । चोळवंशीयैः राजभिः निर्मिताः तञ्जावूरुप्रदेशस्य बृहदीश्वरदेवालयः गङ्गैकोण्डचोळपुरस्य गङ्गैकोण्डचोळेश्वरदेवालयः, दारासुरस्य ऐरावतेश्वरदेवालयः च मिलित्वा महाचोळदेवालयाः इति कथयन्ति । क्रि.श.

१९८७तमे वर्षे बृहदेश्वरदेवालयं क्रि.श. २००४तमे वर्षे अन्यदेवालयद्वयं विश्वपरम्परावल्यां प्रविष्टम् । महाचोळमन्दिराणि चोळवंशीयैः राजभिः दक्षिणभारते निर्मितानि ।

  • बृहदीश्वरदेवालयः, तञ्जावूरु
  • गङ्गैकोण्डचोळेश्वामन्दिरम्
  • ऐरावतेश्वरमन्दिरम्, दारासुरंप्रदेशे ।
महाचोळमन्दिराणि
विश्वपरम्परास्थानानि

गङ्गैकोण्डचोळपुरस्य शिल्पकला
राष्ट्रम् भारतम्भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः i, ii, iii, iv
अनुबन्धाः २५०
क्षेत्रम् एषियापेसिफिक्
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८७  (एकादशं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

बृहदेश्वरदेवालयः युनेस्कोसंस्थया क्रि.श.१९८७तमे वर्षे विश्वपरम्परास्थानम् इति उद्घुष्टः । क्रि.श. २००४तमे वशे ऐरावतेश्वरमन्दिरम् अस्याम् आवल्यां प्रवेशितम् । अद्य अयं देवालयसमूहः महचोळमन्दिराणि इति कथ्यते ।

बृहदीश्वरदेवालयः

अयं देवालयः भारतदेशस्य तमिळ्नाडुराज्यस्य तञ्जावूरुपत्तने स्थितः हैन्दवदेवालयः । एतन्मन्दिरं क्रि.श.१००३-१०१०तमकाले चोळवंशस्य प्रथमः राजराजचोळः निर्मितवान् । अनेन कारणेन एतन्मन्दिरं राजराजेश्वरमन्दिरम् इत्यपि कथयन्ति । तदानीन्तनकालस्य गणनायाम् एतन्मन्दिरम् अतिविशालसंरचनम् इति परिगण्यते स्म । १३अट्टानाम् अस्य गोपुरस्य औन्नत्यं ६६मीटर् अस्ति । (हैन्दवमन्दिरेषु अट्टानां सङ्ख्या असमी एव भवति) एतन्मन्दिरं शिवस्य आराधनार्थं समर्पितम् अस्ति । अयं देवालयः वास्तुकलायाः, शिलाशिल्पाङ्कनस्य, ताम्रशिल्पाङ्कनस्य, प्रतिमाविज्ञानस्य, चित्रकलायाः, नृत्यस्य ,सङ्गीतस्य, आभूषणस्य, उत्कीर्णकलायाः भाण्डारः अस्ति । अस्मिन् मन्दिरे भित्तिषु प्राचीनसाहित्यानि संस्कृतेन तमिळ्भाषया च उत्कीर्णानि । अस्य मन्दिरस्य निर्माणशैली विशिष्टाअ अस्ति यत् अस्य गोपुरस्य छाया भूमौ नैव पतति । गोपुरशिखरे स्वर्णकलशः स्थितः । यस्मिन् पाषाणे अयं कलशः स्थितः तस्य भारं प्रायः ८०टन् समग्रा शिला एका एव च भवति । मन्दिरस्य गर्भगृहे प्रतिष्ठापितं भव्यं बृहत् शिवलिङ्गं पश्यति चेत् अस्य बृहदीश्वरः इति नाम सार्थकम् अस्ति । मन्दिरस्य अन्तः प्रविश्य पश्यति चेत् गोपुरस्य अधः वर्गमण्डपम् अस्ति । तत्र लघुवेदिकायां बृहदीश्वाभिमुखः महानन्दी विराजमानः अस्ति । नन्देः ६मीटर् दैर्घ्यं, २.६मी.वैशाल्यं, ३.७मी औन्नत्यं च अस्ति । भारतवर्षस्य शिलावृषभेषु द्वितीयः अतिबृहत् नन्दी अयम् अस्ति ।

बाह्यानुबन्धाः

Tags:

चोळवंशःतमिळ्नाडुबृहदीश्वरदेवालयःभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

कतारहेनरी ५८९४अश्वमेधपर्वसमयवलयःलिक्टनस्टैनमद्रिद्ईजिप्तदेशःसप्ताहःदन्तपाली१२३०नागेशभट्टःपोर्ट ब्लेयरकबड्डिक्रीडाकाफीपेयम्हितोपदेशःगौतमबुद्धःजीवनीमय्यावेश्य मनो ये मां...तत्त्वम् (दर्शनशास्त्रे)भट्टनारायणःबोत्सवानाविष्णुपुराणम्हरिद्रामेल्पुत्तूर् नारायणभट्टःफारसीभाषाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानेपालदेशःऊरुःभीष्मःकोस्टा रीकाकुवैतपाणिनीया शिक्षा१६०५सागरःयवनदेशःमाहेश्वरसूत्राणिआख्यानसाहित्यम्गुरुग्रहःवेल्लूरुमण्डलम्जे जे थामसनसन्तमेरीद्वीपस्य स्तम्भरचनाःविज्ञानेतिहासःआगस्टस कैसरधर्मक्षेत्रे कुरुक्षेत्रे...कुमारदासःकर्कटरोगःस्वामी दयानन्दसरस्वतीकालमेघःजहाङ्गीरहरेणुःजेक् रिपब्लिक्मार्टिन स्कोर्सेसेविल्ञुःअयःजातीफलम्श्येनः२२ अगस्तब्रह्मवैवर्तपुराणम्मेघदूतम्पतञ्जलिःसङ्गीतम्सायणःडा जे जे चिनायकाव्यम्ब्रह्मपुराणम्कुमारसम्भवम्सिङ्गापुरम्दूरदर्शनम्संस्कृतसाहित्यशास्त्रम्शान्तिपर्वकोर्दोबाअष्टाङ्गयोगःसमारियम🡆 More