अन्ताराष्ट्रीययोगदिवसः

अन्ताराष्ट्रिययोगदिवसः ( ( शृणु) /ˈəntɑːrɑːʃhtiːjəjoʊɡədɪvəsəh/) (हिन्दी: अन्तर्राष्ट्रिय योग दिवस, आङ्ग्ल: International Yoga Day) जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते । योगः अनन्तकालात् प्रचलितः शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति । योगस्य मूलानि भारतदेशे सर्वत्र प्राप्यन्ते । भारतीयसंस्कृतिः भौतिकसुखस्य अपेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति । परन्तु शरीरमेव आध्यात्मिकक्षेत्रे उन्नतिं कर्तुम् एकमात्रं साधनं वर्तते इत्यपि भारतीयसंस्कृतेः मतम् । अतः मनसः शान्तिः, शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति । तस्याः आवश्यकतायाः पूर्त्यै भारतीयतत्वचिन्तकैः योगशास्त्रस्य रचना कृता । अनेन योगशास्त्रेण मनसः शान्तिः, शरीरस्य स्वस्थता च वैज्ञानिकरीत्या प्राप्यते ।

अन्तरराष्ट्रिययोगदिवसः
International Yoga Day
अन्तरराष्ट्रिययोगदिवसः International Yoga Day
योगः कर्मसु कौशलम्
व्यावहारिकनाम अन्तरराष्ट्रिययोगदिवसः
इतर नामानि योगदिवसः
के आचरन्ति आविश्वम्
वर्गः संयुक्तराष्ट्रमहासभा
दिनाङ्कः जून-मासस्य एकविंशतितमः दिनाङ्कः (२१/६)
आचरणानि ध्यानम्, आसनं, प्राणायामः, सम्मेलनानि, चर्चाः, सांस्कृतिककार्यक्रमाः
अन्ताराष्ट्रीययोगदिवसः
योगासनस्य आन्तरिकस्वरूपम्

इतिहासः

२०१४ तमस्य वर्षस्य सितम्बर-मासस्य सप्तविंशतितमे (२०१४-०९-२७) दिनाङ्के भारतगणराज्यस्य प्रधानमन्त्रिणा श्रीनरेन्द्र मोदी-महाभागेन संयुक्तमहासभायां भाषणकाले उपस्थापितं यत्, "योगः अस्माकं (भारतस्य) अतिपुरातनम्, अमूल्यं योगदानम् अस्ति विश्वाय । मनसः, शरीरस्य, विचारस्य, कर्मणः, संयमस्य, उपलब्धेः च एकात्मतायाः तथा च मानव-प्रकृत्योः सामञ्जस्यापि मूर्तस्वरूपत्वेन योगः परिगण्यते । योगः न केवलं व्यायामः अस्ति, अपि तु स्वेन, विश्वेन, प्रकृत्या च सह तादात्म्यं स्थापयितुम् उत्तमं साधनम् अस्ति । योगः अस्मासु जागरूकतायाः भावम् उत्पाद्य जलवायुपरिवर्तनस्य समस्यां प्रति सङ्घर्षं कर्तुं बलं दातुं शक्नोति । अतः अस्माभिः अन्ताराष्ट्रिययोगदिवसस्य आरम्भं कर्तुम् अपि प्रयासः करणीयः" इति । उक्ते भाषणे संयुक्तराष्ट्रमहासभायां नरेन्द्र-वर्येण अन्ताराष्ट्रिययोगदिवसस्य प्रस्तावः उपस्थापितः आसीत् । ततः २०१४ तमस्य वर्षस्य दिसम्बर-मासस्य एकादशे (२०१४-१२-११) दिनाङ्के संयुक्तराष्ट्रमहासभायाः १९३ सदस्यानां समर्थनेन संयुक्तराष्ट्रमहासभाध्यक्षः जून-मासस्य एकविंशतितमं (२१/६) दिनाङ्कम् अन्ताराष्ट्रिययोगदिवसत्वेन उदघोषयत् ।

बान की मून इत्ययं संयुक्तराष्ट्रमहासभायाः अष्टमः अध्यक्षः अवदत्, "अन्ताराष्ट्रिययोगदिवसः योगस्य पवित्रलाभान् प्रति जनान् कर्क्ष्यति (आकर्षितं करिष्यति) । योगः अस्मभ्यम् असङ्क्रमितेभ्यः रोगेभ्यः रक्षणं दातुं शक्नोति । सामुदायिकैकरूपतायाः व्यापकप्रयासत्वेन योगः सर्वान् योजयित्वा परस्परम् आदरभावं जनयिष्यति च" इति । ततः स्ववचनस्य पुष्टतायै सः अवदत्, "योगः एका क्रिया अस्ति, यया विकासाय, शान्त्यै च योगदानं भवितुम् अर्हति । जनाः योगमाध्यमेन अन्येषां समस्यानां निवारणं कृत्वा तेषां जीवनम् उद्विग्नतामुक्तं (Stress free) कर्तुं शक्नुवन्ति" इति ।


चित्रवीथिका

सम्बद्धाः लेखाः

योगसूत्रम्

पतञ्जलिः

योगः

नरेन्द्र मोदी

अन्ताराष्ट्रियवाताटोत्सवः (गुजरातराज्ये)

बाह्यसम्पर्कतन्तुः

http://www.internationalyogafestival.com/event/iyf2015/ Archived २०१४-०८-२१ at the Wayback Machine

http://timesofindia.indiatimes.com/india/Narendra-Modi-calls-for-International-Yoga-Day/articleshow/43665102.cms

http://ksn.com/2014/09/27/india-leader-proposes-international-yoga-day/ Archived २०१५-०८-०७ at the Wayback Machine

http://in.reuters.com/article/2014/12/11/un-yoga-idINKBN0JP23020141211 Archived २०१५-०१-०८ at the Wayback Machine

http://www.worldyogaday.net/cms/index.php Archived २०१५-०६-२४ at the Wayback Machine

http://www.world-yoga-day.org/cms/content/idea

http://www.internationalyogaweek.com/

https://www.facebook.com/pages/World-Yoga-Day/170209873004306

http://www.worldyogaday.net/cms/content/how-participate Archived २०१५-०१-२२ at the Wayback Machine

https://www.facebook.com/internationalyogafestival

http://www.internationalyogafestival.com/ Archived २०१५-०३-१५ at the Wayback Machine

http://timesofindia.indiatimes.com/india/Narendra-Modi-calls-for-International-Yoga-Day/articleshow/43665102.cms

http://www.parmarth.com/y_courses.php Archived २०१५-०२-०६ at the Wayback Machine

उद्धरणम्

Tags:

अन्ताराष्ट्रीययोगदिवसः इतिहासःअन्ताराष्ट्रीययोगदिवसः चित्रवीथिकाअन्ताराष्ट्रीययोगदिवसः सम्बद्धाः लेखाःअन्ताराष्ट्रीययोगदिवसः बाह्यसम्पर्कतन्तुःअन्ताराष्ट्रीययोगदिवसः उद्धरणम्अन्ताराष्ट्रीययोगदिवसःअन्ताराष्ट्रीययोगदिवसः.wavआङ्ग्लभाषाजूनभारतम्भारतीयसंस्कृतिःमनःमनुष्यःयोगःसञ्चिका:अन्ताराष्ट्रीययोगदिवसः.wavहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

भक्तिःउर्वारुकम्वर्षःसंयुक्ताधिराज्यम्भासःक्रीडापञ्चमहायज्ञाःवैश्विकस्थितिसूचकपद्धतिःविश्वकोशःचीनदेशःमनसा, पञ्जाब्१६१५नलःमीमांसादर्शनम्१६७७न्मई २इङ्गुदवृक्षः२७३नाट्यशास्त्रम् (ग्रन्थः)प्लावनम्२८ अगस्तभारतीयदर्शनशास्त्रम्कर्मयोगः (गीता)इतालवीभाषाअल्लाह्बन्धुरात्मात्मनस्तस्य...नरेन्द्र सिंह नेगी१७४६विमानयानम्लातूरसुहृन्मित्रार्युदासीनम्...प्रत्ययःमैथुनम्सितम्बर १३नडियादचम्पादेशःपेलेब्राह्मणम्लीथियम्तेनालीमहापरीक्षा२२ जनवरीइन्द्रः4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःसमयवलयःनक्षत्रम्योगःहरिद्रासूरा अल-फतिहाभौतिकशास्त्रम्लोकेऽस्मिन् द्विविधा निष्ठा...यवःलन्डन्जाम्बियास्वप्नवासवदत्तम्भगवद्गीताउद्धरेदात्मनात्मानं...ब्रह्माश्बाणभट्टः११ जूनमहाभाष्यम्कुवैतकथावस्तुभद्राआकाशवाणी(AIR)मायावादखण्डनम्अजर्बैजान🡆 More