करुणस्य शोकः स्थायिभावो भवति । इष्टजनविराहदिभिर्हृदये जायमानं दुःखं शोक उच्यते । आदिशब्देनाऽत्र विनाशशापक्लेशबन्धनव्यसनप्रभृतयो ग्राह्याः । एको रसः करुण एव- इति भवभूतिः उत्तररामचरिते करुणरसस्य महत्त्वं वर्णयति ।
करुणरसः । | |
---|---|
दुखरसा । |
पुत्रादिवियोगमरणादिजन्मावैकल्याख्यश्चित्तवृत्तिविशेषश्शोकः इति रसगङ्गाधरे स्पष्टीकृतम्। विक्षेपार्थे, "कृ”धातौ 'उनन्’ आदेशे अच् प्रत्यये "करुण" शब्दस्योत्पत्तिः सम्भवति। ईप्सितस्य नाशोभूत्वा, अनिष्टप्राप्तेः वर्णनात् करुणरसस्य प्रादुर्भावः भवति। अस्य रसस्य वर्णनं भरतः एवं स्पष्टीकरोति।
“इष्टवधदर्शनाद्यप्रियववचनस्य संश्रावाद्वापि।
एभिर्भावविशेषैः करुणरसो नाम संभवति॥ इति॥
कष्टेस्थितान् दृष्ट्वा, कदाचित् दुःखवशात्, वेदनायाः प्रभावात्, इष्टजनस्य वियोगात्, सम्पत्तिनाशादीनां दर्शनेन उत श्रवणेन वा सात्विकभावः उत्पत्स्यते. अनेन दैन्य, आलस्य, आवेग, विषादः, जडः, उन्मादः चिन्ता इत्यादि व्यभिचारिभावैः शोकस्थायिभावः करुणरसः भवति। त्यागः, आर्तता, दीनता इत्यादयः करुणरसकारकाः भवन्ति। निर्वेदः, ग्लानिः, चिन्ता, मोहः, अश्रु, वैवर्ण्यादयः करुणरसस्य पूरकाः भवन्ति। अस्य करुणरसस्य विभावाः विरहतापः, निर्धनिकता, मरणमित्यादयः भवन्ति। अनुभावाः शोकः, पिपासा, वर्णव्यत्यासादयः भवन्ति। अन्ततः गत्वा इष्टवियोगः उत अनिष्टसंयोगः एव करुणरसः भवति।
करुणरसप्रतिपादकाः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य तोडिरागः, आसावरिरागः, शिवरञ्जनीरागः इत्यादयाः रागाः भवन्ति।
This article uses material from the Wikipedia संस्कृतम् article करुणरसः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.