यदा यदा हि धर्मस्य...: भगवद्गीतायाः श्लोकः ४.७

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य ७ (७) श्लोकः ।

श्लोकः

यदा यदा हि धर्मस्य...: श्लोकः, पदच्छेदः, अन्वयः 
गीतोपदेशः
    यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
    अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥

पदच्छेदः

यदा यदा हि धर्मस्य ग्लानिः भवति भारत अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम् ॥ ७ ॥

अन्वयः

भारत ! यदा यदा धर्मस्य ग्लानिः, अधर्मस्य च अभ्युत्थानं भवति तदा अहम् आत्मानं सृजामि ।

शब्दार्थः

    भारत = अर्जुन !
    यदा यदा = यस्मिन् यस्मिन् काले
    धर्मस्य = धर्मस्य
    ग्लानिः = हानिः
    अधर्मस्य = अधर्मस्य
    अभ्युत्थानम् = वर्धनम्
    भवति = सम्पद्यते
    तदा = तस्मिन् काले
    अहम् = अहम्
    आत्मानम् = स्वम्
    सृजामि = प्रकाशयामि ।

अर्थः

हे अर्जुन ! यदा यदा धर्मस्य हानिः अधर्मस्य आधिक्यं च सम्भवति तदा अहम् आत्मानं लोकाय प्रकाशयामि । निराकारोऽपि साकारः भविष्यामि ।

शाङ्करभाष्यम्

तच्च जन्मं कदा किमर्थं चेत्यिच्यते-यदेति। यदा यदा हि धर्मस्य ग्लानिर्हानिर्वर्णाश्रमादिलक्षणस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति भारत, अभ्युत्थानमुद्भवोऽधर्मस्यतदा तदात्मानं सृजाम्यहं मायया।।7।।


श्रीमद्भगवद्गीतायाः श्लोकाः
यदा यदा हि धर्मस्य...: श्लोकः, पदच्छेदः, अन्वयः  पूर्वतनः
अजोऽपि सन्नव्ययात्मा...
यदा यदा हि धर्मस्य... अग्रिमः
परित्राणाय साधूनां...
यदा यदा हि धर्मस्य...: श्लोकः, पदच्छेदः, अन्वयः 
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं... २)एवं परम्पराप्राप्तम्... ३)स एवायं मया तेऽद्य... ४)अपरं भवतो जन्म... ५)बहूनि मे व्यतीतानि... ६)अजोऽपि सन्नव्ययात्मा... ७)यदा यदा हि धर्मस्य... ८)परित्राणाय साधूनां... ९)जन्म कर्म च मे दिव्यम्... १०)वीतरागभयक्रोधा... ११)ये यथा मां प्रपद्यन्ते... १२)काङ्क्षन्तः कर्मणां सिद्धिं... १३)चातुर्वर्ण्यं मया सृष्टं... १४)न मां कर्माणि लिम्पन्ति... १५)एवं ज्ञात्वा कृतं कर्म... १६)किं कर्म किमकर्मेति... १७)कर्मणो ह्यपि बोद्धव्यं... १८)कर्मण्यकर्म यः पश्येद्... १९)यस्य सर्वे समारम्भाः... २०)त्यक्त्वा कर्मफलासङ्गं... २१)निराशीर्यतचित्तात्मा... २२)यदृच्छालाभसन्तुष्टो... २३)गतसङ्गस्य मुक्तस्य... २४)ब्रह्मार्पणं ब्रह्म हविः... २५)दैवमेवापरे यज्ञं... २६)श्रोत्रादीनीन्द्रियाण्यन्ये... २७)सर्वाणीन्द्रियकर्माणि... २८)द्रव्ययज्ञास्तपोयज्ञा... २९)अपाने जुह्वति प्राणं... ३०)अपरे नियताहाराः... ३१)यज्ञशिष्टामृतभुजो... ३२)एवं बहुविधा यज्ञा... ३३)श्रेयान्द्रव्यमयाद्यज्ञात्... ३४)तद्विद्धि प्रणिपातेन... ३५)यज्ज्ञात्वा न पुनर्मोहम्... ३६)अपि चेदसि पापेभ्यः... ३७)यथैधांसि समिद्धोऽग्निः... ३८)न हि ज्ञानेन सदृशं... ३९)श्रद्धावॉंल्लभते ज्ञानं... ४०)अज्ञश्चाश्रद्दधानश्च... ४१)योगसंन्यस्तकर्माणं... ४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

यदा यदा हि धर्मस्य... श्लोकःयदा यदा हि धर्मस्य... पदच्छेदःयदा यदा हि धर्मस्य... अन्वयःयदा यदा हि धर्मस्य... शब्दार्थःयदा यदा हि धर्मस्य... अर्थःयदा यदा हि धर्मस्य... शाङ्करभाष्यम्यदा यदा हि धर्मस्य... सम्बद्धाः लेखाःयदा यदा हि धर्मस्य... बाह्यसम्पर्कतन्तुःयदा यदा हि धर्मस्य... उद्धरणम्यदा यदा हि धर्मस्य... अधिकवाचनाययदा यदा हि धर्मस्य...

🔥 Trending searches on Wiki संस्कृतम्:

शुकमुनिःअद्वैतसिद्धिःपरिसरविज्ञानम्द्रौपदीपुर्तगालजून ११आस्ट्रेलियाशाकानि७४७न चैतद्विद्मः कतरन्नो गरीयो...१५१७कुन्तकःवैदिकसाहित्यम्अद्वैतवेदान्तःज्योतिषम्सीताजलम्एप्पल्१३२९मराठीभाषाशबरस्वामी2.26 विवेकख्यातिरविप्लवा हानोपायःप्राचीन-वंशावली०४. ज्ञानकर्मसंन्यासयोगः२१ दिसम्बरलाओसइन्द्रवज्राछन्दःमोहनदास करमचन्द गान्धीयन्त्रशास्त्रम्भगत सिंहयोगदर्शनस्य इतिहासःफेस्बुक्पक्षतामध्वसिद्धान्तः७९केनडाट्विटरविश्ववारासंहितालवणम्अभिज्ञानशाकुन्तलम्फलानिअष्टाङ्गयोगःवृत्तिःपारस्परिकनिधिःरघुवंशम्विश्वस्वास्थ्यसंस्था१८८७ज्योतिषशास्त्रम्पाकिस्थानम्षष्ठीललिताइटलीएम् एन् श्रीनिवासदातव्यमिति यद्दानं...प्लूटो-ग्रहःह्यूगो द व्रीस्दिसम्बर १९३३५अरुण शौरीब्राह्मीलिपिःगिओन्कुमारसम्भवम्नरेन्द्र सिंह नेगीरक्तदुर्गम् (आग्रा)कणादःविनायक दामोदर सावरकरमुण्डकोपनिषत्ए आर् रहमान्केन्‍टकीपी एच् पी१७९०🡆 More