हिङ्गु इत्यस्य आङ्ग्लभाषायां Devils Dung इति नाम । अयम् अपि आहारपदार्थः भारते अधिकप्रमाणेन उपयुज्यते । अस्य वैज्ञानिकं नाम अस्ति Ferula marthe इति । भारतस्य पाकशालायां प्रमुखं स्थानं वहति हिङ्गु । सर्वस्य कटुयुक्तस्य अपि पाकस्य सज्जीकरणस्य अनन्तरं हिङ्गु स्थापयित्वा व्यागरणं क्रियते चेत् एव पाकः समाप्तः, सेवनार्थं सिद्धः इति अर्थः । तथा प्रसिद्धम् अस्ति भारते हिङ्गु । हिङ्गुसस्यं बहूनि वर्षाणि जीवति । इदं ५-७ पादपरिमितं उन्नतं भवति । अस्य लघूनि पीतपुष्पाणि भवन्ति । अस्य काण्डस्य, मूनस्य च व्रणं कुर्वन्ति चेत् यः रसः द्रवति सः एव हिङ्गु इति कथ्यते । सामान्यतः वसन्तऋतौ सस्यस्य मूलस्य उपरि विद्यमानं त्वचं विदारयन्ति, तत्र सञ्चितं निर्यासं पृथक् कृत्वा पुनः तथैव व्रणं कुर्वन्ति ।
पार्सि, बल्स्, बलचिस्थानं इत्यादिषु देशेषु उपर्युक्तरीत्या हिङ्गुसंग्रहं कुर्वन्ति । काबूल, आफधानिस्थानं, काश्मीरम् इत्यादिषु प्रदेशेषु सस्यमेव लघुखण्डाशः कर्तयित्वा ततः निर्यासं संगृह्णन्ति । अस्मिन् हिङ्गनि अपमिश्रणमपि भवितुम् अर्हति । अतः तत् शुद्धीकर्तुं जले सांस्थाप्य द्रावणीयम् । तदा शुद्धं हिङ्गु अधः तिष्ठति । परन्तु एतादृश हिङ्गुनः गन्धः, रुचिः च उत्कृष्टः न भवति ।
शलः ४०-६४% निर्यासः २५% उडनशिलतैलम् -१०-१७% राख .१-१०% च भवति । अस्मिन् प्रधानतया एसारेसिनो टैनोल् स्वतन्त्रतया, फेरुलिक् आसिडेन सह मिश्रितं सत् अपि उपलभ्यते । हिङ्गुनः विशिष्टगन्धस्य तस्मिन् विद्यमान् दैसल्फेट् कारणम् आयुर्वेदानुसारं हिङ्गुनि लुघु-स्निग्ध-तीक्ष्णगुणाः सन्ति । इदं कटु, उष्णवीर्योपेतं च वर्तते । इदं हिङ्गुसस्यं ५’ – ८’ यावत् वर्धते । अस्य हिङ्गुसस्यस्य पर्णानि १” – २” यावत् दीर्घाणि भवन्ति । अस्य सस्यस्य मूलं यदा उत्कीर्यते तदा किञ्चन निर्याससदृशं द्रवं स्रवति । तदेव अस्माकम् आहारे उपयुज्यमानं हिङ्गु । वसन्तऋतौ सङ्गृहीतं हिङ्गु अत्यन्तम् उत्तमगुणयुक्तं हिङ्गु । अस्मिन् गन्धकयुक्तं वोलोटैल् आयिल्, फेरोलिक् आसिड् म्यालिक्, असिटक्, फार्मिक् तथा लारिनिक् आसिड् अंशाः भवन्ति । इदं हिङ्गु यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।
इदं हिङ्गु आङ्ग्लभाषया Devils Dung इति उच्यते । हिन्दीभाषया“हिङ्ग्” इति, तेलुगुभाषया “इङ्गुवा” इति, तमिळ्भाषया “पेरुङ्गायम्” इति, मलयाळभाषया अपि “पेरुङ्गायम्” इति, कन्नडभाषया “इङ्गु” इति च उच्यते ।
कासादिषु श्वासरोगेषु अपि हिङ्गुलेपनं कर्तुं शक्यते ।
इदं हिङ्गु अत्यन्तं तीक्ष्णं, लघु, स्निग्धं च । इदम् उष्णवीर्ययुक्तं, कटुः च । “हिङ्ग्वाष्टकचूर्णं”, “हिङ्ग्वादिघृतं”, “हिङ्गुकर्पूरवटी”, “रजप्रवर्तिनी वटी” इत्यादीनि अनेन हिङ्गुना निर्मीयमाणानि प्रमुखानि आयुर्वेदीयानि औषधानि । तेषाम् औषधानां सेवनस्य प्रमाणम् एवं भवति – चूर्णं चेत् १५ – ५० मिलिग्रां यावत् । १. इदं हिङ्गु जीर्णशक्तिं वर्धयति । तस्मात् अजीर्णरोगेषु अस्य उपयोगः हितकरः । २. उदरवेदनां, क्रिमिबाधां, ज्वरम्, आयवातं (कीलवेदना) च निवारयति इदं हिङ्गु । ३. इदं हिङ्गु शोथम् अपि निवारयति । ४. महिलानां मासिकदोषेषु, दन्तवेदनायां चापि उपयोक्तुं शक्यते । ५. दन्ताः कीटविद्धाः चेदपि हिङ्गुनः उपयोगः हितकरः । ६. पित्तप्रकृतियुक्ताः, पित्तजन्यरोगैः पीड्यमानाः च अस्य उपयोगं मितेन प्रमाणेन कुर्युः ।
एतत् हिङ्गु पचनार्थं लघु, गुणेषु उष्णं, तीक्ष्णं, स्निग्धं च । हिङ्गु कटुरसयुक्तम् । हिङ्गु अपि सुगन्धयुक्तं वस्तु अस्ति ।
आध्मानादिषु उदररोगेषु एरण्डतैले हिङ्गु मिश्रीकृत्य एनिमा दानमपि परिणामकारि, क्रिमिरोगेषु १०० मि.ली. जले २ ग्रां हिङ्गुमिश्रीकृत्य एनिमा दानं प्रयोजनकरम् । हिङ्गु दीपनं अनुलोमनं च विद्यते इति कारणॆन आध्माने गुल्मरोगे, उदरशूले, मलबद्धतायां, क्रिमिरोगेषु च स्वस्य कटु-उष्णगुणैः परिणामं जनयति ।
हिङ्गु केवलं ०.१२-०.५ ग्रां परिमितं सेवितुं शश्यते
प्रसिद्धानि हिङ्गुनिर्मितानि औषधानि ।
आयुर्वेदानुसारं हिङ्गुनि लघु- स्निग्ध- तीक्ष्ण गुणः विद्यन्ते । कटु इदं विपाके अपि कटु एव भवति । अस्मिन् उष्णवीयं भवति । इदं कफशामकं, पित्तवधीकश्च
This article uses material from the Wikipedia संस्कृतम् article हिङ्गु, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.