वक्त्राणि ते त्वरमाणा...

श्लोकः

वक्त्राणि ते त्वरमाणा... 
गीतोपदेशः
    वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
    केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः

वक्त्राणि ते त्वरमाणाः विशन्ति दंष्ट्राकरालानि भयानकानि केचित् विलग्नाः दशनान्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तमाङ्गैः ॥ २७ ॥

अन्वयः

अवनिपालसङ्घैः सह एव सर्वे च अमी धृतराष्ट्रस्य पुत्राः तथा असौ भीष्मः द्रोणः सूतपुत्रः अस्मदीयैः योधमुख्यैः सह त्वां विशन्ति । ते दंष्ट्राकरालानि भयानकानि वक्त्राणि त्वरमाणाः विशन्ति । केचित् दशनान्तरेषु विलग्नाः चूर्णितैः उत्तमाङ्गैः (उपलक्षिताः) सन्दृश्यन्ते ।

शब्दार्थः

    अवनिपालसङ्घैः सहैव = राजसमुदायैः साकम् एव
    सर्वे च = सकलाः अपि
    अमी = इमे
    धृतराष्ट्रस्य पुत्राः = दुर्योधनादयः
    तथा = एवम्
    असौ भीष्मः द्रोणः सूतपुत्रः = अयं भीष्मः द्रोणः कर्णः च
    अस्मदीयैः = आस्माकीनैः
    योधमुख्यैः सह अपि = प्रधानयोधैः सह अपि
    ते दंष्ट्राकरालानि = ते दन्तैः घोराणि
    भयानकानि = भयराणि
    वक्त्राणि = मुखानि
    त्वरमाणाः = त्वरायुक्ताः
    विशन्ति = प्रविशन्ति
    केचित् = केचित् योधाः
    चूर्णितैः = चूर्णीभूतैः
    उत्तमाङ्गैः = शीर्षैः उपलक्षिताः
    दशनान्तरेषु = दन्तमध्यभागेषु
    विलग्नाः = संसक्ताः
    सन्दृश्यन्ते = वीक्ष्यन्ते ।

अर्थः

एते सर्वेऽपि कौरवाः अन्येषां नृपाणां समूहैः सह तव मुखानि त्वरया प्रविशन्तः सन्ति । तैः सह भीष्मः द्रोणः कर्णः तथा अस्मत्पक्षीयाः बहवो योधमुख्याः प्रविशन्तः सन्ति । तव मुखानि दंष्ट्राभिः अत्यन्तं घोराणि भयजनकानि च सन्ति । तव मुखानि प्रविष्टवत्सु एतेषु केचन दन्तानां मध्ये विलग्नाः दृश्यन्ते ।तेषां च शिरांसि चूर्णितानि दृश्यन्ते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

वक्त्राणि ते त्वरमाणा... श्लोकःवक्त्राणि ते त्वरमाणा... पदच्छेदःवक्त्राणि ते त्वरमाणा... अन्वयःवक्त्राणि ते त्वरमाणा... शब्दार्थःवक्त्राणि ते त्वरमाणा... अर्थःवक्त्राणि ते त्वरमाणा... सम्बद्धसम्पर्कतन्तुःवक्त्राणि ते त्वरमाणा... सम्बद्धाः लेखाःवक्त्राणि ते त्वरमाणा...

🔥 Trending searches on Wiki संस्कृतम्:

मेइट्नेरियम२६९ऋषिःवाल्मीकिः३३११४७२९३७ब्रह्मदेशःएप्पल्क्रियायोगः१२००गीतगोविन्दम्समन्वितसार्वत्रिकसमयःआदिशङ्कराचार्यः७ मईअधिगमः१४८५हनुमप्प सुदर्शन्पर्वताः१०९३वासूरा अल-फतिहाकालिदासस्य उपमाप्रसक्तिःसंन्यासाश्रमः११२३अष्टाङ्गयोगःवालपाराईसोअलाबामावेदान्तः१३१७१४७७हृदयाघातःअटलान्टासंस्कृतविकिपीडिया१४४१नार्थ डेकोटा१४८९नारिकेलम्सावित्रीबाई फुलेअत्र शूरा महेष्वासा...९२१द्विचक्रिकाछान्दोग्योपनिषत्जपान्शक्नोतीहैव यः सोढुं...९४४शर्कराकार्तिकदीपोत्सवः१२०५कर्नूलु-नगरम्मृच्छकटिकम्१६३६अथ चित्तं समाधातुं...अनुराधा९२७आस्ट्रेलिया११२६५२७व्याघ्रःराजयोगः१३२४१४०८कारकम्सरस्वती लिपिःअनाश्रितः कर्मफलं...१६६५केनडाकथासरित्सागरःविहाय कामान्यः सर्वान्...१६५१शिवराज सिंह चौहानबीजिङ्ग्कूर्मःजगदीश चन्द्र बसुशहीद-भगतसिंहनगरमण्डलम्संस्कृतव्याकरणपरम्पराभगवद्गीता🡆 More