आत्मसंयमयोगः

श्रीमद्भगवदगीतायां ध्यानयोगस्यापि उपनिष्त्पद्धतेरनुसारं वैशद्येन वर्णनं प्राप्यते । अस्मिन् ध्यानयोगवर्णने श्वेताश्वतरस्योपनिषदः पूर्णः प्रभावो दृश्यते । गीतोक्तम्तानुसारेण मनः चञ्चलं भवति । अर्जुनो निवेदयति-“ चञ्चलं हि मनः कृष्णः प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्”॥ अर्थात् चञ्चलप्रकृतिवशात् मनसो वशीकरणम् अतिकठिनं वर्तते । भगवान श्रीकृष्णः मनोनिग्रहम् उद्दिश्य आसन-प्राणायाम्-प्रत्याहारादीनां योगसाधनानामुपदेशं प्रददौ !

अध्यायस्य सारः

आत्मसंयमयोगः 
गीतोपदेशः

ध्यानयोगेन चेतसः एकाग्रीकरणेन भगवदर्पणबुद्धिः समुदिते । प्राणायामादिभिरुपायैः विशुद्धमेव चित्तं भगवदाश्रयं लभते, नतु विषयपङ्केन कलुषितमिति विचारेण गीतायां भगवता श्रीकृष्णेनोपदिष्टं यत् योगी पुरुषः एकत्वभावनया सर्वभूतेषु विद्यमानं परमेश्वरं भजति । सः कस्यामपि अवस्थायां परमेश्वरेण सहैव निवसति । एवं ध्यानयोगस्य उपयोग एकाग्रेण चेतसा सर्वता विद्यमानस्य व्यापकस्य परमात्मनः भक्तावेव उचितोऽस्ति !

श्रीमद्भगवद्गीतायां योगिनः पदं तपस्वि-ज्ञानि कर्मयोगिभ्योऽपि श्रेष्ठं प्रतिपादितम् । योगिनां प्रकारद्वयं गीतायां निर्दिष्टम् युक्तो युक्ततम्श्च । ज्ञानविज्ञानाभ्यां तृप्तान्तः करणः, समदर्शी, जितेन्द्रियो विकाररहितश्च योगी युक्तसंज्ञो भवति, किन्तु युक्तयोगिषु अपि यः अन्तरात्मानं परमात्मनि निधाय श्रद्धया सततम् ईश्वरं भजति, स एअव् युक्ततमो भवति । यथोक्तम् –

    योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
    श्रद्धावान् भजते यो मां स मे युक्ततमोमतः ॥

गीतोक्तसिद्धान्तानुसारेण भगवतः श्रद्धया भजनं विना ध्यानयोगो मात्रं शारीरिकः व्यायामो भवति, शरीरकष्टायैव प्रवृत्तिः मात्रं तदवस्थायां स्वीकर्त्तुं शक्यते । अतः ध्यानेन सह भक्तेः सामञ्जस्यम् अत्यावश्यकं प्रतीयते ।

श्लोकानाम् आवलिः

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

सम्बद्धसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

८२३१६.६ द्वैभूतसर्गौ लोकेसान्तालीभाषा१४१९इस्रेलम्भिक्षु अखण्डानन्दपाकिस्थानस्य प्रशासनिकविभागाःसुग्रीवः३१२Punjabमोहम्मद रफी१५६५१९ जुलाई१५३२कर्णाटकराज्यम्१४८२अथर्ववेदःशिवताण्डवस्तोत्रम्हिन्दुस्थानीभाषाजलमालिन्यम्तमिळनाडुराज्यम्पृथिवी७५६ज्ञानकर्मसंन्यासयोगःवात्स्यायनःसामवेदःबहामास८९८ऋतुसंहारम्भारतस्य केन्द्रशासितप्रदेशाःमार्कण्डेयःमार्शलद्वीपःउर्वारुकम्क्रीडामन्यसे यदि तच्छक्यं...आरण्यकम्७०९१०५३१९९ऋष्यशृङ्गःनिघण्टुः८.८ अभ्यासयोगं....अष्टाङ्गयोगः९८०१२श्रद्धात्रयविभागयोगःपञ्जाबराज्यं२२२नाट्यशास्त्रम् (ग्रन्थः)७४९५४संस्कृतसाहित्यशास्त्रम्सिल्भरसंस्कृत भारती६७फ्रेडेरिक रेन्सन्‍यू जर्सीकालिदास८७६५८२८८५2.42 सन्तोषादनुत्तमः सुखलाभःISO 15924द्राविडमुन्नेत्रकळगम्(डि.एम्.के)श्रीशङ्करचरितामृतम्भासनाटकचक्रम्१४४६हेमा मालिनीराष्ट्रियमुक्तविद्यालयसंस्था (NIOS)Haryana🡆 More