मन्त्रः (Mantra) वेदसम्बद्धः शब्दः। आपस्तम्बे प्रोक्तञ्च – ‘मन्त्रब्राह्मणयोर्वेदनामधेयम्॥' येन हि यज्ञयागानामनुष्ठानं निष्पन्नतामुपैति देवतानाञ्च स्तुतिविधानं यत्रोल्लिखितमस्ति, स मननात् मन्त्र इत्युच्यते । मननात् त्रायते इति मन्त्रः। केचन विख्याता: मन्रा: -
सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्राः सन्ति । तेषु ७५ मन्त्राः ईदृशाः सन्ति ये ‘ऋग्वेदे' न प्राप्यन्ते, शेषाः सर्वे उभयवेदसाधारणाः । सामवेदागतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः । एतावानेवोभयवेदसाधारणानां सामवेदमन्त्राणाम् ऋग्वेदमन्त्रेभ्यो भेदः।
वेदार्थानुशीलनस्य प्रथमः सोपानः पदपाठ एवाऽस्ति । वैदिकमन्त्राणां पदपाठं विना तेषामर्थज्ञानं कदापि भवितु न शक्नोति। अस्मै पदपाठाय व्याकरणस्य नियमानामाविष्कारः पूर्वमेवाऽभवत् । शाकल्यः ऋग्वेदस्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम आत्रेयोऽस्ति। गार्ग्यः सामवेदस्य पदकारः अस्ति।
विभिन्नेषु पदकर्तृषु नास्ति ऐकमत्यम् । प्राचीनकाले अस्मिन् विषये कोऽपि परम्परा आसीत् इत्यनुमीयते । आदित्यशब्दस्य विषये निरुतस्य भाष्यकारेण स्कन्दस्वामिना उक्तम् —
'शाकल्यात्रेयप्रभूतिभिर्नावगृहीतम्; पूर्वनिर्वचनाभिप्रायेण। गार्ग्यप्रभूतिभिरवगृहीतम् । विचित्राः पदकाराणामभिप्रायाः ॥ क्वचिदुपसर्गविषयेऽपि नावगृह्णन्ति, यथा शाकल्येन 'अधिवासन्' इति नावगृहीतम्, आत्रेयेण तु अधिवासमिति अवगृहीतम्' ( २॥१३ ॥ )
स्कन्दस्वामिनोऽभिप्रायः अयमेवास्ति यत्, दकाराणां तात्पर्यमपि विचित्रमेव भवति । उपसर्गानन्तरं कोऽपि पदकारः ‘अवग्रहं’ न ददाति, कोऽपि यच्छति सामान्यनियमेन एव । ‘अधिवासः' इति पदे शाकल्यस्तु अवग्रहं न मन्यते, आत्रेयस्तु मन्यते एव इति।
This article uses material from the Wikipedia संस्कृतम् article मन्त्रः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.