लक्षद्वीप: भारतस्य कश्चित् केन्द्रशासितः प्रदेशः अस्ति। एतत् भारतीयप्रशासनाधीनद्वीपानां समूहस्थानम् । अत्र ३६ द्वीपाः सन्ति । एतेषां द्वीपानां पाङ्क्तिः एव जले अतीव सुन्दरतया प्रकाशते । लक्षद्वीपस्य ल्याक्डीव् इति अपि नाम अस्ति । अस्य विस्तारः ५० चतुरस्रकि.मीमितः । शतशः द्वीपाः अत्र सन्ति । तेषु ५० द्वीपेषु केवलं जनाः निवसन्ति । एते द्वीपाः अग्निपर्वतैः निर्मिताः इति कथयन्ति । उत्तरभागे स्थितानां द्वीपानाम् अमिण्डिवि इति नाम अस्ति । मिनिकायद्वीपः एतेषु द्वीपेषु बृहत् अस्ति । एषः तिरुवनन्तपुरम् दिशि अस्ति । भारतीयाः अत्र मुक्ततया गत्वा आगच्छन्ति । अत्र बहुजनाः महम्मदीयाः सन्ति । विदेशीयानां अत्र गमनाय अनुमति पत्रम् आवश्यकम् अस्ति । अत्र विशेषाकर्षणम् सागरजले निमज्यखेलनं लक्ष्यद्वीपस्य राजधानी कवरट्टी अस्ति । अत्र नारिकेलवृक्षाणां वाटिकाः सन्ति । बङ्गारम् द्वीपे प्रवासिनाम् उपाहारगृहाणि सन्ति । अत्र स्कुबा डैविङ्ग् (जलस्य अन्तः प्रविश्य तरणम्), स्नोरकेलिङ्ग(नलिकायाः साहाय्येन जले तरणम्)च विशेषाः सन्ति ।
लक्षद्वीपाः ലക്ഷദ്വീപ് | |
— union territory — | |
निर्देशाङ्काः १०°३४′उत्तरदिक् ७२°३८′पूर्वदिक् / 10.57°उत्तरदिक् 72.63°पूर्वदिक् | |
देशः | भारतम् |
राज्यम् | Lakshadweep |
मण्डलम् | 1 |
Established | 1956-11-10 |
राजधानी | Kavaratti |
बृहत्तमं नगरम् | Andrott |
Administrator | Amar Nath IAS |
जनसङ्ख्या • सान्द्रता | ६४,४२९ • 2,013 /किमी2 (5,214 /वर्ग मील) |
मानवसंसाधनसूची (2005) | 0.796 (high) |
व्यावहारिकभाषा(ः) | Malayalam, English Mahl (Dhivehi) is spoken on Minicoy Island. |
---|---|
साम्प्रदायिकसमूहाः | ≈84.33% Malayali ≈15.67% Mahls |
समयवलयः | IST (UTC+05:30) |
विस्तीर्णम् | 32 वर्ग किलोमीटर (12 वर्ग मील) (1) |
ISO 3166-2 | IN-LD |
जालस्थानम् | www.lakshadweep.gov.in |
विमानसेवा, हेलिकाप्टरसेवा, नौकायानं च प्रतिदिनं कार्यरतानि सन्ति । अत्र गमनार्थम् प्रवासोद्यमविभागतः अनुमतिस्वीकारः आवश्यकः अस्ति ।
This article uses material from the Wikipedia संस्कृतम् article लक्षद्वीपाः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.