प्रकृतेः क्रियमाणानि...

प्रकृतेः क्रियमाणानि ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः ज्ञान्यज्ञानिनोः भेदं प्रदर्शयति । पूर्वस्मिन् श्लोके ज्ञानिपुरुषेभ्यः बुद्धिभेदम् अनुत्पादनस्य आज्ञां दत्त्वा अत्र भगवान् ज्ञान्यज्ञानिनोः मध्ये किं भिन्नत्वम् अस्ति इति बोधयति । सः कथयति यद्, सर्वाणि कर्माणि सर्वधा प्रकृतिगुणैः एव क्रियन्ते । परन्तु अहङ्कारद्वारा मोहितान्तःकरणयुक्तः अज्ञानी पुरुषः 'अहं कर्ता' इति मनुते इति ।

प्रकृतेः क्रियमाणानि...


ज्ञान्यज्ञानिनोः भेदः
प्रकृतेः क्रियमाणानि...
श्लोकसङ्ख्या ३/२७
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः न बुद्धिभेदं जनयेद्...
अग्रिमश्लोकः तत्त्ववित्तु महाबाहो...

श्लोकः

प्रकृतेः क्रियमाणानि... 
गीतोपदेशः
    प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
    अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७॥

पदच्छेदः

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ता अहम् इति मन्यते ॥ २७ ॥

अन्वयः

अहङ्कारविमूढात्मा प्रकृतेः गुणैः सर्वशः क्रियमाणानि कर्माणि कर्ता अहम् इति मन्यते ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
अहङ्कारविमूढात्मा अहङ्कारविवशात्मा
प्रकृतेः स्वभावस्य
गुणैः देहेन्द्रियादिभिः विकारैः
सर्वशः सर्वप्रकारेण
क्रियमाणानि विधीयमानानि
कर्माणि कर्माणि
कर्ता आचरिता
अहम् इति अहमेव इति
मन्यते चिन्तयति ।

व्याकरणम्

सन्धिः

  1. कर्ताहम् = कर्ता + अहम् – सवर्णदीर्घसन्धिः

समासः

  1. अहङ्कारविमूढात्मा = अहङ्कारेण विमूढः अहङ्कारविमूढः – तृतीयातत्पुरुषः
    1. अहङ्कारविमूढः आत्मा यस्य सः – बहुव्रीहिः

कृदन्तः

  1. प्रकृतेः = प्र + कृ + क्तिन् (कर्तरि), तस्याः । प्रकरोति इति प्रकृतिः ।
  2. क्रियमाणानि = कृ + कर्मणि लट्, शानच्

तद्धितान्तः

  1. सर्वशः = सर्व + शस् (प्रकारार्थे)

अर्थः

देहेन्द्रियादयः सर्वेऽपि प्रकृतेः विकारभूताः । ते एव कर्माणि कुर्वन्ति न तु आत्मा । अयं पुनः आत्मा यदा प्रकृतिजन्येन अहारेण युक्तः भवति तदा अहमेव सर्वेषां कर्मणां कर्ता इति जानाति ।

भावार्थः

'प्रेकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः' – यस्याः समष्ट्याः शक्त्या शरीरवृक्षादयः उत्पद्यन्ते, पालयन्ते, गङ्गादयः नद्यः प्रवहन्ति, प्रासादादयः परिवर्तन्ते, सा एव समष्टिः मनुष्यानां दृश्य-श्रवण-पचनादिशक्तिषु कारणभूता । परन्तु अहङ्कारेण मोहितः अज्ञानी मनुषः एकया समष्ट्या जायमानां क्रियां द्विधा विभजनं करोति । शरीरनिर्माणं, भोजनपचनम् इत्यादयः स्वतः जायमानानां क्रियाणां कृते आत्मानम् अकर्ता चिन्तयति । अपरत्र दर्शनं, वदनं, भोजनम् इत्यादीनां क्रियाणां कर्तृत्वेन आत्मानम् एव स्वीकरोति । प्रकृत्याः उत्पन्नानां गुणानां (सत्त्व-रज-तमानां) कार्यत्वाद् बुद्धिः, अहङ्कारः, मनः, पञ्चमहाभूतानि, दश इन्द्रियाणि, इन्द्रियाणां शब्दाः इत्यादयः पञ्च विषयाः प्रकृतेः गुणाः भवन्ति । उपर्युक्तैः पदैः भगवान् स्पष्टयति यद्, सर्वाः क्रियाः (समष्टेः व्यष्टेः वा) प्रकृतीनां गुणैः एव भवन्ति, न तु स्वरूपेण इति ।

'अहङ्कार विमूढात्मा' - 'अहङ्कार' इत्येषा अन्तःकरणस्य काचित् वृत्तिः । स्वरूपं तु वृत्तेः ज्ञाता अस्ति । परन्तु अज्ञानत्वाद् स्वरूपं तां वृत्तिं प्रति ममत्वं स्थापयति । एवं तां वृत्तिम् एव आत्मत्वेन स्वीकृत्यः मनुष्यः विमूढात्मा उच्यते । यथा शरीरम् 'इदम्' इत्यस्मिन् अन्तर्भवति, तथैव 'अहम्' अपि तत्रैव अन्तर्भूतः इति सिद्धान्तः । यदा मनुष्यः अज्ञानत्वात् 'इदम्' इत्येनमेव 'अहम्' इतित्वेने मनुते, तदा सः 'अहङ्कारविमूढात्मा' उच्यते । सः मन्यमानः अहङ्कारः उद्योगेन न दूरीभवति । यतो हि उद्ये अपि अहङ्कारः भवति । मन्यमानः अहङ्कारः 'अस्वीकृत्या' एव अपाभवति । 'अहम्' द्विविधः । वास्तविकाधाररूपः, अवास्तविकाधाररूपश्च । वास्तविकाधाररूपः 'अहम्' इत्युक्ते 'अहम् अस्मि' इति । अवास्तविकाधाररूपः 'अहम्' इत्युक्ते 'अहं शरीरम् अस्मि' इति । तयोः वास्तविकावास्तविकयोः अहम् इत्येतयोः वास्तविकाहं नित्यत्वात् विस्मृते सत्यपि दूरे न भवति । प्रत्युत अवास्तविकाहम् अनित्यत्वाद् प्रतीते सत्यपि स्थायी न भवति ।

'कर्ताहमिति मन्यते' – सर्वाणि कर्माणि सर्वधा प्रकृतिजन्यैः गुणैः एव जायन्ते । तथापि अहङ्काराद् मोहितान्तःकरणयुक्तः अज्ञानी पुरुषः केषाञ्चन कर्मणां कर्तृत्वेन आत्मानम् आरपयति । किञ्च सः अहङ्कारमेव स्वरूपत्वेन अङ्गीकरोति । अङ्कारत्वादेव मनुष्यः शरीरेन्द्रियमनोबुद्ध्यादिषु 'अहन्त्वम्' स्वीकरोति । एवं तेषां क्रियाणां कर्तृत्वेन आत्मानं मनुते । सा विपरीता मान्यता मनुष्येण स्वेन एव अक्रियत । अतः तां दूरीकर्तुं सः स्वयमेव प्रयस्यात् (प्रयासं कुर्यात्) । 'कार्यम्', 'अकार्यम्' इत्येतौ पदौ विपरीतौ स्तः इति प्रतीयते । परन्तु तौ उभावपि कर्मणि अन्तर्भवतः । यतो हि शयनम्, अवस्थानं, गमनं, समाधिः इत्यादयः क्रिया एव । क्रिया केवलं प्रकृतौ एव जायते । चेतनः तु क्रियाक्रिययोः पर सर्वेषां प्रकाशकः । यदि चेतनेऽपि क्रिया अभविष्यति, तर्हि सः स्वस्य ज्ञाता कथम् अभविष्यत् । क्रियाक्रिययोः अवस्थितिः 'अहम्' इत्यस्य उपस्थितौ एव शक्यते ।

शाङ्करभाष्यम्

अविद्वानज्ञः कथं कर्मसु सज्जत इत्याह-प्रकृतेरिति। प्रकृतेः प्रकृतिः प्रधआनं सत्त्वरजस्तमसां गुणानां साम्यावस्था तस्याः प्रकृतेर्गुणैर्विकारैः कार्यकरणरीपैः क्रियमाणानि कर्माणि लौकिकानि शास्रीयाणि च सर्वशः सर्वप्रकारैरहंकारविमूढात्मा कार्यकरणसंघात आत्मप्रत्ययोऽहंकारस्तेन विविधं नानाविधं मूढ आत्मान्तःकरणं यस्यसोऽयं कार्यकरणधर्मा कार्यकरणाभिमान्यविद्यया कर्माण्यात्मनि मन्यमानस्तत्तत्कर्मणामहं कर्तेति मन्यते ।।27।।


श्रीमद्भगवद्गीतायाः श्लोकाः
प्रकृतेः क्रियमाणानि...  पूर्वतनः
न बुद्धिभेदं जनयेद्...
प्रकृतेः क्रियमाणानि... अग्रिमः
तत्त्ववित्तु महाबाहो...
प्रकृतेः क्रियमाणानि... 
कर्मयोगः

१)ज्यायसी चेत्कर्मणस्ते... २)व्यामिश्रेणेव वाक्येन... ३)लोकेऽस्मिन् द्विविधा निष्ठा... ४)न कर्मणामनारम्भात्... ५)न हि कश्चित्क्षणमपि... ६)कर्मेन्द्रियाणि संयम्य... ७)यस्त्विन्द्रियाणि मनसा... ८)नियतं कुरु कर्म त्वं... ९)यज्ञार्थात्कर्मणोऽन्यत्र... १०)सहयज्ञाः प्रजाः सृष्ट्वा... ११)देवान्भावयतानेन... १२)इष्टान्भोगान् हि वो देवा... १३)यज्ञशिष्टाशिनः सन्तो... १४)अन्नाद्भवन्ति भूतानि... १५)कर्म ब्रह्मोद्भवं विद्धि... १६)एवं प्रवर्तितं चक्रं... १७)यस्त्वात्मरतिरेव स्यात्... १८)नैव तस्य कृतेनार्थो... १९)तस्मादसक्तः सततम्... २०)कर्मणैव हि संसिद्धिम्... २१)यद्यदाचरति श्रेष्ठः... २२)न मे पार्थास्ति कर्तव्यं... २३)यदि ह्यहं न वर्तेयं... २४)उत्सीदेयुरिमे लोका... २५)सक्ताः कर्मण्यविद्वांसो... २६)न बुद्धिभेदं जनयेद्... २७)प्रकृतेः क्रियमाणानि... २८)तत्त्ववित्तु महाबाहो... २९)प्रकृतेर्गुणसम्मूढाः... ३०)मयि सर्वाणि कर्माणि... ३१)ये मे मतमिदं नित्यम्... ३२)ये त्वेतदभ्यसूयन्तो... ३३)सदृशं चेष्टते स्वस्याः... ३४)इन्द्रियस्येन्द्रियस्यार्थे... ३५)श्रेयान्स्वधर्मो विगुणः ३६)अथ केन प्रयुक्तोऽयं... ३७)काम एष क्रोध एष... ३८)धूमेनाव्रियते वह्निः... ३९)आवृतं ज्ञानमेतेन... ४०)इन्द्रियाणि मनो बुद्धिः... ४१)तस्मात्त्वमिन्द्रियाण्यादौ... ४२)इन्द्रियाणि पराण्याहुः... ४३)एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

प्रकृतेः क्रियमाणानि... श्लोकःप्रकृतेः क्रियमाणानि... पदच्छेदःप्रकृतेः क्रियमाणानि... अन्वयःप्रकृतेः क्रियमाणानि... शब्दार्थःप्रकृतेः क्रियमाणानि... व्याकरणम्प्रकृतेः क्रियमाणानि... अर्थःप्रकृतेः क्रियमाणानि... भावार्थःप्रकृतेः क्रियमाणानि... शाङ्करभाष्यम्प्रकृतेः क्रियमाणानि... सम्बद्धाः लेखाःप्रकृतेः क्रियमाणानि... बाह्यसम्पर्कतन्तुःप्रकृतेः क्रियमाणानि... उद्धरणम्प्रकृतेः क्रियमाणानि... अधिकवाचनायप्रकृतेः क्रियमाणानि...Gita c 3 27.wavकृष्णःसञ्चिका:Gita c 3 27.wav

🔥 Trending searches on Wiki संस्कृतम्:

मोहम्मद रफीनैषधीयचरितम्१ अक्तूबरउनउननिलियमब्रह्मचर्याश्रमःईजिप्तदेशः१८७६प्बाबर४४४योगःबहरैनआर्यभटःआयुर्वेदःदीपावलिः९०८३६९आङ्ग्लभाषाजीवनीशुक्रवासरः१२ अक्तूबरपी टी उषारुद्रतालःकोलोम्बियाऋग्वेदःसंस्कृतव्याकरणपरम्परादक्षिणजम्बुद्वीपः३ दिसम्बरसंयुक्तराज्यानिपाणिनिः१९ जुलाईप्रजातन्त्रम्अद्वैतवेदान्तःताजमहलइतिहासःकालिदासः१६ जनवरीसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)जी२०मत्त (तालः)ह्संस्काराःन्‍यू मेक्‍सिकोदेवनागरीअण्वस्त्रम्स्वाहिःविशिष्टाद्वैतवेदान्तः४३८भारतेश्वरः पृथ्वीराजःलक्सम्बर्गवात्स्यायनःमातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिःहाङ्ग् काङ्ग्वायु परिवहनओषधयः२९ जुलाईभगत सिंहजेम्स ७ (स्काटलैंड)बुद्धप्रस्थवेदव्यासःडेन्वर्हेरोडोटस१८९८जीवशास्त्रम्यूरोपखण्डःवैदिकसंस्कृतम्श्रीहर्षःशिश्नम्🡆 More