सिंहराशिः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।
गुहासु सञ्चरणम्, आवश्यकतानुगुणं वर्तनम्, शत्रोः सम्मुखीकरणम्, धैर्यप्रवृत्तिः, निश्चिता मतिः - ये गुणाः सिंहे दृश्यन्ते ते सर्वे सिंहराशिवत्सु अपि दृश्यन्ते । धीरगम्भीरप्रवृत्तिः, न्यायबद्धजीवनशैली, दोषाणां विषये असहना, शत्रुदमनम् अन्यानि वैशिष्ट्यानि ।
सिंहराशेः अधिपतिः रविः । रविः ग्रहाणां राजा । सूर्यः स्वयं प्रकाशवान्, स्वावलम्बी सन् अन्येभ्यः प्रकाशं तापञ्च वितरन् सर्वान् उपकरोति । इदं तत्त्वं सिंहराशिवत्सु अधिकतया दृश्यते । एतेषु आत्मविश्वासः अत्यधिकः इत्यतः सर्वत्रापि मम निर्णयः एव अन्तिमः भवेत्, सर्वे माम् एव अनुसरेयुः इति तत्त्वं तेषु अधिकतया भवति । अयं गुणः कदाचित् दुराग्रहं मूर्खताञ्च प्रदर्शयति । किन्तु सः भावः यथा दृग्गोचरः न स्यात् तथा ते निर्वहन्ति । स्वस्य भावनाः निगूह्य न्यूनताः सङ्गोप्य गम्भीरतया वर्तयन्ति ते । अन्येषां प्रगति एतेषाम् असहनाय भवति । असहना असूयारूपं यदि प्राप्नोति ते अन्यान् बाधन्ते च । स्वस्य विषयः उच्यते चेत् अन्ये ममविषये लघुचिन्तनं कुर्युः इति भयेन एते अन्यान् किमपि न वदन्ति । तस्मात् चिन्ताभारेण हृदयरोगं मनोव्याधिञ्च प्राप्नुवन्ति । कार्यनिर्वहणे एते नितरां सामर्थ्यवन्तः भवन्ति । मत्तः बहु जनाः प्रयोजनं प्राप्नुयुः ततः ते कृतज्ञाः स्युः, स्वस्य नियन्त्रणे स्युः इत्यपि एते इच्छन्ति । एतन्निमित्तं कदाचित् ते अन्यान् भाययेयुः अपि ।
सिंहः सहजपञ्चमभावः इति निर्दिश्यते । पञ्चमभावः मानसिकस्तरं, चिन्तनानि, चिन्तनप्रयोजनानि, सन्तनञ्च निर्दिशति ।
पुरुषजातिः, स्थिरसंज्ञकः, अग्नितत्त्वं, दिवाबली, पित्तप्रकृतिः, पीतवर्नः, उष्णस्वभावः, पूर्वदिशः स्वामी, पुष्टशरीरं, क्षत्रियवर्णः, अल्पसन्ततिः, भ्रमणप्रियः, निर्जलं चास्ति । अस्य प्राकृतिकस्वभावः मेषराशि इव तथा च विशेषतया स्वातन्त्र्यप्रियः औदार्यादिगुणः विद्यते । अनेन हृदयस्य विचारः क्रियते । अस्य स्वामी रविः । यथोक्तं -
सिंहराशौ मखायाः ४ पादाः, पूर्वाषाढायाः ४ पादाः, उत्तराषाढायाः प्रथमः पादः च भवन्ति इत्यतः मा, मी, मू, मे, मो, टा, टी, टू, टे ... इत्येतानि अक्षराणि सिंहसम्बद्धानि इति वक्तुं शक्यते ।
येषां जन्मदिनम् जुलैमासस्य २४ दिनाङ्कतः आगस्ट्-मासस्य २३ दिनाङ्कतः पूर्वं भवति तेषां सिंहराशिः ।
This article uses material from the Wikipedia संस्कृतम् article सिंहराशिः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.