कर्मेन्द्रियाणि संयम्य...

कर्मेन्द्रियाणि संयम्य ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मेन्द्रियाणां निग्रहिणः मिथ्याचारिणः भवन्ति इति बोधति । पूर्वस्मिन् श्लोके कोऽपि मनुष्यः निष्क्रियः न स्थातुं शक्नोति, इति उक्तं परन्तु कश्चन मनुष्यः बलपूर्वकम् इन्द्रियाणां क्रियायाणां दमनं कृत्वा निष्क्रियोऽयम् इति चिन्तयितुं शक्नोति अतः अत्र भवान् समाधानं करोति । सः समाधायति यद्, यः सर्वेषाम् इन्द्रियाणां बलपूर्वकं निग्रहं करोति, परन्तु मनसा इन्द्रियविषयाणां चिन्तनं कुर्वन् भवति, सः मूढबुद्धिः मनुष्यः मिथ्याचारी उच्यते इति ।

कर्मेन्द्रियाणि संयम्य...


कर्मेन्द्रियाणां निग्रहः मिथ्याचारः
कर्मेन्द्रियाणि संयम्य...
श्लोकसङ्ख्या ३/६
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः न हि कश्चित्क्षणमपि...
अग्रिमश्लोकः यस्त्विन्द्रियाणि मनसा...

श्लोकः

कर्मेन्द्रियाणि संयम्य... 
गीतोपदेशः
    कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
    इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥

पदच्छेदः

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥

अन्वयः

यः विमूढात्मा कर्मेन्द्रियाणि संयम्य इन्द्रियार्थान् मनसा स्मरन् आस्ते सः मिथ्याचारः उच्यते ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
यः विमूढात्मा यः अविवेकी पुरुषः
कर्मेन्द्रियाणि वाक्-पाणि-पाद-पायु-उपस्थान्
संयम्य निरुध्य
मनसा चित्तेन
इन्द्रियार्थान् विषयान्
स्मरन् चिन्तयन्
आस्ते वर्तते
सः सः पुरुषः
मिथ्याचारः दम्भी
उच्यते कथ्यते ।

व्याकरणम्

सन्धिः

  1. य आस्ते = यः + आस्ते – विसर्गसन्धिः (लोपः)
  2. स उच्यते = सः + उच्यते - विसर्गसन्धिः (लोपः)

समासः

  1. कर्मेन्द्रियाणि = कर्मणः इन्द्रियाणि – षष्ठीतत्पुरुषः
  2. इन्द्रियार्थान् = इन्द्रियाणाम् अर्थाः, तान् – षष्ठीतत्पुरुषः
  3. विमूढात्मा = विमूढः आत्मा यस्य सः – बहुव्रीहिः
  4. मिथ्याचारः ¬= मिथ्या आचारः यस्य सः – बहुव्रीहिः

कृदन्तः

  1. संयम्य = सम् + यम् + ल्यप्
  2. स्मरन् = स्मृ + शतृ (कर्तरि)
  3. विमूढः = वि + मुह् + क्त (कर्तरि)

अर्थः

यः अविवेकी पुरुषः इन्द्रियाणि निरुध्य चित्तेन विषयान् चिन्तयन् भवति सः पुरुषः कपटाचारः इति कथ्यते ।

भावार्थः

'कर्मेन्द्रियाणि संयम्य...मिथ्याचरः स उच्यते' – अत्र 'कर्मेन्द्रियाणि' इत्यस्य पदस्य पञ्चकर्मेन्द्रियाणि इत्येव अभिप्रायः नास्ति, अपि तु पञ्च ज्ञानेन्द्रियाणि अपि अन्तर्भवन्ति । कर्मेन्द्रियाणि अर्थात्, वाणी, हस्तौ, पादौ, उपस्थः, गुदा इति । ज्ञानेन्द्रियाणि अर्थाद् श्रोतं, त्वक्, नेत्रे, रसः, घ्राणश्च । यतो हि ज्ञानेन्द्रियैः विना कर्मेन्द्रियाणि कर्म न कुर्वन्ति, अतः एवं स्वीकर्तव्यम् । तथैव हस्तादीनां कर्मेन्द्रियाणां निग्रहे कृते सत्यपि नेत्रादीनां स्वच्छन्दतायां सत्यां मिथ्याचारः सिद्ध्यति । अतः गीतायां कर्मेन्द्रियस्य उल्लेखे कृते ज्ञानेन्द्रियाणि अपि अन्तर्भवन्ति । एवं गीतायां सर्वत्र कमेन्द्रियेति शब्दः सर्वत्र प्राप्यते परन्तु ज्ञानेन्द्रियम् इति कुत्रापि नास्ति । अतः गीतायां ज्ञानेन्द्रियम् अपि कर्मेन्द्रियत्वेन एव स्वीकृतम् । तात्पर्यम् अस्ति यद्, प्रकृतिमात्रं क्रियाशीलम् अतः प्रकृत्याः कार्यमात्रम् अपि क्रियाशीलम् इति ।

'संयम्य' इत्यस्य पदस्य अर्थः सम्यग्रीत्या इन्द्रियाणां नियमनम् इति । अर्थात् इन्द्रियवशीकरणम् इति । यद्यपि इन्द्रियवशीकरणम् इति अर्थः भवति, परन्तु तथा अस्वीकृत्य बलपूर्वकम् इन्द्रियाणां बाह्यनिग्रहः एव अर्थः ग्राह्यः । यतो हि इन्द्रियवशीकरणम् इति न मिथ्याचारः । मूढमनस्कः मनुष्यः यस्मिन् सदसतोः विवेकः नास्ति, सः इन्द्रियाणां बाह्यक्रियाः बलपूर्वकं निग्रहति । परन्तु मनसा सः तेषाम् इन्द्रियविषयान् चिन्तयति । यतो हि बाह्यक्रियाः न जायन्ते, अतः सः तां स्थितिम् एव क्रियारहितत्वं स्वीकरोति । अतः सः मिथ्याचारी इति उक्तः । वस्तुतः तस्य बाह्या निष्क्रियता अस्ति, सूक्ष्मा सक्रियता तु अस्त्येव । अर्थात् अहन्ता-ममता-आसक्त्यादीनां कारणेन रागपूर्वकं विषयचिन्तनं कुर्वन् विषयभोगस्तु अस्त्येव । सांसारिकभोगानाम् उपभोगः बाह्यक्रियया अपि भवति, अन्तःक्रियया अपि च । बाह्यक्रियया रागपूर्वकं येषां भोगानाम् उपभोगे अन्तःकरणे प्रभावः भवति, तादृशः प्रभावः एव मनसः रागपूर्वकं विषयोपभोगेन भवति । बाह्यानां भोगानां त्यागस्तु लोकलज्जया, भयात् उत अन्यकारणेन अपि भवितुम् अर्हति । परन्तु सः तं भोगं मनसा तु उपभुनक्ति एव ।

अर्जुनोऽपि कर्मणः स्वरूपात् त्यागं कर्तुम् इच्छति । अतः सः भगवन्तं पृच्छति यद्, भवान् किमर्थं मां घोरकर्मणि पातयति ? इति । तस्य प्रश्नस्य उत्तरत्वेन भगवान् कथयति यद्, मनुष्यः अहन्ता-ममता-आसक्त्यादीनां त्यागम् अकृत्वा कर्माणि त्यक्त्वा अहं क्रियारहितः इति वदति, सः मिथ्याचारी इति । तात्पर्यम् अस्ति यद्, साधकेन कर्मणां स्वरूपेण त्यागः न करणीयः, अपि तु कामनादिरहितत्वेन तत्परतापूर्वकं कर्तव्यकर्म करणीयम् इति ।

शाङ्करभाष्यम्

यस्त्वनात्मज्ञश्चोदितं कर्म नारभत इति तदसदेवेत्याह-कर्मेन्द्रियाणीति। कर्मेन्द्रियाणि हस्तादिनि संयम्य संहृत्य य आस्ते तिष्ठति मनसा स्मरंश्चिन्तयन्निन्द्रियार्थान्विषयान्विमूढात्मा विमूढान्तःकरणॊ मिथ्याचारो मृषाचारः पापाचारः स उच्यते।। ६ ।।

भाष्यार्थः

यः आत्मज्ञानी नास्ति, तथापि शास्त्रविहितानि कर्माणि न करोति, तस्य तत् अकर्मता अयोग्या इति वदति – यः मनुष्यः हस्तीदीनि कर्मेन्द्रियाणि दमयित्वा इन्द्रियभोगानां मनसा उपभोगं कुर्वन् भवति, सः विमूढात्मा अर्थात् मोहितान्तःकरणयुक्तः मिथ्याचारी, पाखण्डी, पापाचारी च उच्यते ।

भाष्यार्थः

अन्यथा कर्मयोगस्य साधनाम् अकृत्वा ज्ञानयोगे प्रवृत्तः पुरुषः मिथ्याचारी भवति इति कथयति – पूर्वकृतपापानां नाशाभावत्वात् यः स्वस्य मनोबुद्धीन्द्रियेषु विजयं न प्राप्तवान् अस्ति, तादृशः मनुष्यः यदा आत्मज्ञानाय साधनां करोति, तदा तस्य मनः विषयेभ्यः आकर्षित्वात् आत्मतत्त्वा विमुखं भवति । अतः सः मनुष्यः विषयाणामेव स्मरणं करोति । एवं यः मनुष्यः मनसा कमपि सङ्कल्पं कृत्वा आचरणेन अन्यत् कार्यमेव करोति, सः मिथ्याचारी उच्यते । अर्थात् आत्मज्ञानाय चेष्ट्यमानः पुरुषः विपरीतः सन् नष्टो भवति इति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
कर्मेन्द्रियाणि संयम्य...  पूर्वतनः
न हि कश्चित्क्षणमपि...
कर्मेन्द्रियाणि संयम्य... अग्रिमः
यस्त्विन्द्रियाणि मनसा...
कर्मेन्द्रियाणि संयम्य... 
कर्मयोगः

१)ज्यायसी चेत्कर्मणस्ते... २)व्यामिश्रेणेव वाक्येन... ३)लोकेऽस्मिन् द्विविधा निष्ठा... ४)न कर्मणामनारम्भात्... ५)न हि कश्चित्क्षणमपि... ६)कर्मेन्द्रियाणि संयम्य... ७)यस्त्विन्द्रियाणि मनसा... ८)नियतं कुरु कर्म त्वं... ९)यज्ञार्थात्कर्मणोऽन्यत्र... १०)सहयज्ञाः प्रजाः सृष्ट्वा... ११)देवान्भावयतानेन... १२)इष्टान्भोगान् हि वो देवा... १३)यज्ञशिष्टाशिनः सन्तो... १४)अन्नाद्भवन्ति भूतानि... १५)कर्म ब्रह्मोद्भवं विद्धि... १६)एवं प्रवर्तितं चक्रं... १७)यस्त्वात्मरतिरेव स्यात्... १८)नैव तस्य कृतेनार्थो... १९)तस्मादसक्तः सततम्... २०)कर्मणैव हि संसिद्धिम्... २१)यद्यदाचरति श्रेष्ठः... २२)न मे पार्थास्ति कर्तव्यं... २३)यदि ह्यहं न वर्तेयं... २४)उत्सीदेयुरिमे लोका... २५)सक्ताः कर्मण्यविद्वांसो... २६)न बुद्धिभेदं जनयेद्... २७)प्रकृतेः क्रियमाणानि... २८)तत्त्ववित्तु महाबाहो... २९)प्रकृतेर्गुणसम्मूढाः... ३०)मयि सर्वाणि कर्माणि... ३१)ये मे मतमिदं नित्यम्... ३२)ये त्वेतदभ्यसूयन्तो... ३३)सदृशं चेष्टते स्वस्याः... ३४)इन्द्रियस्येन्द्रियस्यार्थे... ३५)श्रेयान्स्वधर्मो विगुणः ३६)अथ केन प्रयुक्तोऽयं... ३७)काम एष क्रोध एष... ३८)धूमेनाव्रियते वह्निः... ३९)आवृतं ज्ञानमेतेन... ४०)इन्द्रियाणि मनो बुद्धिः... ४१)तस्मात्त्वमिन्द्रियाण्यादौ... ४२)इन्द्रियाणि पराण्याहुः... ४३)एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

कर्मेन्द्रियाणि संयम्य... श्लोकःकर्मेन्द्रियाणि संयम्य... पदच्छेदःकर्मेन्द्रियाणि संयम्य... अन्वयःकर्मेन्द्रियाणि संयम्य... शब्दार्थःकर्मेन्द्रियाणि संयम्य... व्याकरणम्कर्मेन्द्रियाणि संयम्य... अर्थःकर्मेन्द्रियाणि संयम्य... भावार्थःकर्मेन्द्रियाणि संयम्य... शाङ्करभाष्यम्कर्मेन्द्रियाणि संयम्य... सम्बद्धाः लेखाःकर्मेन्द्रियाणि संयम्य... बाह्यसम्पर्कतन्तुःकर्मेन्द्रियाणि संयम्य... उद्धरणम्कर्मेन्द्रियाणि संयम्य... अधिकवाचनायकर्मेन्द्रियाणि संयम्य...Gita c 3 6.wavकृष्णःसञ्चिका:Gita c 3 6.wav

🔥 Trending searches on Wiki संस्कृतम्:

१२९७१७४१६८९शिल्पशास्त्रम्१५४३ज्ञानकर्मसंन्यासयोगः११५७केरळराज्यम्दर्शनानि१७७९बाणभट्टःरौतहटमण्डलम्मालविकाग्निमित्रम्१२९श्रीहर्षःबोधायनःदशकुमारचरितम्डी वी सदानन्द गौडभिक्षु अखण्डानन्द२० मार्चमल्लिकार्जुनःकाञ्चिपुरमण्डलम्काव्यालङ्कारः (भामहविरचितः)श्रद्धावॉंल्लभते ज्ञानं...५ फरवरीके आर् नारायणन्५२५भारतीयभूसेनाजलमालिन्यम्Delhiअद्य धारा निराधारा… निरालम्बा सरस्वती…वैदिकवाङ्गमये पाश्चात्यानां योगदानम्भारतम्६१०आङ्ग्लभाषातैत्तिरीयब्राह्मणम्महाभाष्यम्संस्कृत भारतीसंस्कृतम्मन्दाक्रान्ताछन्दःतमिळनाडुराज्यम्अरविन्दाश्रमःमईवायुमालिन्यम्मोल्दोवा१३५३शर्कराभासनाटकचक्रम्जन्तवः१५३६अष्टाङ्गयोगः५३६भौतिकशास्त्रम्विष्णुपुराणम्१२०९सलमान रश्दी३२९तारणपंथदीपावलिःभारतदेशे नगरीयलौहशकटपरिवहनव्यवस्थासङ्गणकम्गोकर्णम्ज्कालिदासस्य उपमाप्रसक्तिः१४६९२९४त्वमेव माता च पिता त्वमेव इतिविक्रमोर्वशीयम्लोणावळापृथिवीरामनाथपुरमण्डलम्शुकसप्ततिः🡆 More