स्वरसन्धिः

स्वरसन्धेः पञ्च प्रकाराः सन्ति। संस्कृतव्याकरणे महर्षिपाणिनेः 'अष्टाध्यायी' ग्रन्थस्य अतीव महत्वम् अस्ति। अस्मिन् ग्रन्थे प्रथमे अध्याये संहिता अथवा सन्धिसंज्ञा परः सन्निकर्षः संहिता।१।४।१०९।। इति सूत्रेण स्पष्टिकृतम् अस्ति।

१] दीर्घसन्धि:

अकः सवर्णे दीर्घ:।६।१।१०१।। सूत्रेण दीर्घसन्धिः भवति। अक् प्रत्याहारस्थ अ,इ,उ,ऋ,लृ  वर्णानां पुरतः तेषाम् एव सवर्णः आगच्छति तदा तत्र पूर्वपरयोः स्थाने एकं सवर्णदीर्घादेशः भवति।

१. अ/आ+अ/आ=आ  |  हिम+अद्रिः=हिमद्रिः

२.इ/ई+इ/ई=ई         | श्री+ईशः=श्रीशः

२.उ/ऊ+उ/ऊ=ऊ   | विष्णु+उदयः=विष्णूदयः

४.ऋ/ॠ+ऋ/ॠ=ॠ |  होतृ+ऋकारः=होतॄकारः

२] गुणसन्धि:

आद् गुणः६।१।८७।। सूत्रेण गुणसन्धिः भवति। यदा ‘अ’ वर्णस्य पुरतः अन्य स्वरः आगच्छति तदा तत्र द्वयोः स्थाने गुणदेशः करणीय:।

१.गण+ईशः=गणेशः।

२.शुद्ध+उदकः= शुद्धोदकः।

३]वृद्धिसन्धि:

वृद्धिरेचि ६।१।८८।।सूत्रेण वृद्धिसन्धि: भवति। यत्र अ, आ  पुरतः एच् प्रत्याहारस्थ ए,ओ,ऐ,औ  वर्णाः इति स्थितौ तत्र उभयोः वर्णयोः स्थाने वृद्धिरेकादेशः स्यात्।

१.कृष्ण+एकत्वम्=कृष्णैकत्वम्

२.गङ्गा+ओघः=गङ्गौघः

३.देव+ऐश्वर्यम्=देवैश्वर्यम्

४.कृष्ण+औत्कण्ठ्यम्=कृष्णौत्कण्ठ्यम्

४] यणसन्धिः

इको यणचि।६।१।७७।। सूत्रेण यदा इक् प्रत्याहारस्थ इ,उ,ऋ,लृ वर्णनां पुरतः अन्य: स्वरः आगच्छति तदा तत्र इकः(इ,उ,ऋ,लृ) स्थाने  य्,व्,र्,ल् इति यणादेशाः भवन्ति।

१.इति+आदि+इत्यादि

२.सु+आगतम्=स्वागतम्

३.धातृ+अंशः=धात्त्रंशः

४.लृ+आकृति=लाकृति:

५] अयादिसन्धिः

एचोयवायावः।६।१।१८।। इति सूत्रेण अयादिसन्धिः भवति। यदा एचः पुरतः अन्यस्वरवर्णः  

आगच्छति तदा तत्र ए,ओ,ऐ,औ वर्णयोः स्थाने क्रमेण अय्, अव्, आय्, आव् एते आदेशाः स्युः।

१.हरे+ए=हरये

२.विष्णो+ए=विष्णवे

३.नै+अकः=नायकः

४.पौ+अकः=पावकः

        एतावत् षष्ठमे अध्याये आगतानि स्वरसन्धेः विधिसूत्राणि ।

सम्बद्धाः लेखाः

Tags:

स्वरसन्धिः १] दीर्घसन्धि:स्वरसन्धिः २] गुणसन्धि:स्वरसन्धिः ३]वृद्धिसन्धि:स्वरसन्धिः ४] यणसन्धिःस्वरसन्धिः ५] अयादिसन्धिःस्वरसन्धिः सम्बद्धाः लेखाःस्वरसन्धिः

🔥 Trending searches on Wiki संस्कृतम्:

इङ्गुदवृक्षःदक्षिणकोरियाशाब्दबोधः११ जूनआर्मीनिया१५८९हर्षवर्धनः२८ अप्रैलकैटरीना कैफ२४ सितम्बरभारतम्विकिस्रोतःमोहम्मद रफीआत्माभर्तृहरिःमलेरियारोगःइतालवीभाषामदर् तेरेसाक्षेमेन्द्रःविकिमीडियासागरःअजोऽपि सन्नव्ययात्मा...भौतिकशास्त्रम्१८१४१९ अगस्तदेवीशतकम्२०११लीथियम्जार्ज २४४५बीभत्सरसःवेदाविनाशिनं नित्यं...द्वितीयविश्वयुद्धम्नादिर-शाहःविकिपीडियासंस्कृतम्श्मुख्यपृष्ठम्चक्रातन्वीऐसाक् न्यूटन्कठोपनिषत्पुनर्जन्मविश्रवाःग्रेगोरी-कालगणनामामितमण्डलम्नैषधीयचरितम्३५८चीनदेशःसमन्वितसार्वत्रिकसमयःमीमांसादर्शनम्यवनदेशःउद्धरेदात्मनात्मानं...सिलवासाअनुबन्धचतुष्टयम्वेदान्तःDevanagariसाहित्यशास्त्रम्मधुकर्कटीफलम्ब्पक्षिणः७१९भगत सिंहसिकन्दर महानसूरा अल-अस्रसाङ्ख्यदर्शनम्२४ अप्रैलप्रकरणम् (दशरूपकम्)चिलि🡆 More