बलोच, बलौच उत बलूचजनाः दक्षिणपश्चिमीयस्य पाकिस्थानस्य बलोचिस्थान-प्रान्तस्य, ईरान-देशस्य सिस्थान व बलूचेस्थान-प्रान्ते निवस्यमाना जनजातौ अन्तर्भवन्ति। एते बलोचभाषां वदन्ति, या ईरानी-भाषा-परिवारस्य अस्ति, तत्र अति-प्राचीनायाः अवस्ताई-भाषायाः प्रभावः दृश्यते, या स्वयं वैदिकसंस्कृतस्य समीपवर्तिनी भाषा आसीत्। बलोच-जनाः वन्यसमूहेषु सङ्गठिताः भवन्ति। ते पर्वतीयक्षेत्रेषु, रणक्षेत्रेषु च निवसन्ति। तान् परितः विद्यमानेभ्यः समुदायेभ्यः तेषां परिचयः पूर्णतया भिन्नः विद्यते। ब्राहुई-नामकः कश्चन समुदायः अपि बलोच-जनजातेः मन्यते। परन्तु ते द्रविड-भाषापरिवारस्य ब्राहुई-नामक-भाषां वदन्ति।
२००९ वर्षे बलोच-जनानाम् आहत्य जनसङ्ख्या ९० लक्षं यावत् मन्यते स्म। तेषु अनुमानतः ६०% पाकिस्थानस्य बलोचिस्थान-प्रान्ते, २५% ईरान-देशस्य सिस्थान-प्रान्ते एवञ्च बलूचेस्थान-प्रान्ते निवसन्ति। पाकिस्थानस्य सिन्ध-प्रान्तस्य, पञ्जाबप्रान्तस्य दक्षिणीभागे अपि अनेके बलोच-जनजातिजनाः निवसन्ति। अफगानिस्थान-तुर्कमेनिस्थान-ओमान-बहरीन-कुवैत-अफ्रीका-देशानां केषुचित् भागेषु बलोच-जनाः प्राप्यन्ते। बलोच-जनाः मुख्यतया सुन्नी-इस्लाम-सम्प्रदायस्य अनुयायिनः भवन्ति। ईरान-देशे शिया-मुस्लिम-जनानां बहुमतम् अस्ति, अतः तत्र तेषां भिन्नः धार्मिकपरिचयः वर्तते।
बलोचजनजातेः केचन मुख्य-वन्यसमूहाः निम्नानुसारं सन्ति:
बलोच-पुरुषः शलवार-कमीझ-वस्त्रं धरते। एवञ्च बलोच-शरस्कम् अपि विशेषतया धरते। बलोचमहिला चोगे, लेहंगा इत्येत् वस्त्रं धरते। तस्मिन् सा बहुधा काचस्य खण्डेन कलाकृतिं करोति। महिला स्वस्य शिरसि "सरिग"-नामकं वस्त्रम् आच्छादयति। अत्र महिलासु आभूषणम् अपि अतीव लोकप्रियं वर्तते, मुख्यतया कर्णयोः "दोर"-नामकं भारयुक्तं कुण्डलं धरते। तत् मुख्यतया तनु-सुवर्णतन्तुना बद्धं भवति, येन भारेण कर्णयोः हानिः न भवेत्। महिला स्वस्य चोगे-वस्त्रं सम्मुखात् पिदधातुं "तसनी"-नामकस्य सुवर्णस्य आभूषणस्य उपयोगं करोति।
बलोचजनेषु धार्मिक-कट्टरवादः अतीव वर्तते। राष्ट्रीयतायाः भावना अपि अतीव प्रबला भवति। बलोचिस्थानस्य वासिनां ईरानी-देशस्य, पाकिस्थानदेशस्य च भागेभ्यः विभाजनात्मक-विद्रोहः कालान्तरे प्रचलति। ईरान-देशे शिया-सुन्नी-विभाजनत्वात् तेषु भिन्नतायाः भावना अस्ति। गायनं, वादनं च बलोच-संस्कृतेः अतीव महत्त्वपूर्णः भागः वर्तते। तत्र ढोलस्य प्रयोगः अधिकः दृश्यते। (तस्य बलोचिस्थानीयभाषायां दोहोल इति नाम वर्तते)।
This article uses material from the Wikipedia संस्कृतम् article बलोचजनाः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.