नळसरोवरम्

नळसरोवरः (गुजराती: નળ સરોવર, आङ्ग्ल: Nal Sarovar) गुजरातराज्यस्य मध्यभागे स्थिते अहमदाबादमण्डले अस्ति । अहमदाबाद् इत्यस्मात् महानगरात् ६४ किलोमीटर्दूरे साणन्दनामकस्य ग्रामस्य समीपे विद्यमानः नळसरोवरः किञ्चन पक्षिधाम अपि । विशेषतः हरिद्वर्णयुक्तः, तृणवृक्षादिभिः पूर्णः एषः प्रदेशः । गुजरातराज्ये विद्यमानेषु सरोवरेषु नळसरोवरः अतीव विशालः, सुन्दरः, नयनमनोहरः, सुप्रसिद्धः च अस्ति ।

नळसरोवरपक्षिधाम

नळसरोवरम् 
नळसरोवरे नौकाविहारः

गुजरातराज्ये विद्यमानं नळसरोवरपक्षिधाम न केवलं गुजरातराज्ये, अपि तु समग्रे भारते, समग्रे विश्वे च सुप्रसिद्धम् । नळसरोवरः, तं परितः विद्यमानः परिसरश्च नळसरोवरपक्षिधाम्नि अन्तर्भवति । अस्य विस्तृतिः १३० किलोमीटर्परिमितिः अस्ति । प्रत्यग्रवर्षेषु अत्र २५० पक्षिजातयः दृष्टाः सन्ति । पक्षिप्रेमिभ्यः इदं पक्षिधाम स्वर्गसदृशमेव वर्तते । विशेषतः शैत्यकाले अत्र शताधिकाः पक्षिजातयः नानादेशेभ्यः समागच्छन्ति । अतीव विरलाः सारसबकाः केवलम् अत्रैव दृश्यन्ते । एवमेव विश्वे विरलातिविरलाः गृध्राः अपि अत्र कदाचित् दृश्यन्ते । युग्मदूरेक्षिका('बैनोक्युलर्')साहाय्येन यदा सरोवरे पश्यामः तदा जलचरपक्षिणां दर्शनं जायते । यत्र पर्यटकेभ्यः सरोवरप्रवेशाय अनुमतिः अस्ति, तत्र नौकाः, नौकाचालकाश्च तिष्ठन्ति । नौकासु उपविश्य सरोवरे विहर्तुं शक्यते । स्थानिकाः झाटपढारकोलीजातिजनाः नौकासु पर्यटकान् पक्षिणां समीपं नयन्ति । सरोवरे बहवः चक्रवाकाः अपि दृश्यन्ते । सरोवरे विद्यमानाः द्वीपाः केषाञ्चन पक्षिणां वासस्थानानि वर्तन्ते । 'फ्लेमिङ्गो', 'स्टोर्क्', 'ऐबिस्', 'स्पून्बिल्', 'मार्ष् हेरियर्', 'ग्रेटर् स्पोटेड् ईगल्', 'ओस्प्रे', 'पलस् फिश् ईगल्' इत्येते विदेशीयपक्षिणः अत्र दृश्यन्ते ।

नळसरोवरम् 
नळसरोवरे 'फ्लेमिङ्गो'-समूहः

Tags:

अहमदाबादमण्डलम्अहमदाबाद्आङ्ग्लभाषागुजरातराज्यम्गुजरातीभाषा

🔥 Trending searches on Wiki संस्कृतम्:

पुराणम्२०१२रोनाल्द रेगनचीनदेशःसीताफलम्भ्१४ नवम्बरभारतीयदार्शनिकाःप्राचीनवंशावलीनार्थ डेकोटाजपान्२५८१८५३१८६९वेदानां सामवेदोऽस्मि...वाल्मीकिः१०२१पी टी उषाराजा राममोहन रायकैटरीना कैफभर्तृहरिःवास्तुविद्यालक्ष्मीबाई२१ दिसम्बरकर्मसंन्यासयोगःसमासःमहाभारतम्मरीचिका (शाकम्)संस्कृतविकिपीडिया२७ अक्तूबरसितम्बरमोनाकोनागेशभट्टःप्राचीन-वंशावली१०९०दिशा पटानीवायुमण्डलम्वेदान्तदेशिकःउपनिषदःमत्त (तालः)संभेपूस्वसाट्यूपयवनदेशः२०१०प्रशान्तमनसं ह्येनं...वेदाङ्गम्२१ फरवरीभारतसर्वकारःसङ्गीतम्लकाराःसिडनीनियतं कुरु कर्म त्वं...महाभाष्यम्अप्रैल १७३२माधवीपाटलीपुत्रम्कालिका पुराणयज्ञःविष्णुःतुर्कीवाशिङ्टन्श्रीनिवासरामानुजन्उपमालङ्कारःझान्सी१८८०🡆 More