अजमेर

अजमेर ( ( शृणु) /ˈədʒəmɛrə/) (हिन्दी: अजमेर, आङ्ग्ल: Ajmer) राजस्थानराज्ये स्थितस्य अजमेरमण्डलस्य केन्द्रम् अस्ति । पूर्वम् एतत् नगरम् अजयमेरुः इति नाम्ना ख्यातम् आसीत् । एतन्नगरं हिन्दूनां, यवनानाञ्च यात्रास्थलमस्ति । इतिहासानुसारम् आङ्ग्लराजदूतः सर् थामस् मन्रो मुघलवंशीयं जहाङ्गीरनामकं राजानं क्रिस्ताब्दे १६१६ तमे वर्षे अत्रैव मिलितवान् आसीत् । क्रिस्ताब्दे १८१८ तमे वर्षे प्रशासनम् आङ्ग्लानां वशे अभवत् ।

अजमेर
नगरम्
मेयो कालेज्
मेयो कालेज्
Coordinates: २६°२७′००″उत्तरदिक् ७४°३८′२४″पूर्वदिक् / 26.4499°उत्तरदिक् 74.6399°पूर्वदिक् / २६.४४९९; ७४.६३९९ ७४°३८′२४″पूर्वदिक् / 26.4499°उत्तरदिक् 74.6399°पूर्वदिक् / २६.४४९९; ७४.६३९९
देशः भारतम्
राज्यम् राजस्थानम्
मण्डलम् अजमेर
Elevation
४८६ m
Population
 (2011 census)
 • Total ५,४२,५८०
Languages
 • Official हिन्दी, आङ्ग्लभाषा
 • Regional हिन्दी, राजस्थानी
Time zone UTC+5:30 (IST)
PIN
3050 xx
Telephone code +0145
Vehicle registration RJ01
Nearest city जयपुरम्, उदयपुरम्, देहली
Website www.ajmer.nic.in

अजमेरसमीपे पुष्करतीर्थे (११कि.मी) हिन्दूजनाः पवित्रस्नानं कुर्वन्ति । पुष्करतीर्थे चतुर्मुखब्रह्मदेवालयः अपूर्वः अस्ति । तारागढपर्वततले ख्वाजा मोयिनुद्दीन् दरगाह अस्ति । एतत् अमृतशिलया निर्मितमस्ति । अकबरनामकस्य मुघलराज्ञः राजगृहम् इदानीं वस्तुसङ्ग्रहालयत्वेन उपयुज्यमानः अस्ति । नासियान् जैनमन्दिरम्, आनासागरतडागः, तारागढदुर्गः (१३०० पादोन्नतः) इत्यादीनि आकर्षणीयस्थलानि नगरेऽस्मिन् सन्ति ।

 अजयमेरुः

चौहानवंशस्य उत्कर्षस्य, पराभवस्य च जीवन्तसाक्षी अजयमेरुः वर्तते । यतो हि अजयराजस्य काले अजयमेरोः राजधानीत्वेन घोषणाोत्तरं पृथ्वीराजतृतीयस्य नरायनस्य द्वितीये युद्धे पराजयं यावत् अजयमेरुः चौहानवंशस्य राजधानी आसीत् । पृथ्वीराजतृतीयस्य मृत्युः अपि अजयमेरौ एवाभवत् । अजयमेरुः एव अरावल्याः विशालपर्वतमालायां स्थितः चौहानवंशस्य केन्द्रियशक्तेः विराट् स्वरूपः आसीत् । द्वादश्यां शताब्द्यां भारतीयत्वस्य रक्षणं यः कृतवान्, सः अजयमेरुः एव आसीत् । अजयमेरोः हुङ्कारेणैव गोर-गझनी-बसरा-बगदाद इत्यादयः प्रदेशाः भयभीताः भवन्ति स्म । अजयमेरौ एव विग्रहराजेन शपथः स्वीकृतः आसीत् यत्, "अहं भारतवर्षं म्लेच्छमुक्तं (यवनमुक्तं) करिष्यामि" इति । सः अजयमेरुः अद्यापि अजमेर इति नाम्ना जीवन्तः अस्ति ।

इतिहासः

अजयमेरोः दुर्गस्य अजयगढ, अजयदुर्ग, अजयमेर, अजयपुरा, तारागढ इत्यादीनि नामानि प्रसिद्धानि सन्ति । अजयमेरोः, अजयमेरुदुर्गस्य च स्थापना कदा अभवत् इत्यस्य अनेकानि प्रमाणानि उपलभ्यन्ते । चौहावंशीयेन अजयपालेन सप्तम्यां शताब्द्याम् अजयमेरोः स्थापना कृता । उक्तं मतं डॉ. दीवान बहादुर हरविलास सारदा इत्येतस्य अस्ति । हरविलासमहोदयस्य मतस्य आधारः प्रबन्धकोशः अस्ति । हरविलासमहोदयस्य मतस्य अन्ये आधाराः अपि सन्ति । यथा – अजयमेरोः प्राप्ताः शिलालेखाः । तेषु शिलालेखेषु यतेः रत्नकीर्तिमहाराजस्य हेमराजाख्येन शिष्येन ८१७ (ई. ७६०) तमे विक्रमसंवत्सरे प्रस्थापितः शिलालेखः अपि अन्तर्भवति । अन्ये शिलालेखाः अपि अजयमेरोः प्राप्ताः । तेषां प्रस्थापनकालः क्रमेण ई. ८४५, ८५४, ८७१ मन्यते ।

अजयमेरुस्थानन्तरणस्य कारणम्

७१२ ई. मध्ये अरब-देशीयः सेनापतिः मुहम्मद बिन कासिम इत्यस्य नेतृत्वे सिन्धप्रदेशस्योपरि आक्रमणम् अभवत् । अबर-देशस्य लुण्ठकैः सिन्धप्रदेशस्य अनेकेषां प्रदेशानां धनं लुण्ठितम् । तस्मिन्नेव काले अरब-देशीयानाम् उत्पातैः स्वाराज्यस्य धनकोशस्य रक्षणं कर्तुं मण्डोरप्रदेशस्य शासकेन नागभट्टेन (ई. ७३०-७५६) स्वराजधानी मण्डोर-प्रदेशात् मेडान्तक-प्रदेशे (मेडता) स्थानन्तरिता । इतिहासविदानां मतानुसारं मण्डोर-प्रदेशस्य शासकः चौहानवंशीयानां प्रबलप्रतिद्वन्द्वी आसीत् । अतः स्वराज्यस्य सुरक्षायै तत्कालीनः राजा अजयराजः भारतस्य प्राचीनतमतीर्थक्षेत्रस्य पुष्करस्य रक्षायै सैन्यशिबिराणि प्रास्थापयत् । अजयराजस्य पितुः पृथ्वीराजप्रथमस्य कालयेव शाकम्भरीप्रदेशस्योपरि तुर्कजनानाम् आक्रमणे वेगः आसीत् । अपरत्र चालुक्यवंशीयाः अपि पुष्करतीर्थस्योपरि आक्रमणानि अकुर्वन् । अतः अजयराजः स्वपुरातनसैनिकस्थलाय एव विराड्रूपं दत्त्वा तस्मिन् स्थले एकस्य विशालस्य दुर्गस्य स्थापनाम् अकरोत् । अजयमेरुः राजपूतानां हृदयस्थलवत् आसीत् । यतो हि तत् स्थलं प्रमुखमार्गैः सँल्लग्नम् आसीत् । अजयमरोः गुजरातराज्यस्य, दक्षिणभारतस्य, पश्चिमराजस्थानस्य, पञ्चनद्यस्य कृते साक्षात् मार्गाः आसन् । अतः अजयराजः स्वनाम्ना अजयमेरोः स्थापनम् अकरोत् ।

अजयमेरुदुर्गम्

अजयमेरुदुर्गं तारागढ इत्यपि प्रसिद्धम् अस्ति । लोकगीतेषु अजयमेरुदुर्गस्य 'गढ बीठली', अजयगढ इत्येते नामनी प्राप्येते । समुद्रतलात् २८५५ फीट्, पृथ्वीतलात् ८०० फीट् च उन्नते गिरिमालिकाभिः आच्छादितं गिरिदुर्गम् अजयमेरुदुर्गं ८० एकड् भूमौ विस्तृतम् अस्ति । चतसॄषु दिक्षु विशालप्रस्तरैः निर्मिताः प्राचीराः सन्ति । ते प्राचीराः २० फीट् लम्बमानाः सन्ति । कुत्रचित् गिरिकायाः भागः अनुन्नतः अस्ति, तत्र प्राचीराणां वर्तुलाकारस्य सुदृढस्य अट्टालस्य (watchtower) निर्माणं कृतम् अस्ति । अजयमेरुदुर्गस्य सुदृढां सुरक्षाव्यवस्थां दृष्ट्वा पादरी हेबर् इत्याख्यः (१८२५ तमे वर्षे अजयमेरुदुर्गस्य यात्राम् अकरोत् सः ।) प्रवासी अवदत्, अजयमेरोः दुर्गं द्वितीयं 'जिब्राल्टर्' अस्ति इति ।

अजयमेरोः दुर्गं प्रवेशं कर्तुं त्रयः मार्गाः सन्ति । दुर्गस्य अग्रे, पृष्ठे च एकैकं द्वारम् अस्ति । अपरं मुख्यद्वारम् अस्ति । तद्द्वारं 'लक्ष्मीपोल' इति प्रसिद्धम् अस्ति । तस्य द्वारस्य निर्माणं प्राचीनपद्धत्या अभवत् । लक्ष्मीपोल-द्वारम् उभयतः अट्टालौ स्तः । तयोः अट्टालयोः मध्ये एका भित्तिका अस्ति । तस्याः भित्तिकायाः अध एव द्वारम् अस्ति । लक्ष्मीद्वारात् तसृषु दिक्षु प्राचीराणां पङ्क्तयः विस्तृताः सन्ति । लक्ष्मीद्वारात् यः गोलाकारमार्गः निर्गच्छति, सः १०० फीट् दूरे अपरं द्वारं प्रति नयति ।

अजयमेरुदुर्गे १४ विशालाः अट्टालकाः सन्ति । तेषां सर्वेषां नामानि क्रमेण अधः सन्ति ।

१.घूङ्घट-अट्टालकः

२.गुगडी-अट्टालकः

३.फूटा-अट्टालकः

४.नक्कार्ची-अट्टालकः

५.शृङ्गार-अट्टालकः

६.अर्पर्कात्रा-अट्टालकः

७.जानूनायक-अट्टालकः

८.पिप्पली-अट्टालकः

९.हुतात्मा-अट्टालकः

१०.दुराई-अट्टालकः

११.मर्कट-अट्टालकः

१२.इमली-अट्टालकः

१३.खिडकी-अट्टालकः

१४.फतेह-अट्टालकः

अजयमेरुदुर्गे पञ्च विशालजलाशयाः सन्ति । तेषां नामानि क्रमेण 'नाना साहब'-जलाशयः, गोल-जलाशयः, इब्राहीम-जलाशयः, बडा-जलाशयः, कर्बला-जलाशयः च ।

अजयमेरुदुर्गस्य सामरिकेतिहासः

नरायनस्य द्वितीये युद्धे पराजयोत्तरम् अजयमरुदुर्गे कुतुबुद्दीन ऐबक् इत्यस्य प्रभुत्वम् अभवत् । युद्धानन्तरम् अजयमेरुदुर्गे कानिचन दिनानि पृथ्वीराजतृतीयस्य पुत्रः गोविन्दः सामन्तत्वेन शासनम् अकरोत् । परन्तु ततः पृथ्वीराजतृतीयस्य भ्रातुः कृते दासत्वस्य स्थितिः असह्या अभवत् । अतः तेन अजयमेरौ स्थिताः सर्वे तुर्कजनाः निष्कासिताः । ततः ११९४ तमस्य वर्षस्य अन्ते उत ११९५ तमस्य वर्षस्य आरम्भे कुतुबुद्दीन ऐबक् इत्येषः पुनः अजयमेरुदुर्गे अधिकारम् अस्थापयत् ।

१५०५-३५ मध्ये अजयमेरुदुर्गं देहलीशासकानां, मेवाडप्रदेशीयानां महाराजानां च आधिपत्ये आसीत् । १४५५ मध्ये माण्डू-प्रदेशस्य राजा महमूद खलजी इत्येषः अजयमेरुदुर्गम् अजयत् । परन्तु बहुस्वल्पेषु दिनेषु एव माहाराणा कुम्भा इत्यस्य आक्रमणानन्तरम् अजयमेरुदुर्गस्योपरि मेवाडदेशीयानां शासनं स्थिरम् अभवत् । ततः अजयमेरुदुर्गं ११३३-३५ मध्ये गुजरातराज्यस्य बहादुर शाह इत्याख्यस्य शासने आसीत् । मेडता-प्रदेशस्य वीरमदेवः अजयमेरौ स्थितान् बहादुर शाह इत्यस्य जनान् उच्चाटितवान् (driven away, भगा दिया) । वीमरदेवस्य अजयमेरौ आधिपत्यं दृष्ट्वा जोधपुरस्य मालदेवः वीरमदेवस्योपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे पराजितः वीरमदेवः देहलीम् अगच्छत् । तत्र देहल्याः शासकाय शेरशाह इत्यस्मै साहाय्यार्थं विप्रालपत् (न्यवेदयत्) । शेहशाह इत्येषः १५५६ ई. मध्ये स्वसेनापतिं हाजी खाँ इत्येनम् अजयमेरौ आक्रमणाय प्रैषयत् । तस्मिन् युद्धे शेरशाह इत्यस्य सेनापतेः विजयत्वात् अजयमेरुदुर्गं देहलीशासनस्य भागम् अभवत् । ततः मुघलशासनकाले अकबर इत्यस्य सेनापतिना कासिम खाँ निशापुरी इत्यनेन अजयमेरौ आधिपत्यं प्रस्थाप्य तुर्कजनानां वर्चस्वस्य अन्तः कृतः ।

अजमेरुदुर्गादेव अकबर इत्येषः राजस्थानस्य विभिन्नेषु भागेषु, गुजरातराज्ये च आक्रमणाय स्वसेनां प्रेषयति स्म । १७२० पर्यन्तं मुगलसाम्राज्यस्य आधिपत्ये अजमेरुदुर्गं मुख्यसैनिकशिबिरत्वेन आसीत् । ततः मुगलसाम्राज्यस्य पराभवेन ग्वालियर-प्रदेशीयानां सिन्धियावंशीयाः अजयमेरुदुर्गे आधिपत्यम् अस्थापयन् । ततः १८१८ मध्ये आङ्गलसर्वकारस्य आधिपत्यानन्तरं १९४७ मध्ये अजयमेरुदुर्गं भारतसर्वकारस्य अधिकारक्षेत्रे सामाहितः ।

अजयमेरुदुर्गस्य प्राकृतिकसौन्दर्यम्

प्राचीनकालादेव अजयमेरुदुर्गं परितः प्रकृतिः देदीप्यमाना आसीत् । आक्रान्तानां शासनकालेऽपि दुर्गं परितः प्राकृतिस्थितिः सातत्यपूर्णा आसीत् । १२१० (ई.) तः १२२५ पर्यन्तम् अजयमेरुदुर्गे अल्तमश इत्याख्यस्य यवनशासकस्य परमेष्ठिता (आधिपत्यम्) आसीत् । ताजुल मासिर इत्याख्यस्य ग्रन्थस्य रचयिता हसन निजामी इत्येषः अजयमेरौ कानिचन दिनानि अयापयत् । हसन निजामी इत्येषः अजयमेरुदुर्गं परितः स्थितायाः प्राकृतिकसुन्दरतां वर्णयन् अलिखत्, अजयमेरोः उद्यानानि सप्तरङ्गिपुष्पैः उत्सङ्गिताः (युक्ताः) सन्ति । उद्यानात् दृश्यमानानि गिरिकाणां, वनमालिकानां च दृश्यानि चीन-देशस्य प्रसिद्धचित्रशालायाः अपेक्षा अतिरमणीयानि (मनोहराणि) सन्ति । उद्यानस्य दृश्येन प्रतीतिः भवति यत्, कदाचित् एतत् उद्यानं स्वर्गात् अवतरितम् इति । प्रातःकालीनवायुः वातावरणे सौरभं (सुगन्धं) प्रसारयति । उषायाः वक्षस्थलं पाटलपुष्पैः आच्छादितं भवति । अजयमेरोः धूलिकायां मृगकस्तूरीणां सुवासः विद्यते । अजयमेरुदुर्गस्य जलाशयानां जलम् एतावत् स्वच्छम् अस्ति यत्, अमावास्याः रात्रौ अपि जलाशयस्य तले स्थितं लघुं पाषाणम् अपि स्पष्टतया द्रष्टुं शक्यते । जलाशयस्य मधुरं जलम् अमृततुल्यम् एवम् आरोग्यप्रदम् अस्ति । पुष्पाणां सुन्दरतायाः, वायुपृथ्व्योः स्वच्छतायाः, जलवृक्षाणां बाहुल्यतायाः च कारणेन सुखकरः अजयमेरुः अत्यन्तं रणयीस्थलम् अस्ति इति ।

वाहनमार्गः

जयपुर-तः १३८ कि.मी दूरे, उदयपुर-तः ३०२ कि.मी दूरे इदं नगरं तिष्ठति ।

सम्बद्धाः लेखाः

सन्दर्भः

Tags:

अजमेर इतिहासःअजमेर अजयमेरुदुर्गम्अजमेर अजयमेरुदुर्गस्य सामरिकेतिहासःअजमेर अजयमेरुदुर्गस्य प्राकृतिकसौन्दर्यम् [१३]अजमेर वाहनमार्गःअजमेर सम्बद्धाः लेखाःअजमेर सन्दर्भःअजमेरअजमेर.wavअजमेरमण्डलम्आङ्ग्लभाषाजहाङ्गीरःमुघलराजस्थानराज्यम्सञ्चिका:अजमेर.wavहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

भवभूतिःजाम्बियाकास्सोवारिस्अन्ताराष्ट्रियवाताटोत्सवः (गुजरातराज्ये)वेदाङ्गम्ओडिशाराज्यम्भिण्डमण्डलम्१७८७अमेरिसियमविज्ञानम्२९ मईकोल्लूरुइरावतीअनुष्टुप्छन्दःमङ्गलःनाट्यशास्त्रम् (ग्रन्थः)वसिष्ठस्मृतिःशिवराज सिंह चौहानछत्तीसगढराज्यम्मध्वसिद्धान्तःप्राणायामःअभिज्ञानशाकुन्तलम्गढवाकन्दुकक्रीडाकन्याराशिःइन्द्रियाणि पराण्याहुः...इवजाह्न नापियर्अलङ्कारशेखरःदण्डीविनाचरकसंहिताकर्मयोगः (गीता)व्याकरणम्मरीचिका (शाकम्)पादकन्दुकक्रीडाधारणाकोल्हापुरमण्डलम्मीमांसादर्शनम्यूनानीभाषा१३१७अर्थशास्त्रम् (ग्रन्थः)चन्द्रशेखर कम्बार१८६७जिनीवावेदव्यासस्मृतिःव्याकरणदार्शनिकग्रन्थाःआस्ट्रेलियाध्वन्यालोकःभारतीयसंसत्इस्रेलम्राजीव गान्धीक्यूबाशर्मण्यदेशःजयललिताधर्मशास्त्रप्रविभागःमुरुडेश्वरम्संस्कृतविकिपीडियासुकन्यासमृद्धिलेखायोजनासीमानियन्त्रणरेखाअपामार्गसस्यम्पोतकीपुत्री रक्ष्यतां, पुत्री पाठ्यतां योजनाभारतीय-सूचीKarnatakaउपसर्गःहिन्द-यूरोपीयभाषाःसोमनाथपुरम्पीटर महान (रूस)हेरोडोटस🡆 More