तिरुमले ताताचार्य शर्मा ति.ता.शर्मा अथवा टि.टि.शर्मा(Thirumale Thathacharya Sharma/Thitha Sharma/T T Sharma) इति ख्यातः लक्ष्मीकुमारः ताताचार्यः एव तिरुमले ताताचार्यशर्मा। ‘तिरुमले’ इति तस्य वंशस्य नाम । राजगुरुवंशजः ति.ता.
शर्मा १८९६ तमे वर्षे कोलारमण्डलस्य चिक्कबळ्ळापुरनगरे जन्म प्राप्तवान् ।पिता श्रीनिवासताताचार्यः, माता जानकीयम्म । मैसूरुनगरे उन्नतशिक्षणं प्राप्तिसमये शर्मा भारतस्य स्वातन्त्र्यसमरं निमित्तं विद्याभ्यासं त्यक्त्वा पत्रिकोद्यमं प्रविष्टवान् । गान्धिजेः मार्गदर्शनम् अनुसृत्य शर्मा पत्रिकोद्यमी,स्वातन्त्र्ययोद्धा,राजनीतिज्ञः, साहित्यकारः, नाटककारः, समाजसेवकः, इतिहासकारः, शासनतज्ञः च भूत्वा राष्ट्रस्य निम्मित्तम् अमोघसेवां कृतवान् । मैसूरुक्रानिकल्”इति पत्रिकायाः द्वारा पत्रिकोद्यमरङ्गे पादार्पणं कृतवान् शर्मा केभ्यश्चित् वर्षेभ्यः अनन्तरं तां पत्रिकां “विश्वकर्णाटक” इति साप्ताहिकपत्रिकारूपेण परिवर्तितवान् । सप्तवर्षेभ्यः अनन्तरं सा पत्रिका दिनपत्रिका अभवत् । प्रजाप्रभुत्वस्य रक्षणाय जागतीकरणस्य दायित्वं सा पत्रिका निरूढवती । १९४७ तमवर्षतः १९४९ तमवर्षं यावत् कन्नडसाहित्यपरिषदः अध्यक्षः जातः शर्मा “कवि जनाश्रय” इति काञ्चित् योजनाम् अनुष्ठितवान् । नाटककलासक्तः एषः कन्नडस्य अनेकानि नाटकानि रङ्गभूमीं प्रति आनितवान्। टि.पी. कैलासं वर्येण विरचित “टोल्लु गट्टि” नाटकं प्रथमवारं रङ्गभूमिं प्रति आनयनस्य ख्यातिः शर्मणः एव अस्ति । शासनान् संशोध्य तेषां विश्लेषणस्य कार्ये निष्णातः एषः शासने विद्यमानानां कविनां विषये “कन्नड कविगळु” इति ग्रन्थस्य प्रकाशनं कृतवान् अस्ति । एषा तस्य प्रथमा कृतिः ।
एताः शर्मणः मुख्यकृतयः । बहुमुखप्रतिभान्विताय ति.ता शर्मणॆ १९४७ तमे वर्षे केरळराज्यस्य कासरगोडुमण्डले प्रचलितस्य एकत्रिशंत् तमस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानं दत्त्वा सम्मनितवन्तः ।
This article uses material from the Wikipedia संस्कृतम् article तिरुमले ताताचार्य, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.