एवं बुद्धेः परं बुद्ध्वा...

( (  शृणु))

श्लोकः

एवं बुद्धेः परं बुद्ध्वा... 
गीतोपदेशः
    एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
    जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य त्रिचत्वारिंशत्तमः (४३) श्लोकः ।

पदच्छेदः

एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानम् आत्मना जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥

अन्वयः

महाबाहो ! एवं बुद्धेः परं बुद्ध्वा आत्मना आत्मानं संस्तभ्य कामरूपं दुरासदं शत्रुं जहि ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
महाबाहो दीर्घबाहो (अर्जुन)
एवम् इत्थम्
बुद्धेः धियः
परम् उत्कृष्टम् (आत्मानम्)
बुद्ध्वा विज्ञाय
आत्मना स्वेन
आत्मानम् स्वम्
संस्तभ्य नियम्य
कामरूपम् तृष्णारूपम्
दुरासदम् दुर्जयम्
शत्रुम् वैरिणम्
जहि नाशय ।

व्याकरणम्

सन्धिः

  1. संस्तभ्यात्मानम् = संस्तभ्य + आत्मानम् – सवर्णदीर्घसन्धिः

कृदन्तः

  1. संस्तभ्य = सम् + स्तम्भ् + ल्यप्

अर्थः

अर्जुन ! अनेन प्रकारेण बुद्धेः अपेक्षया आत्मा अत्युत्कृष्टः इति विज्ञाय आत्मना आत्मानं विजित्य तृष्णारूपं दुर्जनं शत्रुं विनाशय ।

शाङ्करभाष्यम्

ततः किम्-- एवमिति । एवं बुद्धेः परमात्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक्स्तम्भनं कृत्वा स्वेनैवात्मना संस्कृतेन मनसा सम्यक्समाधायेत्यर्थः । जह्येनं शत्रुं हे महाबाहो,कामरूपं दुरासदं दुःखेनासद आसादनं प्राप्तिर्यस्य तं दुरासदं दुर्विज्ञेयानेकविशेषमिति ।।43।।


श्रीमद्भगवद्गीतायाः श्लोकाः
एवं बुद्धेः परं बुद्ध्वा...  पूर्वतनः
इन्द्रियाणि पराण्याहुः...
एवं बुद्धेः परं बुद्ध्वा... अग्रिमः
इमं विवस्वते योगं...
एवं बुद्धेः परं बुद्ध्वा... 
कर्मयोगः

१)ज्यायसी चेत्कर्मणस्ते... २)व्यामिश्रेणेव वाक्येन... ३)लोकेऽस्मिन् द्विविधा निष्ठा... ४)न कर्मणामनारम्भात्... ५)न हि कश्चित्क्षणमपि... ६)कर्मेन्द्रियाणि संयम्य... ७)यस्त्विन्द्रियाणि मनसा... ८)नियतं कुरु कर्म त्वं... ९)यज्ञार्थात्कर्मणोऽन्यत्र... १०)सहयज्ञाः प्रजाः सृष्ट्वा... ११)देवान्भावयतानेन... १२)इष्टान्भोगान् हि वो देवा... १३)यज्ञशिष्टाशिनः सन्तो... १४)अन्नाद्भवन्ति भूतानि... १५)कर्म ब्रह्मोद्भवं विद्धि... १६)एवं प्रवर्तितं चक्रं... १७)यस्त्वात्मरतिरेव स्यात्... १८)नैव तस्य कृतेनार्थो... १९)तस्मादसक्तः सततम्... २०)कर्मणैव हि संसिद्धिम्... २१)यद्यदाचरति श्रेष्ठः... २२)न मे पार्थास्ति कर्तव्यं... २३)यदि ह्यहं न वर्तेयं... २४)उत्सीदेयुरिमे लोका... २५)सक्ताः कर्मण्यविद्वांसो... २६)न बुद्धिभेदं जनयेद्... २७)प्रकृतेः क्रियमाणानि... २८)तत्त्ववित्तु महाबाहो... २९)प्रकृतेर्गुणसम्मूढाः... ३०)मयि सर्वाणि कर्माणि... ३१)ये मे मतमिदं नित्यम्... ३२)ये त्वेतदभ्यसूयन्तो... ३३)सदृशं चेष्टते स्वस्याः... ३४)इन्द्रियस्येन्द्रियस्यार्थे... ३५)श्रेयान्स्वधर्मो विगुणः ३६)अथ केन प्रयुक्तोऽयं... ३७)काम एष क्रोध एष... ३८)धूमेनाव्रियते वह्निः... ३९)आवृतं ज्ञानमेतेन... ४०)इन्द्रियाणि मनो बुद्धिः... ४१)तस्मात्त्वमिन्द्रियाण्यादौ... ४२)इन्द्रियाणि पराण्याहुः... ४३)एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

एवं बुद्धेः परं बुद्ध्वा... श्लोकःएवं बुद्धेः परं बुद्ध्वा... पदच्छेदःएवं बुद्धेः परं बुद्ध्वा... अन्वयःएवं बुद्धेः परं बुद्ध्वा... शब्दार्थःएवं बुद्धेः परं बुद्ध्वा... व्याकरणम्एवं बुद्धेः परं बुद्ध्वा... अर्थःएवं बुद्धेः परं बुद्ध्वा... शाङ्करभाष्यम्एवं बुद्धेः परं बुद्ध्वा... सम्बद्धाः लेखाःएवं बुद्धेः परं बुद्ध्वा... बाह्यसम्पर्कतन्तुःएवं बुद्धेः परं बुद्ध्वा... उद्धरणम्एवं बुद्धेः परं बुद्ध्वा... अधिकवाचनायएवं बुद्धेः परं बुद्ध्वा...Gita c 3 43.wavसञ्चिका:Gita c 3 43.wav

🔥 Trending searches on Wiki संस्कृतम्:

वार्सालायबीरिया२६६एस् एम् कृष्णाचरकसंहिताभीष्मःपरिवहनम्यवाग्रजःहेमावतीरूपकसाहित्यम्मुखपृष्ठंअनर्घराघवम्यवतमाळमण्डलम्वेदव्यासःजापानी भाषाकाव्यदोषाःततः स विस्मयां - 11.14नेफेरतितिद्वाविमौ पुरुषौ लोके...भुवनेश्वरम्ईथ्योपियाचम्पादेशःसिन्धुसंस्कृतिः१४६८द्विचक्रिका३३४भासःतेलुगुभाषाक्यूबानिर्वचनप्रक्रियादमण दीव चपश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्दशरूपकम्धर्मसूत्रकाराःनैघण्टुककाण्डम्मुख्यपृष्ठम्भारतीयप्रशासनिकसेवा (I.A.S)सेंट किट्बिलियर्ड्स्-क्रीडामयूरःविद्युत्वितली गिन्जबर्गअक्तूबर ११आकाशगङ्गायूनानीभाषासर्पण-शीलःस्त्रीशिक्षणम्वर्षःनरेन्द्र मोदीविलियम वर्ड्सवर्थमम्मटःबेल्जियम्तत्त्वम् (दर्शनशास्त्रे)लाट्वियावयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्रक्तम्जे जे थामसनआफ्रिकाखण्डःवार्तकीकताररने देकार्तलातूरशूद्रःब्रह्ममारिषस्भूटानटेक्सास्२ जनवरीपञ्चमहायज्ञाःविद्याधर सूरजप्रसाद नैपालपञ्चाङ्गम्रुय्यकः🡆 More