एषः (विकल्पः ) न प्रमाणस्य, न तु विपर्ययस्य च अन्तर्गतः भवति। वास्तविकस्य अर्थस्य रहिततायां सत्यामपि शब्दज्ञानस्य महिम्नः कारणेन (एतस्य विकल्पस्य) व्यवहारः दरीदृश्यते।
Fantasy or imagination (विकल्पः) is a thought pattern, that has verbal expression and knowledge, but for which there is no such object or reality in existence.
स न प्रमाणोपारोही, न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते, तद्यथा चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते ? भवति च व्यपदेशे वृत्तिः, यथा चैत्रस्य गौरिति । तथा प्रतिषिद्धवस्तुधर्मा निष्क्रियः पुरुषः, तिष्ठति बाणः, स्थास्यति, स्थित इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथानुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते, न पुरुषान्वयी धर्मः । तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥९॥
यथा –
(१) पुरुषस्य चैत्यन्यं स्वरूपम् अस्ति। यदा चैतन्यम् (उत चितिशक्तिः) एव पुरुषः अस्ति, तर्हि केन वस्तुना विशेषितं भवेत्? एवञ्च एवं प्रकारेण व्यपदेशे कृते सति (अर्थात् विशेषण-विशेष्य-भावस्य कथने कृते सति) अन्य-प्रकारस्य वृत्तिः भवति (अर्थात् ज्ञानम् एव भवति) । यथा - 'चैत्रस्य गौः' इत्युक्ते सति (वृत्तिः भवति यत्, 'गौः'-शब्दः विशेष्यः अस्ति, 'चैत्र'-शब्दश्च तस्य विशेषणम् अस्ति) ।
(२) एवमेव (अर्थात् 'चैतन्यं पुरुषस्य स्वरूपम् अस्ति' - एतस्याः वृत्तेः अनुसारं) वस्तुधर्मात् हीनः पुरुषः निष्क्रियः अस्ति।
(३) क - बाणः स्थितः अस्ति। ख - स्थितः भविष्यति। ग - स्थितः आसीत्। अत्र गतिनिवृत्तिपरकस्य धात्वर्थस्य एव बोधः भवति। (अत्र गतिनिवृत्त्यनुकूलक्रिया न भवति चेदपि विकल्पिता भवति। सा वस्तुरूपतया, भावात्मकरूपतया च विकल्पिता एव भवति। एवञ्च अत्र अन्यक्रियाणाम् अनुसारं पूर्वापरीभावः अपि विकल्पिकः भवति। एवं प्रकारेण अत्र त्रयोदश विकल्पाः सन्ति।)
( ४) तथैव 'उत्पत्तिधर्मरहितः पुरुषः अस्ति' । अत्र उत्पत्तिधर्मस्य अभाव एव बोधितः भवति। एषः ( अभावः ) पुरुषे विद्यमानः कश्चन धर्मः तु नास्ति एव। अत एव (पुरुषे) एतस्य अभावरूपिणः धर्मस्य वृत्तिः कल्पिता एव भवति, एतस्य कल्पितस्य धर्मस्य आधारेण व्यवहारः अपि भवति॥ ९ ॥
शब्द-ज्ञान-अनुपाती वस्तु-शून्यो विकल्पः। विकल्प-वृत्तिः तु वृत्तेः कश्चन प्रकारः।
• शब्द = word, sound, verbal expression
शब्दस्य ज्ञानं शब्दज्ञानम् (शाब्दबोधः)
• ज्ञान = by knowledge, knowing
• अनुपाती = following, in sequence, depending upon
तदनुपतितुम् अनुसर्तुं शीलमस्येति 'शब्दज्ञानानुपाती' - शाब्दबोधानुकारी
• वस्तु = a reality, real object, existent
• शून्यः = devoid, without, empty
शाब्दबोधस्य अनन्तरम् उत्पद्यमानः अस्ति, परन्तु वस्तुशून्यः' – निर्वस्तुकः अस्ति।
• विकल्पः = imagination, verbal misconception or delusion, fantasy, hallucination
|
समाधिपादः | ||
---|---|---|
१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः |
योगदर्शनम्
विकिस्रोतसि शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine
This article uses material from the Wikipedia संस्कृतम् article शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्), which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.