उपसर्गाः

    प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यनवः ।
    उप आ ङिति विंशतिरेष सखे उपसर्गगणः कथितः कविना ॥

श्र्लोकेऽस्मिन् निस् दुस् च परित्यक्ते । निर् दुर् अनयोः सादृश्यात् । ते च प्रादयः क्रियायोगे उपसर्गसंज्ञां लभन्ते । तेषाम् योगात् परिवतनं स्यात् । तदुक्तम् –

    उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
    प्रहाराहारसंहारविहारपरिहारवत् ॥

उपसर्गः धातोः अर्थ बलादन्यत्र नयति । यथा ’हृञ् हरणे’ धातोः उपसर्गयोगात् प्रहारादयः अर्थाः । यथा वा उपचयः वृद्धिः, अपचयः क्षयः । किन्तु उपसर्गयोगे अन्यः एव अर्थः भासते इति नियमः न विद्यते । उपसर्गवशात् त्रिधा अर्थगतिः सम्भवति । तदुक्तम् –

    धात्वर्थं बाधते कश्चित् कश्चित् तमनुवर्तते ।
    विशिनष्टि तमेवार्थम् उपसर्गगतिस्त्रिधा ॥

कदाचित् उपसर्गः धात्वर्थं बाधते । तथा चयनार्थकचिञ्धातोः उपोपसर्गयोगात् वृध्यर्थः उपचयः इत्यत्र । कदाचित् धात्वर्थमेव अनुवर्तते । यथा सूते प्रसूते । कदाचित् तमेवार्थं विशेषयति । यथा सरति अनुसरति । अनुसृत्य सरति इति धात्वर्थं विशेषयति ।

उपसर्गाः २२ सन्ति।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

शब्दःभारतस्य संविधानम्पञ्चगव्यम्मलेशियामन्त्रःकथावस्तुअथ योगानुशासनम् (योगसूत्रम्)लवणम्क्आदिशङ्कराचार्यःभारतीयप्रौद्यौगिकसंस्थानम्एनबाणभट्टःअशोकःप्रशान्तमनसं ह्येनं...वारत्नावलीउदयनाचार्यःपिकःसुमुखीमार्टिन राइलडि देवराज अरसुयवनदेशः२३८श्रीहर्षःहस्तःजलम्ब्वि के गोकाकव्लादिमीर पुतिनअथर्ववेदःभट्ट मथुरानाथशास्त्रीसेलेनियमकालमेघःनागेशभट्टःचलच्चित्रम्भाषाविज्ञानम्आयुर्वेदःचार्वाकदर्शनम्लोकेऽस्मिन् द्विविधा निष्ठा...महाराष्ट्रराज्यम्नारिकेलम्पुंसवनसंस्कारःगेन्जी इत्यस्य कथामिनेसोटासूरा अल-इखलास१३९३१६४८अक्षि१४ नवम्बरजार्ज २मनुःबुधवासरःवायुमण्डलम्अनुबन्धचतुष्टयम्अम्बिकादत्तव्यासःज्येष्ठा१६४४अपि चेदसि पापेभ्यः...झान्सीव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)ऋतवः८९२केशः१९०१हास्यरसःगाम्बिया🡆 More