नियतं कुरु कर्म त्वं...

नियतं कुरु कर्म त्वम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मणा विना शरीरनिर्वाहः असम्भवः इति वदति । पूर्वस्मिन् श्लोके भगवान् अनासक्तिभावेन कर्म कर्तुः प्रशंसां कृत्वा अत्र अकर्मण्यापेक्षया कर्म श्रेष्ठम् इति वदति । सः कथयति यद्, त्वं शास्त्रविधिना उक्तानां कर्तव्यकर्मणां पालनं कुरु । यतो हि अकर्मणः अपेक्षया कर्मकरणं श्रेष्ठतरम् अश्ति । तथा च अकर्मण्ये सति शरीरनिर्वाहः अपि न सिद्ध्यति इति ।

नियतं कुरु कर्म त्वं...


शरीरनिर्वाहस्य आधारः कर्म
नियतं कुरु कर्म त्वं...
श्लोकसङ्ख्या ३/८
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यस्त्विन्द्रियाणि मनसा...
अग्रिमश्लोकः यज्ञार्थात्कर्मणोऽन्यत्र...

श्लोकः

नियतं कुरु कर्म त्वं... 
गीतोपदेशः
    नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
    शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ८ ॥

पदच्छेदः

नियतं कुरु कर्म त्वं कर्म ज्यायः हि अकर्मणः शरीरयात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः ॥ ८ ॥

अन्वयः

त्वं नियतं कर्म कुरु, कर्म हि अकर्मणः ज्यायः । अकर्मणः ते शरीरयात्रापि न प्रसिद्ध्येत् ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
त्वम् त्वम्
नियतम् निर्दिष्टम्
कर्म कर्म
कुरु आचर
हि यतः
अकर्मणः कर्माभावात्
कर्म कर्माचरणम्
ज्यायः श्रेष्ठम्
अकर्मणः कर्माभावात्
ते तव
शरीरयात्रा अपि देहयात्रा अपि
न प्रसिद्ध्येत् न जायेत् ।

व्याकरणम्

सन्धिः

  1. ज्यायो हि = ज्यायः + हि – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  2. ह्यकर्मणः = हि + अकर्मणः – यण्सन्धिः
  3. शरीरयात्रापि = शरीरयात्रा + अपि - सवर्णदीर्घसन्धिः

समासः

  1. शरीरयात्रा = शरीरस्य यात्रा – षष्ठीतत्पुरुषः
  2. अकर्मणः = न कर्म, तस्य - नञ्तत्पुरुषः

कृदन्तः

  1. नियतम् = नि + यम् + क्त (कर्मणि)

तद्धितान्तः

  1. ज्यायः = प्रशस्य/वृद्ध + ईयसुन् (ज्य इति आदेशः)

अर्थः

भवान् नित्यं यस्मिन् कर्मणि अधिकृतः तत् कर्म आचरतु । कर्मणः अनाचरणात् कर्माचरणं श्रेष्ठं वर्तते । किञ्च कर्माभावे भवतः शरीरसंरक्षणमपि कर्तुं न शक्यते ।

भावार्थः

गीतायाः शैल्यानुसारं प्रप्रथमं प्रस्तुतस्य विषयस्य विवेचनं कृतम् । ततः तस्य पालने सति लाभः, अपालने हानिः च विवेचिता । ततः तस्य अनुष्ठानस्य आज्ञा प्रदत्ता । अत्र गीताशैल्याः उदाहरणं प्रत्यक्षम् अस्ति । अत्र भगवान् अर्जुनस्य प्रश्नस्य उत्तरं यच्छन् कर्मणः सर्वथात्यागः असम्भवः इति विवेचनं करोति । ततः कर्मणः स्वरूपात् त्यागः मनसा कर्मणः चिन्तनं मिथ्याचारः उक्तः । निष्कामभावेन यः कर्म करोति, सः श्रेष्ठः इति वदति । अधुना एतस्मिन् श्लोके भगवान् निष्कामभावानुसारं कर्तव्यकर्मणः आज्ञां यच्छति ।

'नियतं कुरु कर्म त्वम्' – शास्त्रेषु विहितकर्माणि, नियतकर्माणि च आज्ञापितानि । विहितकर्म इत्युक्ते समान्यरूपेण शास्त्रेषु प्रदर्शितम् आज्ञारूपं कर्म । यथा व्रतम्, उपवासः, उपासना इत्यादि । तेषां विहितकर्मणां पूर्णतया पालनम् एकया व्यक्तिना अतीव कठिनम् अस्ति । परन्तु निषिद्धकर्मणां त्यागः सुगमः भवति । विहितकर्मणां त्यागे तावान् दोषः न भवति, यावान् निषिद्धकर्मणि कृते सति भवति । यथा असत्यं न वक्तव्यं, चौर्यं न करणीयं, हिंसा न करणीया इतियादि । निषिद्धकर्मणां त्यागे कृते सति विहितकर्मणां पालनं स्वतः एव भवति ।

नियतकर्मणां पालनम् इत्युक्ते वर्ण-आश्रम-स्वभाव-परिस्थित्यानुसारं प्राप्तस्य कर्तव्यकर्मणः पालनम् । यथा मार्गच्युताय मार्गप्रदर्शनं, व्यापारः, पाठनम् इत्यादि । कर्मयोगी वर्णधर्मानुकूलं शास्त्रविहितं कर्तव्यकर्म प्राप्नोति चेत्, तत् कर्म घोरम् उत सौम्यम् अस्ति इति अदृष्ट्वा तस्य पालनं कुर्यात् । अत्र 'नियतं कुरु कर्म' इत्यनेन पदेन भगवान अर्जुनं कथयति यद्, तव क्षात्रधर्मत्वात् स्ववर्णानुगुणम् उपस्थितपरिस्थित्याः प्राप्तं युद्धं ते स्वाभाविकं कर्म अस्ति इति । युद्धादिकर्म वस्तुतः घोरं प्रतीयते, परन्तु तदेव क्षत्रिणेभ्यः नियतकर्म भवति । पूर्वमेव भगवान् अवदत्, यद्, स्वधर्मणः दृष्ट्या अपि युद्धं ते नियतकर्म अस्ति इति । वस्तुतः स्वधर्म, नियतकर्म च एकमेवास्ति । यद्यपि दुर्योधनादिभ्यः अपि युद्धं वर्णधर्मानुगुणं प्राप्तं कर्म अस्ति, तथापि अन्यायुक्तत्वात् तेषां कर्म नियतकर्मभ्यः भिन्नम् अस्ति । यतो हि ते युद्धं कृत्वा अन्ययापूर्णतया राज्यं जेतुम् इच्छन्ति । अतः तेभ्यः एतत् युद्धं न तु नियतकर्म अस्ति, न च धर्मयुक्तं कर्म ।

'कर्म ज्यायो ह्यकर्मणः' – एतस्य अध्यायस्य प्रथमे श्लोके अर्जनः 'ज्यायसी' इत्येन यं प्रश्नम् अकरोत्, तस्य उत्तरम् अत्र भगवान् 'ज्यायः' इत्यनेन पदेन यच्छति । तत्र अर्जुनस्य प्रश्नः अस्ति यद्, यदि भवतः दृष्ट्या कर्मणः ज्ञानं श्रेष्ठम् अस्ति, तर्हि माम् एतस्मिन् घोरे कर्मणि किमर्थं योजयति ? इति । अत्र भगवान् उत्तरं ददाति यद्, अकर्मणः अपेक्षया कर्म एव श्रेष्ठम् अस्ति । एवम् अर्जुनः युद्धरूपिणः घोरकर्मणः निवृत्तेः विचारं कुर्वन् आसीत्, परन्तु भगवान् तं युद्धरूपिणि नियतकर्मणि अर्जुनस्य प्रवृत्तेः विचारं कुर्वन् अस्ति । अत एव अग्रे अष्टादशेऽध्याये भगवान् कथयिष्यति यद्, दोषयुक्ते सत्यपि सहज(नियत)कर्मणां त्यागः न करणीयः इति । यतो हि तस्य त्यागः दोषकार्णं भवति । तथा कर्मभिः सह सम्बन्धविच्छेदः न भवति । अतः कर्मत्यागापेक्षया नियतकर्मपालनम् एव श्रेष्ठम् अस्ति । ततोधिकम् आसक्तिरिहते सति कर्तव्यकर्मणः पालनं तु सर्वापेक्षया श्रेष्ठतमम् उक्तम् अस्ति । यतो हि तेन एव कर्मणा सह सर्वथा सम्बन्धभङ्गः भवति । अतः एतस्य श्लोकस्य पूर्वार्धे भगवान् अर्जुनाय अनासक्तभावेन नियककर्म कर्तुम् आज्ञापयति, उत्तरार्धे च कर्म विना ते शरीरनिर्वाहः अपि असम्भवः भविष्यति इति कथयति ।

'कर्म ज्यायो ह्यकर्मणः' – कर्मयोगे एषः भगवतः प्रप्रथमः सिद्धान्तः अस्ति । एषः सिद्धान्तः एव पूरा भगवता 'मा ते सङ्गोऽस्त्वकर्मणि' इत्यादिभिः पदैः स्पष्टीकृतम् अस्ति । अर्थात् हे अर्जुन ! तव कर्मणि अपि आसक्तिः न स्यात् । यतो हि कर्तव्यकर्मणः विमुखः मनुष्यः प्रमादः, आलस्यं, निद्रा इत्यादिषु स्वस्य अमूल्यं समयं व्यर्थीकरिष्यति । अथवा तु शास्त्रनिषिद्धे कर्मणि समयं नाशयिष्यति । एवं तस्य पतनं भविष्यति । स्वरूपात् कर्मणः त्यागस्य अपेक्षया कर्मणि कुर्वन् कर्मभिः सह सम्बन्धविच्छेदः श्रेष्ठः अस्ति । यतो हि कामना, वासना, फलासक्तिः, पक्षपातः इत्यादयः कर्मभिः सह सम्बन्धं साधयन्ति । तस्य सम्बन्धस्य कृते मनुष्यस्य कर्मणः, अकर्मणः अपि भेदः न भवति । कामना इत्यादीनां त्यागस्य उद्देश्येन कर्मयोगस्य आचरणं करोति चेत्, कामनादीनां त्यागे सुगमता भवति ।

'शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः' – अर्जुनस्य मनसि तादृशः भावः आसीत् यद्, यदि कर्म एव न कुर्मः, तर्हि कर्मणा सह स्वतः एव सम्बन्धः भवेत् इति । अतः भगवान् विविधाभिः युक्तिभिः अर्जुनं कर्म कर्तुं प्रेरयति । तासु युक्तिषु एकस्याः युक्तेः वर्णनं कुर्वन् भगवान् वदति यद्, हे अर्जुन ! त्वया कर्माणि तु करणीयानि एव । अन्यस्य कस्यापि विषयस्य तु त्यजतु कर्म विना त्वं स्वस्य शरीरस्य निर्वाहः अपि असम्भवः भविष्यति इति । यथा ज्ञानयोगे विवेकेन संसारात् सम्बन्धविच्छेदः भवति, तथैव कर्मयोगेऽपि कर्तव्यकर्मणः औचित्येन अनुष्ठाने कृते संसारात् सम्बन्धविच्छेदः भवति । अतः ज्ञानयोगापेक्षया कर्मयोगः निम्नतरः इति कदापि न चिन्तयनीयम् । कर्मयोगी शरीरं संसारस्य मत्वा तत् संसारस्य सेवायाम् एव योजयति । अर्थात् शरीरे तस्य ममत्वं न भवति । सः स्थूल-सूक्ष्म-कारण-शरीराणाम् एकता स्थूल-सूक्ष्म-कारण-संसारेण सह एव करोति । अपरत्र ज्ञानयोगी स्वस्य एकता ब्रह्मणा सह अस्ति इति सिद्ध्यति । एवं कर्मयोगी जडतत्त्वानाम् एकतां साधयति, ज्ञानयोगी च चेतनत्त्वस्य एकतां साधयति इति ।

मर्मः

अर्जुनस्य कर्मणि अरुचिः अस्ति । अर्थात् तस्य आग्रहः कर्मत्यागे अस्ति । केवलम् अर्जुनस्य एव न अपि तु परमार्थमार्गस्य बहवः साधकाः प्रायः एतस्मिन् विषये एव भ्रमिताः भवन्ति । यद्यपि तेषाम् अच्छा साधनस्य एव भवति, ते साधनं कुर्वन्ति अपि, तथापि ते स्वस्य मनोवाञ्छितपरिस्थितिम्, अनुकूलतां, सुखबुद्धिं च कदापि न त्यजन्ति, अतः तेषां साधने महती बाधा उद्भवति । यः साधकः तत्त्वप्राप्तौ सुगताम् अन्विषति, तथा च शीघ्रं हि तत्त्वप्राप्तिं कर्तुम् इच्छति, सः वस्तुतः सुखप्रमी अस्ति, न तु साधनप्रेमी । यः सौगमेयन तत्त्वप्राप्तिं कर्तुम् इच्छति, तेन अधिका प्रतिकूलता सोढनीया भवति । तथा च यः शीघतया तत्त्वप्राप्तिम् इच्छति, तेन विलम्बः सोढनीयः भवति । यतो हि सुगमतायाः, शीघ्रतायाः च इच्छा साधकस्य ध्यानं 'साधने' न अपि तु 'फले' कर्षयति । तेन साधनानुसरणे साधकः जामितः भवति, तत्त्वप्राप्तै विलम्बः अपि भवति । यस्य दृढविश्वासः अस्ति यत्, यत्किमपि भवेद् अहं तत्त्वं प्राप्नोमि एव इति, तर्हि तस्य ध्यानं सुगमतां, शीघ्रतां च प्रति न गच्छति । तत्परतया यदा समान्यमनुष्यः स्वकार्यं प्रति प्रवृत्तः भवति, तदा सः सुखदुःखयोः चिन्तां न करोति , तर्हि साधकस्य तु किं वक्तव्यम् ?

अत्र ज्ञातव्यं यद्, उत्कष्ठा, शीघ्रता इत्यते भिन्ने इति । आसक्तिपूर्वकं साधनं कुर्वाणः साधकः साधने एव सुखभोगं करोति, तस्मिन् यदि विलम्बः अथवा विघ्नः उत्पद्यते, तर्हि क्रुद्धः भवति । ततः साधने तस्य दोषदृष्टिः उत्पद्यते । परन्तु प्रेमपूर्वकं साधनं कुर्वाणः साधकः साधने विलम्बम् उत विघ्नं दृष्ट्वा आर्तभावेन रुदति । तद् आर्तभावेन रोदनमेव उत्कण्ठा इति । एवं शीघ्रतायाम् अन्तरम् अस्ति । शीघ्रतायां साधकस्य ध्यानं सुखसुविदादिषु भवति । अर्थात् एकवारं तत्त्वप्राप्तिः भवेत्, ततः विश्रामं करिष्यामि इति । परन्तु उत्कण्ठायां साधकः स्वस्य साधने एव आरामं मनुते । यतो हि साधनं विना किमपि करणीयं नास्ति । अतः एतदेव साधनं करणीयम् अस्ति, तत् सुगमतया उत काठिन्येन प्राप्नुयात् । अतः तस्य साधकस्य सर्वा शक्तिः साधने एव युक्ता भवति । एवं तस्य तत्त्वप्राप्तिः शीघ्रा भवति । परन्तु यः शीघ्रतया सिद्धिम् इच्छति, सः साधकः साध्यं विलम्बेन प्राप्नोति । यतो हि विलम्बस्य कारणेन सः निरासः अपि भवितुम् अर्हति । अतः साधकेन साध्यापेक्षया साधनस्य सम्माननम् अधिकं करणीयम् ।

एवं प्रस्तुते श्लोके अर्जुनं निमित्तीकृत्य भगवान् साधकान् सावाधानं कुर्वन् वदति यद्, साधकेन स्वस्य अनुकूलता, सुखुबुद्धिः च त्यक्त्वा कर्तव्यकर्माणि एव तत्परतया साधनीयानि इति ।

शाङ्करभाष्यम्

यत एवमतः-नियममिति। नियतं नित्यं शास्त्रोपदिष्ठं यो यस्मिन्कर्मण्यधिकृतः फलाय चाश्रुतं तन्नियतं कर्म तत् कुरु त्वं हेऽर्जुन, यतः कर्म ज्यायोऽधिकतरं फलतो हि यस्मात्तदकर्मणोऽकरणादनारम्भात्।कथं ? शरीरयात्रा शरीरस्थितिरपि च ते तव न प्रसिद्धिं न गच्छेदकर्मणोऽकरणात्। अतो दृष्टः कर्माकर्मणोर्विशेषो लोके ।।8।।


श्रीमद्भगवद्गीतायाः श्लोकाः
नियतं कुरु कर्म त्वं...  पूर्वतनः
यस्त्विन्द्रियाणि मनसा...
नियतं कुरु कर्म त्वं... अग्रिमः
यज्ञार्थात्कर्मणोऽन्यत्र...
नियतं कुरु कर्म त्वं... 
कर्मयोगः

१)ज्यायसी चेत्कर्मणस्ते... २)व्यामिश्रेणेव वाक्येन... ३)लोकेऽस्मिन् द्विविधा निष्ठा... ४)न कर्मणामनारम्भात्... ५)न हि कश्चित्क्षणमपि... ६)कर्मेन्द्रियाणि संयम्य... ७)यस्त्विन्द्रियाणि मनसा... ८)नियतं कुरु कर्म त्वं... ९)यज्ञार्थात्कर्मणोऽन्यत्र... १०)सहयज्ञाः प्रजाः सृष्ट्वा... ११)देवान्भावयतानेन... १२)इष्टान्भोगान् हि वो देवा... १३)यज्ञशिष्टाशिनः सन्तो... १४)अन्नाद्भवन्ति भूतानि... १५)कर्म ब्रह्मोद्भवं विद्धि... १६)एवं प्रवर्तितं चक्रं... १७)यस्त्वात्मरतिरेव स्यात्... १८)नैव तस्य कृतेनार्थो... १९)तस्मादसक्तः सततम्... २०)कर्मणैव हि संसिद्धिम्... २१)यद्यदाचरति श्रेष्ठः... २२)न मे पार्थास्ति कर्तव्यं... २३)यदि ह्यहं न वर्तेयं... २४)उत्सीदेयुरिमे लोका... २५)सक्ताः कर्मण्यविद्वांसो... २६)न बुद्धिभेदं जनयेद्... २७)प्रकृतेः क्रियमाणानि... २८)तत्त्ववित्तु महाबाहो... २९)प्रकृतेर्गुणसम्मूढाः... ३०)मयि सर्वाणि कर्माणि... ३१)ये मे मतमिदं नित्यम्... ३२)ये त्वेतदभ्यसूयन्तो... ३३)सदृशं चेष्टते स्वस्याः... ३४)इन्द्रियस्येन्द्रियस्यार्थे... ३५)श्रेयान्स्वधर्मो विगुणः ३६)अथ केन प्रयुक्तोऽयं... ३७)काम एष क्रोध एष... ३८)धूमेनाव्रियते वह्निः... ३९)आवृतं ज्ञानमेतेन... ४०)इन्द्रियाणि मनो बुद्धिः... ४१)तस्मात्त्वमिन्द्रियाण्यादौ... ४२)इन्द्रियाणि पराण्याहुः... ४३)एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

नियतं कुरु कर्म त्वं... श्लोकःनियतं कुरु कर्म त्वं... पदच्छेदःनियतं कुरु कर्म त्वं... अन्वयःनियतं कुरु कर्म त्वं... शब्दार्थःनियतं कुरु कर्म त्वं... व्याकरणम्नियतं कुरु कर्म त्वं... अर्थःनियतं कुरु कर्म त्वं... भावार्थःनियतं कुरु कर्म त्वं... मर्मःनियतं कुरु कर्म त्वं... शाङ्करभाष्यम्नियतं कुरु कर्म त्वं... सम्बद्धाः लेखाःनियतं कुरु कर्म त्वं... बाह्यसम्पर्कतन्तुःनियतं कुरु कर्म त्वं... उद्धरणम्नियतं कुरु कर्म त्वं... अधिकवाचनायनियतं कुरु कर्म त्वं...Gita c 3 8.wavकृष्णःसञ्चिका:Gita c 3 8.wav

🔥 Trending searches on Wiki संस्कृतम्:

जलम्नाटकचक्रम्रवीना टंडनश्रीमद्भागवतमहापुराणम्७०८वररुचिःबालकाण्डम्सत्यवतीभारतस्य इतिहासःहृदयम्२.४८ ततो द्वन्द्वानभिघातःएडवर्ड ६अशोकवृक्षःसंयुक्ताधिराज्यम्कपालिनीदेवी (विभाश)भारतीयदर्शनशास्त्रम्८३८एस्टोनियाभूकम्पःविश्वामित्रःवैदिकगणितम्सहयज्ञाः प्रजाः सृष्ट्वा...१६ अप्रैलईशावास्योपनिषत्मोडि लिपिःमेषराशिः५५७जयललिताजनवरी २१विकिपीडियाऋषिःपाकिस्थानम्राजा राममोहन रायपुरुषार्थःकालिफोर्नियाचेतनामाघःदेशाःकार्बनसन्धिप्रकरणम्जैनधर्मःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यामार्जालःश्रीहर्षःअनामिकाबाबरअत्रिःधनम्तुञ्चत्तु रामानुजन् एळुत्तच्चन्भरतः (नाट्यशास्त्रप्रणेता)विष्णुपुराणम्पाटलपुष्पम्सितम्बर ४शक्तिदेवीकोमोदेवगिरि शिखरम्कात्यायनीरामःकारकषष्ठी१.४४ उत्सन्नकुल…धातुविमर्शःकृषिःभगत सिंहपृथिव्याः वायुमण्डलम्लेखामाधवीभासःभौतिकशास्त्रम्साउथ केरोलैनायज्ञार्थात्कर्मणोऽन्यत्र...🡆 More