एल्लोरागुहाः

एल्लोरा अथवा एलोरा इति प्रसिद्धस्य ऐतिहासिकयात्रास्थानस्य मूलं नाम वेरुल इति । एताः गुहाःभारतस्य महाराष्ट्रराज्ये औरङ्गाबादमण्डले सन्ति । तासां स्थानीयं नाम ‘वेरुललेनी’ इति । एल्लोरागुहाः राष्ट्रकूटैः पञ्चमशतकात् तः दशमशतकयोः मध्यभागे निर्मिताः । ताः शिलाकर्तनशिल्पकलाशैल्याः मूर्तरुपाः सन्ति । एल्लोरायाः पर्वतीये प्रदेशे ३४ छिन्नशिलामन्दिराणां समुच्चयः वर्तते । पुरातनीयस्य मध्ययुगीयस्य च भारतस्य मुख्यभूतानां हिन्दु - बौद्ध - जैनमतानां प्रतिनिधिरुपाः वर्तन्ते इमाः गुहाः । दाक्षिणात्यकलाशैल्याः अन्तिमस्तरीया परिपूर्णता अत्र द्र्ष्टुं शक्या । मानवमनीषायाः अत्यपूर्वा अभिव्यक्तिः जाता अस्ति अत्र । अत्रत्याः ३४ गुहाः अपि वस्तुतः ‘चरणाद्रि’ नामकस्य शैलस्य लम्बरुपशिलायाः उत्खननपूर्वकं निर्मिताः वर्तन्ते । १२ बौद्धगुहाः (१-१२ गुहाः), ५ जैनगुहाः (३०-३४ गुहाः), १७ अन्यदेवगुहाः (१३-२९ गुह्याः) च एकत्र एव निर्मिताः यत् तत् भारतीयेतिहासस्य धार्मिकसामरस्यं द्योतयति । अत्रत्या अखण्डशिलया उत्खाता महाकैलासगुहा (गुहा-१६) जगत्प्रसिद्धा वर्तते । विविधमतसम्बद्धाः गुहाः एकत्र निर्मिताः यत् तत् भारतीयानां परमतसहिष्णुतायाः प्रत्यक्षम् उदाहरणं वर्तते ।एतेन एव कारणेन १९८३ तमे वर्षे युनेस्कोसंस्थया एल्लोरीयाः गुहाः विश्वपारम्परिकस्थलत्वेन घोषिताः । यथा वर्णचित्राणां विषये अजन्ता प्रसिद्धमस्ति तथा एल्लोरा वास्तुशिल्पविषये प्रसिद्धा अस्ति । अत्र गुहादेवालयाः सन्ति । देवगिरिदुर्गतः ८-१० कि.मी दूरे एल्लोरा अस्ति । पर्वतप्रदेशे सागरस्तरतः ३००० पादोन्नते प्रदेशे पाश्चिमाभिमुखे शिलापर्वते त्रिकिलोमीटरदीर्घः प्रदेशः अस्ति । अत्र ३३ गुहाः सन्ति । जैनानां तथा बौद्धानां गुहाः प्राचीनाः सन्ति । इतरशैवाः वैष्णवाः गुहाः । राष्ट्रकूटराजः कृष्णः एताः निर्मितवान् । गुहासु १९ सनातनधर्मीयाः १२ बौद्धधर्मीयाः, ४ जैनधर्मीयाः सन्ति । सर्वधर्मसमन्वयः अत्रत्यः विशेषः । षोडशी गुहा कैलासदेवालयः। रमणीयवास्तुशिल्पेन अतीव प्रसिद्धास्ति । एकस्यां शिलायामेव महाद्वारं प्राकारः शिखरं कलशं शिवलिङ्गं च निर्मितवन्तःसन्ति । द्विस्तरीयः द्राविडदेवालयः अपूर्वः सर्वाङ्गसुन्दरः च अस्ति । शिलापर्वते २६७ पादमितदीर्घः, १५४ पादमितविस्तृतः, १०७ पादमितगभीरः च शिवालयः कृतः अस्ति । देवालयस्य समीपे स्तम्भद्वयं गजद्वयं च शिलासु निर्मिते स्तः । महाद्वारस्य पार्श्वे श्रीहरेः अवतारलीलाः शिवलीलाः दिक्कालसम्बद्धविषयाः सन्ति । १५ पादचतुरस्रमितं गर्भगृहम् अस्ति । तत्र बृहत् शिवलिङ्गमस्ति । प्रदक्षिणपथः अस्ति । विश्वस्य सर्वदेशेभ्यः जनाः कलाभिज्ञाः च आगत्य चकिताः भवन्ति । एतं देवालयं निर्मातुं ७ सहस्रजनाः १५० वर्षाणि यावत् कार्यं कृतवन्तः । प्रतिवर्षं डिसेम्बरमासे अत्र त्रिदिनात्मकः सङ्गीतनृत्योत्सवः प्रचलति । दर्शनाय प्रवेशशुल्कमस्ति । प्रवेशकालः प्रातः ६ वादनतः साय ६ वादनम् ।

एल्लोरागुहाः
विश्वपरम्परास्थानानि

कैलासनाथमन्दिरस्य गुहाः (१६गुहाः)
राष्ट्रम् एल्लोरागुहाः भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः (i)(iii)(vi)
अनुबन्धाः b 243
क्षेत्रम् एशियाप्रशान्तः
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः १९८३  (Unknown सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

पीठिका


परिचयः

एलोरायां ३४मठमन्दिराणि औरङ्गाबादस्य निकटं २कि.मी. विस्तीर्णे विस्तारितम् सन्ति । पर्वतानां शिलासु उत्कीर्य एतासां गुहानां निर्माणः कृतः । दुर्गमशिखरैः युक्ता एलोरा क्रि.श६००तः क्रि.श.१००० तमवर्षे निर्मिताः इति पुरातत्त्वज्ञानाम् अभिप्रायः । प्राचीनभारतस्य कलासक्त्यः सजीवः दृष्टान्त अस्ति । बौद्धानां हैन्दवानां जैनानां च पवित्रं स्थानम् इदम् अस्ति । अत्र न केवलं सर्जनात्मककलाभिः प्रसिद्धिः किन्तु अद्भुतं तान्त्रिककौशलम् अपि अत्र दृश्यते । प्राचीनभारतस्य धीरचरित्रम् अपि द्योतयति इति अभिप्रायः ।

वाहनमार्गः

औरङ्गाबादतः ३० कि.मी दौलताबादतः २५ .कि.मी ।

यूनेस्कोसंस्थया विश्वपरम्परास्थानमिति अङ्गीकृतम्।

वीथिका

विशेषावलोकनम्

  • कैलासमन्दिरम्
  • भारतीयपाषाणस्य वास्तुकला


अनुबन्धः

बाह्यानुबन्धाः

Tags:

एल्लोरागुहाः पीठिकाएल्लोरागुहाः परिचयःएल्लोरागुहाः वाहनमार्गःएल्लोरागुहाः वीथिकाएल्लोरागुहाः विशेषावलोकनम्एल्लोरागुहाः अनुबन्धःएल्लोरागुहाः बाह्यानुबन्धाःएल्लोरागुहाःअजन्तागुहाःऔरङ्गाबादमण्डलम्जैनदर्शनम्जैनमतम्बौद्धदर्शनम्बौद्धाःभारतम्महाराष्ट्रराज्यम्राष्ट्रकूटवंशःविश्व संस्थानस्य शैक्षणिक, वैज्ञानिक, सांस्कृतिक संस्थानम्हिन्दुधर्मः

🔥 Trending searches on Wiki संस्कृतम्:

कदलीफलम्रससम्प्रदायःविशाखदत्तः१२ नवम्बर२३२भाषाविज्ञानम्अङ्गकोरवाटम्८६८विकिमीडियाकुन्तकःसागरःज्योतिषशास्त्रस्य इतिहासःक्कश्यपःवितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (योगसूत्रम्)गुणकलिरागःनारिकेलम्३३५रूसीभाषानागदामिनीअश्विनीरामःसंस्कृतवाङ्मयम्चम्पारणसत्याग्रहःइण्डो-सासानियन्स् (साम्राज्यम्)स्वामी विवेकानन्दःसाङ्ख्यदर्शनम्डेनिस रिची१९००अर्जुनःताण्ड्यपञ्चविंशब्राह्मणम्गृहस्थाश्रमःअश्वघोषः१४३४दिण्डुगलमण्डलम्स्वरसन्धिःशुनकः११७अलङ्कारसम्प्रदायःअभिज्ञानशाकुन्तलम्मुख्यपृष्ठम्बोधायनःस्वीडनकाव्यदोषाःदिसम्बर २३निवेश बैंकिंगईशावास्योपनिषत्धारणाशिशुपालवधम्दश अवताराः१५८२2.22 कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्॥१९०१मुहूर्तःद्वाविमौ पुरुषौ लोके...ट्विटरपी टी उषासोमालिलैंडनासिकाश्रेया घोषाल्भट्टिः७ नवम्बरभृगुःसिकन्दर महानअरबीभाषाज्ञानपीठप्रशस्तिः५ मईयोगःपर्यावरण-संरक्षणम्🡆 More