न हि ज्ञानेन सदृशं...

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टात्रिंशत्तमः (३८) श्लोकः ।

श्लोकः

न हि ज्ञानेन सदृशं... 
गीतोपदेशः
    न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
    तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥

पदच्छेदः

न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥

अन्वयः

ज्ञानेन सदृशं पवित्रम् इह नहि विद्यते । तत् स्वयं योगसंसिद्धः कालेन आत्मनि विन्दति । ।

शब्दार्थः

    ज्ञानेन = ब्रह्मज्ञानेन
    सदृशम् = तुल्यम्
    पवित्रम् = पावनम्
    इह = अत्र
    नहि विद्यते = नास्ति
    तत् = ज्ञानम्
    स्वयम् = आत्मना एव
    योगसंसिद्धः = समाधिनिः
    कालेन = महता समयेन
    आत्मनि = स्वस्मिन्
    विन्दति = लभते ।

अर्थः

इह लोके ज्ञानेन समं पवित्रम् अन्यत् न किञ्चन विद्यते । तत् ज्ञानं फलापेक्षां विना कर्म कुर्वन् पुरुषः गच्छता कालेन चित्तशुद्धिम् अवाप्य स्वयमेव आत्मनि प्राप्नोति ।

शाङ्करभाष्यम्

यत एवमतो-नहीति। नहि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरमिह विद्यते। तज्ज्ञानं स्वयमेव योगसंसिद्धो योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतोयोग्यतामापन्नो मुमुक्षुः कालेन महता त्मनि विन्दति। लभत इत्यर्थः।।38।।


श्रीमद्भगवद्गीतायाः श्लोकाः
न हि ज्ञानेन सदृशं...  पूर्वतनः
यथैधांसि समिद्धोऽग्निः...
न हि ज्ञानेन सदृशं... अग्रिमः
श्रद्धावॉंल्लभते ज्ञानं...
न हि ज्ञानेन सदृशं... 
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं... २)एवं परम्पराप्राप्तम्... ३)स एवायं मया तेऽद्य... ४)अपरं भवतो जन्म... ५)बहूनि मे व्यतीतानि... ६)अजोऽपि सन्नव्ययात्मा... ७)यदा यदा हि धर्मस्य... ८)परित्राणाय साधूनां... ९)जन्म कर्म च मे दिव्यम्... १०)वीतरागभयक्रोधा... ११)ये यथा मां प्रपद्यन्ते... १२)काङ्क्षन्तः कर्मणां सिद्धिं... १३)चातुर्वर्ण्यं मया सृष्टं... १४)न मां कर्माणि लिम्पन्ति... १५)एवं ज्ञात्वा कृतं कर्म... १६)किं कर्म किमकर्मेति... १७)कर्मणो ह्यपि बोद्धव्यं... १८)कर्मण्यकर्म यः पश्येद्... १९)यस्य सर्वे समारम्भाः... २०)त्यक्त्वा कर्मफलासङ्गं... २१)निराशीर्यतचित्तात्मा... २२)यदृच्छालाभसन्तुष्टो... २३)गतसङ्गस्य मुक्तस्य... २४)ब्रह्मार्पणं ब्रह्म हविः... २५)दैवमेवापरे यज्ञं... २६)श्रोत्रादीनीन्द्रियाण्यन्ये... २७)सर्वाणीन्द्रियकर्माणि... २८)द्रव्ययज्ञास्तपोयज्ञा... २९)अपाने जुह्वति प्राणं... ३०)अपरे नियताहाराः... ३१)यज्ञशिष्टामृतभुजो... ३२)एवं बहुविधा यज्ञा... ३३)श्रेयान्द्रव्यमयाद्यज्ञात्... ३४)तद्विद्धि प्रणिपातेन... ३५)यज्ज्ञात्वा न पुनर्मोहम्... ३६)अपि चेदसि पापेभ्यः... ३७)यथैधांसि समिद्धोऽग्निः... ३८)न हि ज्ञानेन सदृशं... ३९)श्रद्धावॉंल्लभते ज्ञानं... ४०)अज्ञश्चाश्रद्दधानश्च... ४१)योगसंन्यस्तकर्माणं... ४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

न हि ज्ञानेन सदृशं... श्लोकःन हि ज्ञानेन सदृशं... पदच्छेदःन हि ज्ञानेन सदृशं... अन्वयःन हि ज्ञानेन सदृशं... शब्दार्थःन हि ज्ञानेन सदृशं... अर्थःन हि ज्ञानेन सदृशं... शाङ्करभाष्यम्न हि ज्ञानेन सदृशं... सम्बद्धाः लेखाःन हि ज्ञानेन सदृशं... बाह्यसम्पर्कतन्तुःन हि ज्ञानेन सदृशं... उद्धरणम्न हि ज्ञानेन सदृशं... अधिकवाचनायन हि ज्ञानेन सदृशं...

🔥 Trending searches on Wiki संस्कृतम्:

पारस्करगृह्यसूत्रम्११३८रूप्यकम्वेदान्तदेशिकःइण्डोनेशियारिच्मन्ड्संस्कृतभारत्याः कार्यपद्धतिःमनःचार्वाकदर्शनम्अभिषेकनाटकम्९०५प्राचीनरसतन्त्रम्१८६९कर्मण्येवाधिकारस्ते...१५७४मदर् तेरेसा१६०२दिशा पटानीमङ्गलःमुम्बईस्वामी विवेकानन्दःघ्इन्द्रियाणां हि चरतां...ज्ञानम्पञ्चगव्यम्वाशिङ्टन्१९०२स्पेन्हिन्द-यूरोपीयभाषाः२०१२सितम्बर २१सुन्दरकाण्डम्जर्मनभाषातपस्विभ्योऽधिको योगी...क्रीडाविशाखानीतिशतकम्प्राणायामःरघुवंशम्मेलबॉर्नमत्त (तालः)संशोधनस्य प्रयोजनानिहिन्दूधर्मःसंभेपूस्वसाट्यूपनादिर-शाहःसाहित्यदर्पणःशिक्षाशास्त्रस्य इतिहासःभारतीयदर्शनशास्त्रम्२१३इतिहासःअन्तर्जालम्देशबन्धश्चित्तस्य धारणापाणिनीया शिक्षातुर्कीवास्तुविद्यासितम्बरकोपनहागनसंस्कृतभाषामहत्त्वम्त्वमेव माता च पिता त्वमेव इतिमार्टिन राइलविनायक दामोदर सावरकरमहात्मा गान्धीमिका अल्टोला🡆 More