ए पि जे अब्दुल् कलाम्

अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः (तमिळ: அவுல் பகீர் ஜைனுலாப்தீன் அப்துல் கலாம்; (i/ˈæbdʊl kəˈlɑːm/; १५ अक्टोबर् १९३१ – २७ जुलै २०१५) अस्य जन्म क्रि.श.

Abdul Kalam from India pronunciation (Voice of America).ogg">i/ˈæbdʊl kəˈlɑːm/; १५ अक्टोबर् १९३१ – २७ जुलै २०१५) अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् । लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् ।

ए.पी.जे.अब्दुल् कलाम
ए पि जे अब्दुल् कलाम्
१२ तमे वार्टन्-भारतीय-आर्थिकसविशिष्टगणे (२००८) अब्दुल् कलामः
११ भारतस्य राष्ट्रपतिः
कार्यालये
25 July 2002 – 25 July 2007
प्रधानमन्त्री अटल बिहारी वाजपेयी
मनमोहनसिंह
उपराष्ट्रपतिः बैरोन् सिंह शेखावत्
पूर्वगमः कोचेरिल् रामन् नारायणन्
पादानुध्यातः प्रतिभा देवीसिंह पाटील
व्यक्तिगत विचाराः
जननम् अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः
(१९३१-२-२) १५ १९३१ (आयुः ९२)
रामेश्वरम्, मद्रास् प्रेसिडेन्सि, ब्रिटिष् इन्डिया
(इदानीम् तमिळनाडु, भारतम्)
मरणम् २७ २०१५(२०१५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२७) (आयुः ८३)
मुख्यशिक्षणम् सेन्ट् जोसेफ् महाविध्यालयः, तिरुचिरापल्लि
मद्र्रास् इन्स्टिट्युट् आफ् टेक्नोलजी
वृत्तिः प्राघ्यापकः, लेखकः, वैज्ञानिकः, राष्ट्रपतिः
एयरोस्पेस् तन्त्रज्ञः
जालस्थानम् abdulkalam.com

बाल्यं शिक्षा च

अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । धीवरेभ्यः नौकाः भाटकरूपेण यच्छति स्म । अविभक्ते कुटुम्बे अब्दुल कलामः पालितः । अस्य पञ्च सहोदराः पञ्चसहोदर्यः सन्ति । एवं गृहे त्रयाणां कुटुम्बाः वसन्ति स्म । अब्दुल् कलामस्य जीवने अस्य पितुः प्रभावः अधिकः अस्ति । सः सम्पूर्णतया शिक्षितः नास्ति तथापि तस्य कार्यबद्धता दत्तः संस्कारः च कलामस्य जीवने बहूपकारकः अभवन् ।

विद्यार्थिजीवनम्

पञ्चवर्षीयः कलामः रामेश्वरस्य पञ्चायतप्राथमिकशालयां प्रविष्टः । प्रारम्भिकशिक्षां अनुवर्तयितुम् आवश्यकं धनसङ्ग्रहं प्रातः प्रतिगृहं वृत्तपत्रिकानां वितरणद्वारा करोति स्म । क्रि.श. १९५८तमे वर्षे कलामः मद्रास-इंस्टीट्यूट-आफ् टेकनालजी इति महाविद्यालयतः अन्तरिक्षविज्ञाने स्नातकपदवीम् प्राप्तवान् । पश्चात् हावरक्राफ्ट् इति परियोजनायाम् उद्योतं प्राप्तवान् । ततः भारतीयरक्षानुसन्धान तथा विकास इत्येतस्यां संस्थायां प्रवेशं प्राप्तवान् । क्रि.श. १९६२तमवर्षतः तस्यां संस्थायाम् उपग्रहप्रक्षेपणस्य विविधासु परियोजनासु स्वभूमिकां समर्थरूपेण निरूढवान् । परियोजनायाः निदेशकत्वेन भारतस्यएस्.एल्.वि.३ इति प्रथमं स्वदेशीयम् उपग्रहं निर्मीय प्रक्षेपितवान् । क्रि.श. १९८०तमवर्षे रोहिणीति उपग्रहं सफलतया अन्तरिक्षं प्रापितवान् ।

वृत्तिजीवनम्

क्रि.श. १९६२तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः । डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः)प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । क्रि.श. १९८०तमवर्षस्य जुलैमासे रोहिणी इति उपग्रहं प्रथिव्याः कक्षस्य निकटे एव स्थापितवान् । अनेन भारताय अपि अन्ताराष्ट्रियान्तरिक्षसमाजस्य सदस्यत्वं दत्तम् अभवत्। इसरो संस्थायाः व्योमवाहनसंप्रेषणस्य कार्यक्रमस्य अनुमतिप्राप्तेः श्रेयः अपि अस्य एव । कलामः स्वदेशीयलक्ष्यभेद्यस्त्रस्य विन्यासं कृतवान् । स्वदेशीयतन्त्रज्ञानेन अग्निः इति पृथ्वीति क्षिपणी विन्यासं कृतवान् । डा. कलामः क्रि.श. १९९२तमवर्षस्य जुलैमासतः क्रि.श. १९९९ डिसेम्बर् पर्यन्तं भारतस्य रक्षणामन्त्रिणः विज्ञानमार्गदर्शकः सुरक्षाशोधविकासविभागस्य सचिवः चाभवत् । एषः स्टेटेजिक् मिसाय्ल् सिस्टम् इत्यस्य उपयोगम् आग्नेयास्त्रस्य रूपेण कृतवान् । अनेन कारणेन भारतदेशः परमाण्वस्त्राणाम् उत्पादनस्य क्षमताप्रापणे सफलः अभवत् । डा.कलामः क्रि.श. २०२०तमवर्षपर्यन्तं भारतं वैज्ञानिकक्षेत्रे अत्यधुनिकं कर्तुं विशिष्टां योजनां निरूप्य सर्वकाराय समर्पितवान् । तदानीम् एषः भारतसर्वकारस्य प्रधानवैज्ञानिकोपदेशकः आसीत् । क्रि.श. १९८२तमवर्षे डा. कलामः भारतीयरक्षानुसन्धान एवं विकास इत्यस्याः संस्थायाः निदेशकत्वेन पुनरागतः । तदा एषः स्वस्य सम्पूर्णं लक्ष्यं निदेशितक्षिपणेः विकासार्थं केन्द्रीकृतवान् । अग्निक्षिपणिः पृथ्वीक्षिपणिः इत्यनयोः परीक्षणसाफल्यस्य श्रेयसः बहुभागः डा. कलामस्य एव भवति । क्रि.श. १९९२तमवर्षे भारतीयरक्षणामन्त्रालयस्य वैज्ञानिकोपदेशकः इति नियुक्तः । अस्य परिवीक्षणे एव क्रि.श. १९८८तमे वर्षे पोखराण इति स्थाने द्वितीयं परमाणुपरीक्षणम् उपपन्नम् । अनया घटनया भारतं परमाणुशक्तिसम्पन्नराष्ट्रस्य आवल्याम् अन्तर्भावितम् अभवत् ।

राजनैतिकजीवनम्

डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन् । क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः ९०%बहुमतेन भारतस्य राष्ट्रपतिः अभवत् । तस्मिन् एव वर्षे जुलैमासस्य २५तमे दिने संसद्भवनस्य अशोकसभाङ्गणे राष्ट्रपतिपदस्य प्रमाणशपथम् बोधितम् । अस्मिन् संक्षिप्ते समारोहे अटलबिहारीवाजपेयी तस्य मन्त्रिमण्डलस्य सदस्याः तथा अधिकारिणः उपस्थिताः आसन् । डा.कलामस्य कार्यकालः क्रि.श. २००७तमवर्षस्य जुलै २५तमे दिने समाप्तः अभवत् । डा.कलामः राजनैतके वैयक्तिके च जीवने अतीव अनुशासितः अस्ति । अयं सर्वदा शाकाहारी मद्यपानव्यसनरहितः अस्ति । अस्य विङ्ग्स् आफ् फायर् इति आत्मकथनग्रन्थे भारतीययूनां मार्गदर्शनम् अस्ति । गैडिङ्ग् सोल्स् - डायलाग्स् आफ् दि पर्पस् आफ् दि लैफ् इति अस्य द्वितीये ग्रन्थे अध्यात्मिकविचाराः उल्लिखिताः सन्ति । अनेन तमिळुभाषाया अनेकानि पद्यानि विरचितानि । दक्षिणकोरियादेशे अस्य पुस्तकानाम् अभ्यर्थना अधिका अस्ति अस्य विषये अपि महान् आदरः अस्ति इति ज्ञायते । सामान्यतः पश्यामः चेत् डा.कलामः राजनैतिकव्यक्तिः न किन्तु अस्य मनसि राष्ट्रवादी विचाराः अमिताः सन्ति । एषः राष्ट्रपतिः भूत्वा भारतदेशस्य अभिवृद्धिनीतेः संस्थापनस्य कारणेन राजनीतिज्ञः इत्यपि वक्तुं शक्यते । इण्डिया २०२० इत्याख्ये स्वरचिते पुस्तक्ते एषः भारतस्य अभिवृद्धिविषये स्वदृष्टिदिशां स्पष्टं कृतवान् । एषः अन्तरिक्षक्षेत्रे भारतं जगदुरुत्वेन दृष्टुम् इच्छति । एतत् साधयितुम् अस्य मस्तके नैकाः योजनाः सन्ति । पर्माण्वस्त्रस्य क्षेत्रे एष भारतं परमशक्तिशालिनं कर्तुम् इच्छति । विज्ञानस्य अन्यक्षेत्रेषु अपि विकासः भवेदिति अस्य परमाशयः । डा.कलामः वदति यत् तन्त्रांशस्य क्षेत्रे सर्ववर्जनानि विमुक्तानि भवेयुः येन अधिकाधिकजनाः अस्य प्रयोजनं प्राप्नुयुः । एवं चेत् सूचनातन्त्रांशः तीव्रगत्या विकसितः भवति । यदि कोऽपि देशस्य अभिवृद्धिमिच्छति देशे शान्तेः संरक्षणार्थं प्रयत्नः विधेयः । शान्तिः आवश्यक्ती इति शक्तिसङ्ग्रहः न कर्तव्यः इति भावः न । अस्माकं शक्तेः अभावादेव गतेषु २०००वर्षेषु ६००वर्षणि वयम् अन्यैः प्रशासिताः इति सधैर्यम् अण्वस्त्रसङ्ग्रहविषये जागरयति ।

प्रशस्तिपुरस्काराः

अवुल पकीर जैनुलबीदीन अब्दुल कलामाय भारतसर्कारस्य क्रि.श. १९८१तमे वर्षे प्रशासकीयसेवाक्षेत्रस्य पद्मभूषणप्रशस्तिः प्रदत्ता । अपि च डा.कलामः भारतसर्कारस्य सर्वोच्चेन नागरिकसम्माननेन भारतरत्नेन अलङ्कृतः ।

वैयक्तिकजीवनम्

डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव । राजनैतिकेस्तरे अस्य अभिप्रायः अस्ति यत् भारतस्य अपि भूमिपा अन्ताराष्ट्रियस्तरे विस्तृता भवेत् इति । भारतदेशः महाशक्तिः जगद्गुरुः च भवितुं तत्पथे गच्छन्तं दृष्टुम् अस्य मनः बहुधा इच्छति । अस्यां दिशायां प्रेरणां जनयितुम् एषः अनेकान् ग्रन्थन् अपि व्यरचयत् । तन्त्रांशः भारतस्य सर्वसाधारणस्यापि जनस्य हस्तगतः भवेत् इति सर्वदा आग्रहं कृतवान् । बालानां वृद्धानां च कलामः अतीव प्रयः अस्ति । अधुना एषः भारतीयान्तरिक्षविज्ञानम् तथा प्रौद्योगिकसंस्थानम् इत्यस्य कुलपतिः अस्ति ।

कृतयः

डा. कलामः साहित्यिकरूपेणापि स्वशोधसारं चतृषु ग्रन्थेषु आनीतवान् । विंग्स् ऑफ़ फैर्', 'इण्डिया २०२०- ए विषन् फ़ॉर दि न्यू मिलेनियम्', 'माई जर्नी' तथा 'इग्नाटिड् माइण्ड्स्- अनसैसिङ्ग् दि पवर् विदिन् इण्डिया । एतानि पुस्तकानि भारतीयभाषाभिः विदेशीयभाषाभिः च अनूदितानि । एषः कश्चित् विशिष्टः वैज्ञानिकः यस्मै ३०विश्वविद्यालयाः गौरवपूर्वकं डाक्टरेट् उपधिं दत्तवन्तः ।

  • इग्नाइटेड मैण्ड्स् एनलिषिङ्ग् दि पावर विदीन इण्डिया (प्रकाशनम् - पेंग्विन बुक्स, २००३)
  • इण्डिया मै ड्रीम् (प्रकाशनम् - एक्सेल बुक्स्, २००४)
  • एनविजनिंग अन एम्पावर्ड् नेशन् टेक्नालजी फार् सोसायटल् ट्रांसफारमेशन् (टाटा मैकग्राहिल् पब्लिशिङ्ग् कम्पनी लिमिटेड्, २००४)
  • आत्मकथा - विग्स् आळ् फैर् एन् आटोबायोग्राफी आफ ए.पी.जे. अब्दुल् कलामः (ओरियण्ट् लाङ्गमैन्, १९९९)
  • आत्मकथा - सैण्टिस्त् टू प्रेसिडेंट् (ज्ञान पब्लिशिङ्ग हौस् २००३)
  • इटरनल् क्वेस्ट् अब्दुल् कलामस्य जीवनकालः लेखकः - एस्. चन्द्रः (पेंटागन पब्लिशर्स्, २००२)
  • प्रेसिडेंट एपीजे अब्दुल् कलामः आर्. के. पूर्ति रचितः (अनमोल पब्लिकेशन्स,२००२) I
  • ए. पी. जे. अब्दुल् कलामः दि विषनरी आळ् इण्डिया - के. भूषण तथा जी. कात्यालः रचनम् (एपीएच पब्लिशिङ्ग् कार्पोरेशन्, २००२)

परलोकगमनम्

२०१५ वर्षस्य जुलै मासस्य २७ तमे दिनाङ्के डॉ. अब्दुल् कलाम्-महोदयस्य हृदयाघातेन निधनम् अभवत् । तस्मिन् दिने सायं काले भारतीय-प्रबन्ध-संस्थानस्य (Indian Institute of Management Shillong) एकस्यां व्याख्यानसभायां व्याख्यारते सन् हृत्पीडया पीडितः जातः आसीत् ।


भारतस्य राष्ट्रपतयः
ए पि जे अब्दुल् कलाम्  पूर्वतनः
के आर् नारायणन्
ए पि जे अब्दुल् कलाम् अग्रिमः
प्रतिभा पाटिल
ए पि जे अब्दुल् कलाम् 

आकराः

बाह्यानुबन्धाः

"

Tags:

ए पि जे अब्दुल् कलाम् बाल्यं शिक्षा चए पि जे अब्दुल् कलाम् विद्यार्थिजीवनम्ए पि जे अब्दुल् कलाम् वृत्तिजीवनम्ए पि जे अब्दुल् कलाम् राजनैतिकजीवनम्ए पि जे अब्दुल् कलाम् प्रशस्तिपुरस्काराःए पि जे अब्दुल् कलाम् वैयक्तिकजीवनम्ए पि जे अब्दुल् कलाम् कृतयःए पि जे अब्दुल् कलाम् परलोकगमनम्ए पि जे अब्दुल् कलाम् आकराःए पि जे अब्दुल् कलाम् बाह्यानुबन्धाःए पि जे अब्दुल् कलाम्Listenतमिळभाषातमिळ्नाडुरामेश्वरम्सञ्चिका:En-us-A.p.j. Abdul Kalam from India pronunciation (Voice of America).ogg

🔥 Trending searches on Wiki संस्कृतम्:

यूरोपखण्डः२९ मईजन्तुःभामहःराधाअशोच्यानन्वशोचस्त्वं...जून ३क्रैस्तमतम्१००हिन्दूधर्मःभारतस्य इतिहासःपर्वतारोहणक्रीडाविलियम ३ (इंगलैंड)गौतमबुद्धःप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)२७ अक्तूबररोम-नगरम्नाभिःजीवनीपोलोनियमभरतः (नाट्यशास्त्रप्रणेता)१६ जनवरी२६ फरवरीवायुमालिन्यम्मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः७७९दशरूपकम्विकिसूक्तिःपक्षिणःरक्तदुर्गम्धारणाविष्णुशर्मा३० दिसम्बर१५ जुलाईमिसिसिपी३७१श्राद्धम्व्याकरणम्फारसीभाषा७५७प्रमाणम्अश्वघोषःऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)२१ दिसम्बरघानाइसिडोर ऐजक रबिनैट्रोजन्द्राक्षाफलम्दूरदर्शनम्संयुक्ताधिराज्यम्रवीना टंडनप्राणायामःजातीसंस्कृतआस्ट्रेलियायवनदेशः१७३३अभिज्ञानशाकुन्तलम्नासा३३७ अप्रैलहर्षचरितम्कर्मण्येवाधिकारस्ते...अक्षरम्विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् (योगसूत्रम्)साङ्ख्यदर्शनम्रवाण्डाऐतरेयोपनिषत्१८ अगस्तशाहिराज्यम्टोगोजुलियस कैसर🡆 More