प्रतिभा पाटिल: भारतीयराजनेतारः

प्रतिभा पाटील महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया भारतस्य प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती ।

प्रतिभा पाटील
Pratibha Patil
प्रतिभा पाटिल: भारतीयराजनेतारः
भारतस्य राष्ट्र्पतिः
इदानीन्तन
कार्यारम्भः
२५ जुलै २००७
प्रधानमन्त्री मनमोहनसिङ्ग्
उपराष्ट्रपतिः मोहमद् हमीद् अन्सारि
पूर्वगमः अब्दुल कलाम
राजस्थानस्य राज्यपाला
कार्यालये
८ नवेम्बर् २००४ – २३ जुलै २००७
मुख्यमन्त्रिः वसुन्धरा राजे
पूर्वगमः मदन् लाल् खुरान
पादानुध्यातः अक्लाखर् रह्मान् किद्वायि
व्यक्तिगत विचाराः
जननम् (१९३४-२-२) १९ १९३४ (आयुः ८९)
नड्गान्, ब्रिटिष् भारतम् (अधुना भारतम्)
राजनैतिकपक्षः भारतीयराष्ट्रियकाङ्ग्रेस्
पतिः/पत्नी देविसिङ्ग् रन्सिङ्ग् शेखावत्
मुख्यशिक्षणम् मूल्जी जेथा महाविद्यालयः, जालगाव्
सर्वकारीयाधुनिकन्यायमहाविद्यालयः, मुम्बयी
वृत्तिः न्यायवादी
धर्मः ब्रह्मकुमारीविश्वाध्यात्मविश्वविद्यालयः

काचित् महिला, राष्ट्राध्यक्षरूपेण

महिला इति कृत्वा देशस्य स्थितिम् सम्यगवगत्य प्रतिस्पन्दनसमये यथा एकया मात्रा व्यवह्रियते तथैव व्यवहरन्त्याः तस्याः सर्वेषु अपि कार्येषु ममता द्रष्टुं शक्यते । जलगांव इति एतादृशसामान्यग्रामात् देहल्यां विद्यमानं राष्ट्रपते: भवनं प्राप्तुं कृतः जीवनसङ्घर्षः अत्यन्तं रोचकः एव ! कुत्रापि विवादस्यास्पदम् अदत्वा आडम्बरेण विना स्वकार्यं निर्वहन्ती आसीत्। अतिदायित्वभरिते स्थाने भूत्वा बि. डि. जत्ति, वसन्तराव् नायिक, वै. बि. चौहाणप्रभृतीनां राजकीयनेतृणां स्मरणं कारयति । प्रतिभाकुमारी पाटीलमहोदयाया: जन्म १९-१२-१९३४ तमे दिनाङ्के महाराष्ट्रस्य जलगांवसमीपस्थनादगांव् इति ग्रामस्य कस्यचित् धनिकस्य परिवारे अभवत् । तस्या: पितु: नाम नारायणपग्लुराव् इति । तस्या: वंशस्था: राजस्थानमूलीया: । तत: आगत्य जलगांवमध्ये वसतिं प्रकल्प्य प्राय: शतं वर्षाणि एव अतीतानि स्युः। प्राथमिकं माध्यमिकं शिक्षणं च जलगांवस्थे आर्. आर्. विद्यालये समापितवती। पश्चात् स्वस्य एम्. ए. शिक्षणं मूल्जि- जैत्-कालेज् मध्ये समापितवती। भाषणस्पर्धायाम् अतीव प्रतिभासम्पना एषा अनेकान् पारितोषिकानजयत् । एष प्रमुखा टेबलटेन्नीस्क्रीडापटु: अपि आसीत् । १९६२ मध्ये महाविद्यालयत: एम्. जि .कालेज् क्वीन् इति चिता एषा तस्मिन्न् एव वर्षे अदिलाबाद्-मध्ये भारतीय राष्ट्रिय-कांग्रेस्-पक्षत: अवसरं प्राप्य विधानसभा निर्वाचने स्थित्वा जयं प्राप्तवती । जुलाय् -७- १९६५ तमे वर्षे श्री देवीसिंहशेखावत् इत्यनेन सह विवाहमरचयत् । कतिचिद्वैयक्तिककारणैः उपनाम पाटील इत्येव अस्थापयत् । एतयो: दम्पत्यो: एका पुत्री एक: पुत्र: च स्तः।

प्रतिभापाटीलमहोदयाया: वृत्तिजीवनम्

प्रतिभाभगिनी सर्वप्रथमं समाजसेविका भूत्वा स्ववृत्तिमारभत। एम् .ए , तथा ए्ल्. ए्ल् .बि पदवीं एम्. जे. कलाशाला जलगांवमध्ये समाप्य जलगांवमध्ये न्यायवादिनी भूत्वा वृत्तिजीवनमारभत। राजस्थानराज्यस्य षोडशतमराज्यपालत्वेन प्रतिभा पाटीलमहोदया २००४ तमे वर्षे राष्ट्र्पतिनिर्वाचनपर्यन्तम् अपि तत्रैव कार्यरता आसीत्। राज्यस्थानस्य प्रथामा महिला राज्यपालिका अपि । २००७ तमे वर्षे राष्ट्रमुद्दिश्य सम्बोधनम् अकरोत् । तस्याः भाषणे महिलानां बालकबालिकानां हितमनुलक्ष्य विशिष्ठ: सन्देश: आसीत् । कित्तुरुराज्ञ्याः चेन्नम्माया: विग्रहं संसद्भवने समुद्घाटयन्ती महिलाया: महत्त्वं समाजे कियदस्ति इति उदजागरयत् । २००९ तमे वर्षे पुण्यपत्तने विद्यमाने लोहगांववायुक्षेत्रे सुखोय् विमाने अर्धघण्टां यावत् उड्डयमाना एषा एतादृशसाहसकार्यं कुर्वती विश्वस्य प्रथमा राष्ठ्राध्यक्षा(७४तमे वयसि)। विमानचालकेन लभ्यमानाः सर्वाः सूचनाः सम्यक् परिपालयन्ती क्षेमेणैव भूस्पर्शम् अकरोत् । तथैव अस्माकम् भूतपूर्वराष्ठ्रपति: ए.पि.जे.अब्दु्लकलाम् अपि तस्य कार्यावधौ सुखोय् मध्ये उड्डयनम् अकरोत्। राजकीयक्षेत्रे श्रीमती प्रतिभापाटील महोदयया निर्मितानि कतिचन पदचिह्नानि। ”१९६२ तमे वर्षे मराठानेतु: एस् बि चव्हाणप्रभावेण राजकीयजीवनारम्भ: । ”महाराष्ट्रविधानसभार्थं सातत्येन १९६२ त: १९८५ पर्यन्तं निर्वाचिता । ”महाराष्ट्रराज्यसर्वकारे प्रवासोद्यम-संस्दीयव्यवहारमन्त्रिणी । समाजकल्याणशिक्षणादिविभागे क्याबिनेट्स्तरीयस्थानं सम्माननमपि अवाप। ” विरोधपक्षस्य नायिका भूत्वा अपि कार्यमकरोत्। ”जून् १९८५ त: १९९० पर्यन्तं राज्यसभायै निर्वाचिता अभवत्। ”१९८६ नवेम्बरत: १९८८वर्षपर्यन्तं राज्यसभाया: उपाध्यक्षा भूत्वा अपि कार्यमकरोत् । ”दशमलोकसभाया: कृते अमरावतिक्षेत्रत: (१९८५- १९९६)निर्वाचिता । ”२००४ मध्ये राजस्थानस्य राज्यपाला इति नियुक्ता अभवत् । ”राज्यसभाया: उपसभापति: अपि अवर्तत। एवं महिला समाजे कीदृशं कार्यं कर्तुं प्रभवती इति दर्शयन्ती अन्यासां महिलानाम् अपि आदर्शप्राया एव अस्ति।


भारतस्य राष्ट्रपतयः
प्रतिभा पाटिल: भारतीयराजनेतारः  पूर्वतनः
ए पि जे अब्दुल् कलाम्
प्रतिभा पाटिल अग्रिमः
प्रणब मुखर्जि
प्रतिभा पाटिल: भारतीयराजनेतारः 


बाह्यसम्पर्कतन्तुः

Tags:

भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

बलिचक्रवर्तीडेनमार्ककदलीफलम्ट्सायणःजनकःअन्तर्जालम्पृथ्वीनासतो विद्यते भावो...१८८०नीजेमध्यमव्यायोगःजेम्स ७ (स्काटलैंड)सितम्बर ५अद्वैतसिद्धिःशिखरिणीछन्दःनरेन्द्र सिंह नेगीआनन्दवर्धनःरामनवमीजार्ज १पण्डिततारानाथःदेहलीमनुस्मृतिःकाव्यभेदाःजार्ज ३दश अवताराःतुलसीदासःगुवाहाटीहिन्दूदेवताःइण्डोनेशियानरेन्द्र मोदीसंस्कृतवर्णमालाअनुसन्धानस्य प्रकाराःचार्ल्स २युरेनस्-ग्रहःदिसम्बर४४४नैषधीयचरितम्कालिदासःब्रह्मगुप्तःनेपोलियन बोनापार्टबेट्मिन्टन्-क्रीडायदा यदा हि धर्मस्य...मगहीभाषाउन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्शार्लेमन्य२४८वेतालपञ्चविंशतिकासिलवासाभारतीयप्रौद्यौगिकसंस्थानम्अक्षरम्जून ७विश्वामित्रःलोकसभासितम्बरदिसम्बर २१जून १९९४२हनुमान् चालीसाबौद्धधर्मःबहूनि मे व्यतीतानि...बुद्धजयन्तीयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)प्या१७०७बुधवासरःमिथुनराशिःसचिन तेण्डुलकरसूरा अल-इखलासपश्यैतां पाण्डुपुत्राणाम्...तेनालीमहापरीक्षा🡆 More