भूलोकस्य अमृतम् इति प्रसिद्धम् अस्ति तक्रम् । एतत् तक्रम् आङ्ग्लभाषायां Butter milk इति उच्यते । इदम् अपि आहारपदार्थः न सस्यजन्यः अपि तु प्राणिजन्यः । तथापि इदम् अमृतसमानम् इति उच्यते । देवलोके सुखार्थं देवैः यथा अमृतं पीयते तथा भूलोके तक्रम् इति उक्तवन्तः सन्ति अस्माकं पूर्वजाः ।
दध्नः मथनेन प्राप्यमाणं घनरूपं नवनीतं पृथक् कुर्मः चेत् अवशिष्टं द्रवम् एव तक्रम् इति उच्यते । तक्रं यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । “भोजनान्ते च तक्रं पथ्यम्” इति वदन्ति । भूरिभोजनं कृत्वा अन्ते तक्रं सेवन्ते चेत् अजीर्णं न भवति । “तक्रं शक्रस्य दुर्लभम्” इति एकं वाक्यम् अस्ति । तन्नाम् देवलोकस्य इन्द्रस्य (शक्रः) अपि दुर्लभं तक्रं मनुष्यलोके अस्माभिः मानवैः प्राप्तम् अस्ति । तत् अस्माकं सौभाग्यम् । रुच्यनुगुणं तक्रं द्विधा विभक्तम् अस्ति – मधुरतक्रम्, आम्लतक्रं च इति । एतद्विना यथा दुग्धे शास्त्रकाराः अष्टविधं दुग्धं, तेषाम् उपयोगं च वदन्ति तथैव तेषाम् अष्टानां प्राणिनां दुग्धस्य तक्रम् अपि भवितुम् अर्हति ।
भोजनान्ते सर्वै: उपयुज्यमानं तक्रम् उदरक्रिमिनाशकम्, लघु, जठराग्निदीपकं, ग्रहणी - इत्यादि रोगनिवारकं च भवति । नेत्ररोगिणां कृते गोतक्रं पथ्यं भवति । आयुर्वेदे ‘तक्रारिष्टम्’ इति विशिष्ट: योग: अपि निर्मीयते ।
निष्पावसदृशानां शाकसस्यानां सुलभम्लानतानिवारणार्थं तेषां बीजानां कृषिक्षेत्रे वपनात् पूर्वं तानि बीजानि 24 घण्टा: यावत् तक्रे निमज्य स्थापनीयानि ।
तक्रं पचनार्थं लघु । कषायमिश्रित-आम्लरसः तक्रस्य । एतत् तक्रं जीर्णक्रियाम् अधिकां करोति । रुचिं वर्धयति च । घृतस्य सेवनेन सञ्जातम् अजीर्णं दूरीकरोति । विषं, रक्ताभावं च निवारयति तक्रम् । ग्रहिणीदोषं, मूलव्याधिं, मूत्रदोषं च शमयति अपि ।
भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दर्लभम् ॥
घृतं च श्रूयते कर्णे दधि स्वप्नेऽपि दुर्लभम् ।
मुग्धे दुग्धस्य का वार्ता तक्रं शक्रस्य दुर्लभम् ॥
अमृतं दुर्लभं नॄणां देवानामुदकं तथा ।
पितॄणां दुर्लभः पुत्रः तक्रं शक्रस्य दुर्लभम् ॥
अक्रत्वर्थामिति ज्ञात्वा शक्रो न हुतवान्पुरा ।
नादत्तमिति शास्त्रार्थात् तक्रं शक्रस्य दुर्लभम् ॥
क्षीरेण दग्धजिह्वस्तक्रं फूत्कृत्य पामरः पिबति ।
दम्भिनमवलोक्य जनस्तद्वन्मां शङ्कते त्वया त्यक्तम् ॥
This article uses material from the Wikipedia संस्कृतम् article तक्रम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.