बिग्-ब्याङ्ग्

बिग्-ब्याङ्ग् अर्थात् महाविस्फोटसिद्धान्त । एषः सिद्धान्तः इदानीं तावत् सृष्टिशास्त्रे कृतभूरिपरिश्रमैः अधिकविज्ञानिभिः अङ्गीक्रियते । अस्य सिद्धान्तस्य स्थूलपरिचयो नाम – जगतः सृष्टिः एकेन बृहत् स्फोटेन सम्पन्ना । तत्र पूर्वं न किञ्चित् आसीत् । स्फोटानन्तरमेव सर्वमुत्पन्नम् । इदानीं विद्यमानं दृश्यमानं सर्वं द्रव्यं संग्रहरूपेण एकस्मिन् एव अणौ संपिण्डितम् आसीत् । महत् औष्ण्यं तदानीम् आसीत् । तस्य गुरुत्वकारणात् एव द्रव्यं समग्रम् अणोः न्यूक्लियस्-रूपेण महत्या सान्द्रतया अवर्तत । कालः अपि अत्र विज्ञानिभिः गणितः यत् कदा सम्पन्नः अयं महान् स्फोटः इति । ते वदन्ति – 13.7 बिल्लियन् वर्षेभ्यः प्राक् इति। तस्याः अवस्थायाः कृते एकत्वम् (सिन्ग्युलारिटि) इति नाम्ना अबिदधते विज्ञानिनः। सृष्टिशास्त्रीयविषयानाम् अध्ययनेन ज्ञायते यत् आदौ अर्थात् सृष्टिक्रमस्य आरम्भे sub-atomic particles उत्पन्नानि । यदा च महदौष्ण्यं क्षीणातां प्राप ततः परम् लघुघटकानां संयोजनं सम्पन्नम् । तेनैव क्रमेण पदार्थस्य शक्तेश्च आविर्भावः समजनि ।

बिग्-ब्याङ्ग्
महास्फोटः
सञ्चिका:Big-bang.jpg
बिग्-ब्याङ्ग्

सृष्टिप्रक्रिया - क्वाण्टम् सिद्धान्तः प्रतिपादयति यत् बिग्-ब्याङ्ग् स्फोटस्य 10-2 sec अनन्ततम् चत्वारि अपि बलानि एकत्रीकृतानि आसन् । तदानीं परमबलमेकम् अवर्तत इति । चत्वारि बलानि नाम दृढ-न्यूक्ल्यर्-बलं (strong nuclear), अदृढ-न्यूक्ल्यर्-बलं (weak nuclear), एलेक्ट्रो-माग्नेटिक्-बलं (electromagnetic force), गुरुत्वबलं (gravitational force) च । तत्रादौ स्फोटसकाशात् क्वार्क्-अंशाः प्रभवं प्राप्तवन्तः । तेषां anti particle अपि जनिं प्राप्तवन्तः । ततः परमेव तेषां क्वार्क्-अंशानां त्रयाणां त्रयाणां समवायेन फोटान्-घटकाः, पोसिट्रोन्-घटकाः, न्यूट्रिनो-घटकाः च उत्पन्नाः । ततः परं प्रोटान्-घटकानां उत्पत्तिः अभूत् तत्र प्रति बिल्लियन् फोटान्-घटकेभ्यः एकः प्रेटान् इति एवम् अनुपातः आसीत् । अस्याम् अवस्थायां समग्रं जगत् प्लास्मारूपेण अयान्स्वरूपेण च अवर्तत । तदानीं शक्तेः अणोः च मध्ये भेदः न आसीत् । समानरूपता आसीत् । पुनश्च अणूनां (particles) प्रत्यणूनां च (anti-particles) समसङ्ख्याकत्वम् आसीत् । किन्तु एकक्षणस्य शतभागेषु एकस्मिन् भागे (one hundredth of a second) जगति विद्यमानानि न्यूट्रान्-घटकानि विकिरणानि प्रसारयन्ति अभवन् । एतेन कारणेन एलेक्ट्रान्-अंशानां प्रोटान्-अंशानां च मध्ये आकर्षणद्वारा सम्मेलनम् आरब्धम् । तथैव अवशिष्टन्यूट्रान्-घटकाः प्रोटान्-घटकैः सह मिलित्वा हौड्रोजन्-अणुरूपेण परिणामं प्राप्तवन्तः ।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

ओषधयःसरस्वतीनदीकुण्डलिनी (मुद्रा)ब्१७०७जून २१नवग्रहाःदेवभक्तिःयजुर्वेदःमल्लक्रीडाआङ्ग्लभाषा२०१०ट्रेन्टन्वक्रोक्तिसम्प्रदायः२६ जुलाईअफझलपुरविधानसभाक्षेत्रम्१०५८शर्कराजूनअगस्त २०१३०४१८५६२१०अल्लाह्द्विचक्रिकासितम्बर १३प्रकरणम् (रूपकम्)चतुर्थी विभक्तिःदमण दीव चसूत्रलक्षणम्मिथुनराशिः१० फरवरीअपर्याप्तं तदस्माकं...नासतो विद्यते भावो...संयुक्तराज्यानि५९३पर्वताःसंस्कृतम्सूर्यःविलियम ३ (इंगलैंड)कलिङ्गद्वीपःफरवरी १६नरेन्द्र मोदी२६ अप्रैलचिन्तानवम्बर १७कैवल्य-उपनिषत्बेरिलियम्वैदिकसाहित्यम्१२१९जून २४अव्ययीभावसमासः२०१२टुनिशियाब्रह्मसूत्राणि१६ अगस्तसेंड विन्सेन्ड ग्रेनदिनेश्च१९०३विश्वनाथः (आलङ्कारिकः)जैमिनिःजून १०नासावेतालपञ्चविंशतिकामन्दाक्रान्ताछन्दःइमं विवस्वते योगं...विश्वामित्रःखो खो क्रीडाशब्दःयुद्धम्२८४भारतीयप्रौद्यौगिकसंस्थानम्अर्जुनविषादयोगःराजविद्या राजगुह्यं...पृथ्वीविशिष्टाद्वैतवेदान्तःप्रकरणग्रन्थाः (द्वैतदर्शनम्)🡆 More