एषा ब्राह्मी स्थितिः पार्थ ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कामनादिरहितस्य साधकस्य स्थितिः कीदृशी भवेत् इति वर्णयति । पूर्वस्मिन् श्लोके कामनादीनां त्यागे सति शान्तिप्राप्तिः भवति इत्युक्त्वा अत्र कामनादिरहितस्य साधकस्य स्थितिवर्णनं करोति । भगवान् कथयति यत्, हे पृथानन्दन ! एषा ब्राह्मी स्थितिः अस्ति । ब्राह्मीस्थितिप्राप्तः साधकः कदापि मोहितः न भवति । एषा स्थितिः यदि अनन्तकालेषु अपि सिद्ध्यति, तर्हि निर्वाणब्रह्मणः (शान्तेः) प्राप्तिः भवति इति ।
एषा ब्राह्मी स्थितिः पार्थ... ब्राह्मीस्थितेः महिमा | |
---|---|
श्लोकसङ्ख्या | २/७२ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | विहाय कामान्यः सर्वान्... |
अग्रिमश्लोकः | ज्यायसी चेत्कर्मणस्ते... |
एषा, ब्राह्मी, स्थितिः, पार्थ, न, एनाम्, प्राप्य, विमुह्यति । स्थित्वा, अस्याम्, अन्तकाले, अपि, ब्रह्मनिर्वाणम्, ऋच्छति ॥
पार्थ ! एषा ब्राह्मी स्थितिः । एनां प्राप्य न विमुह्यति । अन्तकाले अपि अस्यां स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति ।
अन्वयः | विवरणम् | सरलसंस्कृतम् |
पार्थ | अ.पुं.सम्बो.एक. | अर्जुन ! |
एषा | एतद्-द.सर्व.स्त्री.प्र.एक. | इयम् |
ब्राह्मी | ई.स्त्री.प्र.एक. | परमात्मसम्बन्धिनी |
स्थितिः | इ.स्त्री.प्र.एक. | निष्ठा |
एनाम् | एतद्-द.सर्व.स्त्री.द्वि.एक. | एताम् |
प्राप्य | ल्यबन्तम् अव्ययम् | लब्ध्वा |
न विमुह्यति | वि+√मुह् वैचित्ये-पर.कर्तरि, लट्.प्रपु.एक. | मोही न भवति |
अन्तकाले | अ.पुं.प्र.एक. | मरणसमये |
अपि | अव्ययम् | अपि |
अस्याम् | इदम्-म.सर्व.स्त्री.स.एक. | एतस्याम् |
स्थित्वा | क्त्वान्तम् अव्ययम् | वर्तित्वा |
ब्रह्मनिर्वाणम् | अ.नपुं.द्वि.एक. | ब्रह्मनिर्वाणम् |
ऋच्छति | √ऋ गतिप्रापणयोः-पर.कर्तरि, लट्.प्रपु.एक. | लभते । |
हे पार्थ ! इयं ब्राह्मी स्थितिः इति उच्यते । एनां स्थितिं यः प्राप्नोति सः कदापि मोहवशः न भवति । अन्तकाले अपि अस्यां स्थितौ स्थित्वा सः ब्रह्मानन्दं प्राप्नोति ।
'एषा ब्राह्मी स्थितिः पार्थ' – एषा ब्राह्मी स्थितिः अस्ति अर्थात् ब्रह्मप्राप्तस्य मनुष्यस्य स्थितिः । अहङ्काररहिते सति यदा व्यक्तित्वं नष्टं भवति, तदा सा स्थितिः स्वतः एव सिद्ध्यति । किञ्च संसारेण सह सम्बन्धे सति एव व्यक्तित्वम् आसीत् । तस्य सम्बन्धस्य विच्छेदे सति योगिनः व्यक्तिगतस्थितिः विनश्यति ।
'एषा' इति पदेन निकटतायाः बोधः भवति । अतः तेन पदेन अग्रिमश्लोकस्य 'विहाय कामान्', 'निःस्पृहः', 'निर्ममः', 'निरहङ्कारः' इत्येतेषां पदानाम् अपि निर्देशनं भवति । मोहकलिलं, श्रुतिविप्रतिपत्तिं च तव बुद्धिः यदा लङ्घयिष्यति, तदा त्वं योगमवाप्स्यसि इति भगवतः मुखात् श्रुत्वा अर्जुनस्य मनसि अहङ्काररहितस्य मनुष्यस्य स्थितिविषये जिज्ञासा अभवत् । अतः अर्जुनः स्थितप्रज्ञस्य विषये चतुरः प्रश्नान् अपृच्छत् । सर्वेषां प्रश्नानाम् उत्तरं दत्त्वा अत्र भगवान् तस्य स्थितप्रज्ञस्य ब्राह्मीस्थितिं वर्णयति । अस्य तात्पर्यम् अस्ति यत्, सा स्थितिः व्यक्तिगता स्थितिः न, अपि तु तस्यां स्थित्यां व्यक्तित्वस्य एव नाशः भवति । ततः नित्ययोगः प्राप्यते । तस्मिन् योगे एकमेव तत्त्वं भवति । एनं विषयं प्रति ध्यानम् आक्रष्टुमेव अत्र 'पार्थ' इति सम्बोधनम् ।
'नैनां प्राप्य विमुह्यति' – यावत् पर्यन्तं शरीरे अहङ्कारः अवशिष्यते, तावत् पर्यन्तं मोहाय अवसरः अपि । परन्तु यदा अहङ्कारस्य सर्वथा अभावे सति ब्रह्मणि स्वस्थितिः अनुभूयते, तदा व्यक्तित्वखण्डनत्वात् पुनः कदापि मोहः न बाधते । सत्यासत्ययोः ज्ञानाभाव एव मोहः । तात्पर्यम् अस्ति यत्, स्वस्य सत्स्थितिम् अज्ञात्वा असता सह आत्मनः ऐक्यकल्पनम् एव मोहः । यदा साधकः असन्तम् अवगच्छति, तदा तस्य सम्बन्धः तस्मात् विच्छिनत्ति । असतः ज्ञानोत्तरम् असतः निवृत्तिः जायते । यतः असतः स्वतन्त्रा सत्ता नास्ति । सता एव असतः सत्ता अस्ति । असतः ज्ञाने सत्यपि यदि असन्निवृत्तिः न भवति, तर्हि वास्तव्येन असतः ज्ञानं नाभवत् इति ज्ञातव्यम् । किञ्च मनसि असतः सत्ता विद्यते । असतः सम्बन्धे विच्छिन्ने सति वास्तव्येन सतः अनुभवः जायते । तस्याः स्थित्याः अनुभवोत्तरं कदापि मोहः न बाधते ।
'स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति' – एतत् मनुष्यशरीरं केवलं परमात्मप्राप्त्यै एव प्राप्तम् अस्ति । अतः ईश्वरः अवसरं ददाति यत्, साधरणतमः, पापितमः चापि यदि अन्तकाले स्वस्थितिं परमात्मनि पश्यति अर्थात् जडपदार्थैः स्वसम्बन्धं विच्छिनत्ति, तर्हि सोऽपि निर्वाणं ब्रह्म प्राप्तुं शक्नोति । सः जन्ममृत्य्वोः चक्रात् मोक्ष्यते । अग्रेऽपि भगवान् एतादृशं वचनं वक्ष्यति यत्, अधिभूतम्, अधिदैवम्, अधियज्ञं च एकः भगवान् एवास्ति इति प्रयाणकालेऽपि मां जानाति, सः मां प्राप्नोति इति । ततः भगवान् एतादृशं वचनं पुनरुपस्थापयति यत्, अन्तकाले मे स्मरणं कुर्वन् प्राणेषु त्यागेषु सत्सु सः जीवः मां प्राप्नोति । तत्र न कोऽपि सन्देहः इति ।
श्लोकेस्मिन् भगवान् ब्रह्मीस्थितेः वर्णनं कुर्वन् तस्याः स्थितेः महिमानं करोति । ब्राह्मीस्थित्यां यदि अन्तकालेऽपि कोऽपि स्थितः भवति, तर्हि सः ब्रह्मपदं प्राप्नोति । यथा समबुद्धेः विषये भगवान् अवदत् यत्, स्वल्पमपि अनुष्ठानं महतात् भयात् रक्षति इति , तथैव अत्रापि अन्तकाले प्राप्तब्राह्मीस्थितिः मनुष्यः निर्वाणं प्राप्नोति । तस्याः स्थितेः अनुभवाय जडपदार्थनां रागत्यागः अनिवार्यः । यतः तस्यै स्थित्यै जडपदार्थरागः एव बाधकः । तं रागम् अन्तकाले अपि त्यजति मनुष्यः, तर्हि तां स्वतःसिद्धां वास्तविकस्थितिम् अनुभवति सः ।
अत्र शङ्का भवति यत्, यः अनुभवः आजीवनं नाभवत्, सः अन्तकाले कथं भवेदिति ? अर्थात् स्वस्थावस्थायां साधकस्य बुद्धिः विचारशक्तियुक्ता, सावधाना च भवेत् । तस्यां स्थित्यां ब्राह्मीस्थित्यनुभवाय अवकाशः अस्ति, परन्तु अन्तावस्थायां तु साधकस्य बुद्धिः शिथिला भवेत् । तस्यां स्थित्यां प्राणनिर्गमनकाले असमर्था, असावधाना च तस्य बुद्धिः ब्राह्मीस्थित्याः अनुभवं कथं कर्तुं शक्नुयात् ? इति ।
अस्य समाधानम् अस्ति यत्, मृत्युकाले यदा प्राणाः निर्गच्छन्ति, तदा शरीरादिभ्यः स्वतस्सम्बन्धः विच्छिनत्ति । यदि तस्मिन् सः स्वतःसिद्धतत्त्वं प्रति लक्ष्यं कुर्यात्, तर्हि सः सहजतया तां ब्राह्मीस्थितिम् अनुभूयात् । यतः निर्विकल्पावस्थायाः प्राप्त्यै बुद्धि-विवेकादीनाम् आवश्यकता भवति । परन्तु अवस्थातीततत्त्वस्य प्राप्त्यै तु केवलं लक्ष्यस्य आवश्यकता भवति । तल्लक्ष्यं अभ्यासेन, शुभसंस्कारैः, भगवतः उत गुरोः अहैतुक्या कृपया वा सिद्ध्येत् । परन्तु लक्ष्यसिद्ध्युत्तरं लक्ष्यस्य प्राप्तिः निश्चयेन स्वतः भवति । निर्विकल्पावस्थायाः प्राप्त्यै अभ्यास-विचार-निदिध्यासनादीनाम् आवश्यकता भवति, परन्तु निर्विकल्पबोधिकायाः अवस्थातीतायाः ब्राह्मीस्थित्याः प्राप्त्यै बुद्धिः अनुपयुक्ता सिद्ध्यति । तस्यां स्थित्यां बुद्धिः कार्यं न करोति । यतः निर्विकल्पावस्थायां बोधः करणनिरपेक्षः अस्ति अर्थात् तस्यां स्थित्यां करणस्य किञ्चिदपि अपेक्षा न भवति । तस्यै स्थित्यै करणात् सम्बन्धविच्छेदः एव कारणं भवति ।
"अन्तकालेऽपि" इत्यत्र कृतस्य "अपि"-प्रयोगस्य तात्पर्यम् अस्ति यत्, अन्तकालात् पूर्वं यदि एतां स्थितिं प्राप्नुयात्, तर्हि सः जीवन्मुक्तः भवति । परन्तु यदि साधकः अन्तकालेऽपि इमां स्थितिं प्राप्नुयात्, तर्हि जीवनमुक्तस्य स्थितिवत् सोऽपि तत्कालं मुक्तः भवति । तस्यै स्थित्यै अभ्यासः, ध्यानं, समाधिः इत्यादीनां किञ्चिदपि आवश्यकता न भवति ।
अत्र कर्मयोगिभ्यः भगवान् 'ब्रह्मनिर्वाणम्' इति पदं प्रयुक्तवान् । तस्य तात्पर्यम् अस्ति यत्, यथा साङ्ख्ययोगी निर्वाणब्रह्मणः प्राप्तिं करोति , तथैव कर्मयोगी निर्वाणब्रह्मणः प्राप्तिं करोति । साङ्ख्ययोगी यत् स्थानं प्राप्नोति, तत् स्थानं कर्मयोगी अपि प्राप्नोति इति ।
जडः, चेतनः च पदार्थौ स्तः । प्राणिनां स्वरूपं चेतनम् अस्ति । परन्तु तस्य सङ्गः जडेन सह अस्ति । जडं प्रति आकर्षणम् एव तस्य पतनमार्गं प्रति धावनं परिगण्यते । एवं जडं प्रति आकर्षणं पतनं प्रति, चिन्मयं प्रति आकर्षणञ्च उत्थानं प्रति प्राणिनं नयति । जडं प्रति अग्रेसरः प्राणी मोहप्रधानः, परमात्मतत्त्वं प्रति अग्रेसरः प्राणी विवेकप्रधानश्च भवति । प्रत्येकयोः मोहविवेकयोः द्वौ विभागौ स्तः ।
१. अहन्ताममतायुक्तः मोहः, कामनायुक्तः मोहश्च ।
२. सदसतोः विवेकः, कर्तव्याकर्तव्ययोः विवेकश्च ।
प्राप्तवस्तुशरीरादीनाम् अहन्ता, ममता च अहन्ताममतायुक्तः मोहः उच्यते । अप्राप्यवस्तुघटनापरिस्थित्यादीनां कामना एव कामनायुक्तः मोहः उच्यते । शरीरी, शरीरं च भिन्नम् । शरीरी सत्, शरीरम् असत्, शरीरी चेतनः, शरीरं जडम् इति विवेकः सदसतयोः विवेकः अस्ति । कः धर्मः, कः अधर्मः, किं कर्तव्यं, किं न कर्तव्यम् इति कर्तव्याकर्तव्यविवेकः अस्ति ।
प्रथमे अध्याये अर्जुनोऽपि द्विविधाभ्यां मोहाभ्यां ग्रस्तः आसीत् । ययोः प्राणिमात्रं मोहितम् अस्ति । अहन्तायाः, ममतायाः च कारणेन क्रमेण "वयं दोषज्ञातारः धर्मात्मानः स्मः", "एते मे कुटुम्बकाः मरिष्यन्ति" इति अहन्ताममतायुक्तः मोहः जातः । अहं पापी न भवेयं, नरकं न गच्छेयं, पितॄणां पतनं न भवेत् इत्यादिः कामनायुक्तः मोहः जातः । उक्तान् सर्वान् मोहान् अपाकर्तुं भगवान् द्वितीयेऽध्याये द्विविधं विवेकम् अदर्शयत् । शरीरिशरीरयोः, सदसतोः च विवेकः , कर्तव्याकर्तव्ययोः विवेकश्च ।
शरीरिशरीरयोः विवेकं दर्शयितुं भगवान् अथयत् यत्, त्वम्, एते राजानश्च पूर्वं नासन्, पश्चाच्च न भविष्यन्ति इति नास्ति । अर्थात् वयं सर्वे पूर्वम् अपि आस्म, पश्चादपि भविष्यामः इति । एतानि शरीराणि पूर्वं नासन्, भविष्यत्काले चापि न भविष्यन्ति । यथा शरीरे कुमारयुववृद्धावस्थाः परिवर्तन्ते, तथैव मनुष्यः पुरातनवस्त्राणि त्यक्त्वा नवीनानि वस्त्राणि धरते । एषः अचलः नियमः अस्ति । तत्र चिन्तायाः, शोकस्य च स्थानेव कुत्र ?
कर्तव्याकर्तव्ययोः विवेकं दर्शयितुं भगवान् क्षत्रियाय युद्धात् महान् न कोऽपि धर्मः इत्युक्तवान् । अनायासेन प्राप्तं युद्धं स्वर्गप्राप्तेः सहजमार्गः अस्ति । त्वं युद्धरूपिणः धर्मस्य आचरणं न करिष्यसि, तर्हि त्वं पापी भविष्यसि । यदि त्वं जयपराजयं, लाभहानिं, सुखुदुःखं च समं मत्वा योत्स्यसि, तर्हि त्वं पापी न भविष्यसि । तव कर्तव्यकर्मणि एवाधिकारः अस्ति, न तु फले । कर्मफलस्य इच्छायुक्तः मा भव तथा च अकर्मासक्तः अपि मा भव । अतः सिद्ध्यसिद्ध्योः समानत्वं दृष्ट्वा समतापूर्वकं कार्यं कुरु । यतः समता एव योगः अस्ति । यः मनुष्यः समबुद्धिः सन् कार्यं करोति, सः जीवितावस्थायाम् अपि पुण्यपापेभ्यः विमुक्तः भवति । यदा ते बुद्धिः मोहरूपिणं कलिलं, श्रुतिविप्रतिपत्तिं च लङ्घयिष्यति तदा त्वं योगं प्राप्स्यसि ।
सैषा ज्ञाननिष्ठा स्तूयते - एषा ब्रह्मीति ।
एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कर्म संन्यस्य ब्रह्मरूपेणैव अवस्थानम् इत्येतत्। हे पार्थ न एनां स्थितिं प्राप्य लब्ध्वा न विमुह्यति न मोहं प्राप्नोति। स्थित्वा अस्यां स्थितौ ब्राह्म्यां यथोक्तायां अन्तकालेऽपि अन्त्ये वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षम् ऋच्छति गच्छति। किमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येव अवतिष्ठते स ब्रह्मनिर्वाणमृच्छति इति ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः।।
अथ तस्याः उपर्युक्तायाः ज्ञाननिष्ठायाः स्तुतिः क्रियते –
एषा उपर्युक्ता अवस्था ब्राह्मी अर्थात् ब्रह्मस्थितिः अस्ति । एतस्य तातत्पर्यम् अस्ति यत्, सर्वकर्मणां सन्न्यासं कृत्वा केवलं ब्रह्मणि स्थितिः भवेत् इति । हे पार्थ ! एतां स्थितिं प्राप्य मनुष्यः पुनः कदापि मोहितः न भवति । यदि अन्तकालेऽपि उपर्युक्तायां ब्राह्मीस्थितौ अवस्थितः भूत्वा मनुष्यः ब्रह्मणि विलीनः भवति अर्थात् मोक्षं प्राप्नोति, तर्हि यः ब्रह्मचर्याश्रमादेव सन्न्यासं गृहीत्वा आजीवनं ब्रह्मणि स्थितः भवति, तस्य ब्रह्मनिर्वाणप्राप्त्यै तु किं वक्तव्यम् ?
एषा नित्यात्मज्ञानपूर्विका असङ्गकर्मणि स्थितिः स्थितधीलक्षणा ब्राह्मी ब्रह्मप्रापिका। ईदृशीं कर्मस्थितिं प्राप्य न विमुह्यति न पुनः संसारम् आप्नोति। अस्यां स्थित्याम् अन्तिमे अपि वयसि स्थित्वा ब्रह्म निर्वाणम् ऋच्छति निर्वाणमयं ब्रह्म गच्छति सुखैकतानम् आत्मानम् आप्नोति इत्यर्थः।
एवम् आत्मयाथात्म्यं युद्धाख्यस्य च कर्मणः तत्प्राप्तिसाधनताम् अजानतः शरीरात्मज्ञानेन मोहितस्य तेन च मोहेन युद्धात् निवृत्तस्य तन्मोहशान्तये नित्यात्मविषया सांख्यबुद्धिः तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीयेऽध्याये प्रोक्ता। तदुक्तम् नित्यात्मासङ्गकर्मेहागोचरा सांख्ययोगधीः। द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये।। (गीतार्थसंग्रहे 6) इति।
नित्यात्मनः ज्ञानात् युक्तायाः, आसक्तिरहितकर्मसु विद्यमानायाः एतस्याः स्थिरबुद्धेः साधनरूपा स्थितिः ब्राह्मी इति । ब्राह्मी अर्थाद् ब्रह्मप्राप्तेः स्थितिः । एवं कर्मस्थितिं प्राप्य पुरुषः पुनः मोहितः न भवति । अर्थाद् पुनः संसारसागरे न निमज्जति । अन्तिमावस्थायाम् अर्थाद् मरणावस्थायाम् अपि एतस्यां स्थितौ स्थिरो भूत्वा मनुष्यः निर्वाणं प्राप्तुं शक्नोति । अर्थात् शान्तिमयं सुखैकतानं ब्रह्मतत्त्वं लभते ।
एवं द्वितीये अध्याये आत्मनः यथार्थस्वरूपम्, आत्मतत्त्वस्य साधनत्वेन युद्धकर्म अस्ति इति विषयं यः न जानाति, तस्य शरीरमेव आत्मत्वेन स्वीकृत्य मोहितं, मोहाद् युद्धविरतम् अर्जुनं प्रति तस्य मोहं नाशयितुं भगवान् नित्यात्मविषयस्य साङ्ख्यबुद्धिम् अवदत् । साङ्ख्यबुद्धेः विवेचनेन सह भगवान् साङ्ख्यबुद्धिसहितां आसक्तिरहितां कर्मानुष्ठारूपिणीं कर्मयोगविषयिणीं बुद्धिम् अपि अवदत् । अर्थाद् स्थितप्रज्ञतारूपिणः योगस्य साधनरूपिण्याः बुद्धिम् अवर्णयत् । उक्तं च तद् – तस्य अर्जुनस्य मोहस्य शान्त्यै नित्यात्मज्ञानविषयिणीं साङ्ख्यबुद्धिम्, आसक्तिरहितकर्मानुष्ठानविषयिणीं योगबुद्धिं च भगवान् अकथयत् । ययोः साध्यं 'स्थितप्रज्ञता' अस्ति इति ।
|
विकिमीडिया कॉमन्स् मध्ये एषा ब्राह्मी स्थितिः पार्थ... सम्बन्धिताः सञ्चिकाः सन्ति। |
This article uses material from the Wikipedia संस्कृतम् article एषा ब्राह्मी स्थितिः पार्थ..., which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.