महम्मद् हनीफ् खान् शास्त्री

महम्मद् हनीफ् खान् शास्त्री भारतीयः संस्कृतविद्वान् सः २००९ तमे वर्षे न्याशनल् कम्यूनल् हार्मोनी पुरस्कारं प्राप्तवान्। भारतीयसर्वकारेण २०१९ तमे वर्षे साहित्यिक-शैक्षणिकक्षेत्रे पद्मश्रीः पुरस्कारेण च सभाजितः।

महम्मद् हनीफ् खान् शास्त्री
16-03-2019 तमे दिनाङ्के महम्मद् हनीफ् खान् शास्त्रिणे पद्मश्रीपुरस्कारं ददत् राष्ट्रपतिः रामनाथः कोविन्दः

बाल्यजीवनम्

हनीफ् खानः उत्तरप्रदेेशराज्यस्य सोनभद्रा मण्डले जन्म प्राप्तवान्। दूरदर्शने कस्मिंश्चित् सन्दर्शने सः वदति यत् मम परिवारे पञ्चमकक्ष्याम् उत्तीर्णः अहम् एक एव इति। तस्य गृहस्य स्थितिः अध्ययनानुकूला नासीत्। सः प्रौढशालायाम् अनुत्तीर्णः। तदा तस्य गुरुः पण्डितरतनलालशास्त्री प्रतिदिनं भगवद्गीतायाः एकम् अध्यायं पठतु इति प्रेरितवान्। एवम् आरब्धं भगवद्गीतापठनं भारतीयग्रन्थेषु तस्य रुचिम् अवर्धयत्। सः भारतीयग्रन्थान् पठित्वा तद्विषये अन्यान् बोधयति स्म च। एतेन तस्य संस्कृतपठनेऽपि रुचिः प्रवृद्धा। संस्कृतेन विना भगवद्गीतायाः तत्त्वं ग्रहीतुं न शक्यते इति सः अचिन्तयत्।

शिक्षणम्

हनीफ खानः वाराणस्यां सम्पूर्णानन्दविश्वविद्यालये संस्कृते शास्त्रिपदवीं(बि.ए) आचार्यपदवीं(एम्.ए) प्राप्तवान्। तस्य ऐच्छिकविषयः पुराणम् आसीत्। ततः गायत्रीमन्त्र-सुराफेतयोः अर्थानुसन्धानपुरस्सरं तुलनात्मकम् अध्ययनम् इति विषयमधिकृत्य विद्यावारिधिपदवीं(पी.एच् डि) अपि अलभत।अनन्तरंराष्ट्रियसंस्कृतसंस्थाने आचार्यः(प्रोफेसर्) आसीत्।

पुस्तकानि

महम्मद् हनीफ् खानस्य अष्टौ पुस्तकानि प्रकाशितानि सन्ति। यथा-

  • मोहनगीता
  • गीता एवं कुरान् में सामंजस्य
  • वेद और कुरान् से महामंत्र गायत्री और सुराह फतिहा
  • वेदों में मानवाधिखार
  • मेलजोल
  • महामंत्र गायत्री का बौद्धिक उपयोग
  • श्रीमद्भगवद्गीता और कुरान
  • विश्वबंधुत्व का प्रत्यक्ष प्रमाद

उल्लेखाः

Tags:

महम्मद् हनीफ् खान् शास्त्री बाल्यजीवनम्महम्मद् हनीफ् खान् शास्त्री शिक्षणम्महम्मद् हनीफ् खान् शास्त्री पुस्तकानिमहम्मद् हनीफ् खान् शास्त्री उल्लेखाःमहम्मद् हनीफ् खान् शास्त्रीसंस्कृत

🔥 Trending searches on Wiki संस्कृतम्:

अन्ताराष्ट्रीयमहिलादिनम्१००गौतमबुद्धःरघुवंशम्स्थूल अर्थशास्त्रमृच्छकटिकम्अष्टाध्यायीकजाखस्थानम्२३ मईमातृगया (सिद्धपुरम्)व्लादिमीर पुतिनहल्द्वानीऐश्वर्या रैसभापर्वयूरोपखण्डः९२५अद्वैतसिद्धिःतमिळभाषानवम्बरराष्ट्रियबालदिनम् (भारतम्)असहकारान्दोलनम्जेम्स ७ (स्काटलैंड)टुनिशिया२९४ऋग्वेदःभोजपुरी सिनेमादेहलीकाव्यप्रकाशःममता बनर्जी१७ दिसम्बरप्रथम कुमारगुप्तःस्याम्सङ्ग्पुराणम्१९०७कालिदासमैक्रोनीशियामार्कण्डेयःसेवफलम्क्रिकेट्-क्रीडासामाजिकमाध्यमानिविक्रमोर्वशीयम्यवद्वीपमौर्यसाम्राज्यम्वेदाङ्गम्काव्यम्माधवीसमासःमानवसञ्चारतन्त्रम्संयुक्ताधिराज्यम्संस्कृतभाषामहत्त्वम्काशिकामल्लक्रीडावसुदेवःसंन्यासं कर्मणां कृष्ण...वेणीसंहारम्अद्वैतवेदान्तःप्रशान्तमनसं ह्येनं...नेताजी सुभाषचन्द्र बोसउद्भटःअधिवर्षम्भाष्यनिबन्धकाराः२६४सेंड विन्सेन्ड ग्रेनदिनेश्चअन्ताराष्ट्रीययोगदिवसःशिशुपालवधम्नन्दवंशःरजतम्🡆 More