न कर्तृत्वं न कर्माणि...

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्दशः (१४) श्लोकः ।

श्लोकः

न कर्तृत्वं न कर्माणि... 
गीतोपदेशः
    न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
    न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

पदच्छेदः

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगं स्वभावः तु प्रवर्तते ॥ १४ ॥

अन्वयः

प्रभुः लोकस्य कर्तृत्वं न सृजति । कर्माणि न, कर्मफलसंयोगं न । स्वभावः तु प्रवर्तते ।

शब्दार्थः

    प्रभुः = परमात्मा
    लोकस्य = जनस्य
    कर्तृत्वम् = विधातृत्वम्
    न सृजति = न करोति
    कर्माणि = कर्तव्यानि
    न = न करोति
    कर्मफलसंयोगम् = कर्मप्रयोजनयोः सम्बन्धम्
    न = न कुरुते
    स्वभावः तु = अविद्या तु
    प्रवर्तते = प्रचरति ।

अर्थः

परमात्मा लोकस्य कर्तृत्वं न उत्पादयति । कर्माणि अपि न सृजति । कर्मफलसंयोगमपि न जनयति । अविद्यालक्षणा प्रकृतिः प्रवर्तते ।

शाङ्करभाष्यम्

न कर्तृत्वमिति। न कर्तृत्वं स्वतः कुर्विति नापि कर्माणि रथघटप्रासादादीनीप्सिततमानि लोकस्य सृजत्युत्पादयति प्रभुरात्मा नापि रथादिकृतवतस्तत्फलेन संयोगं नकर्मफलसंयोगम्। यदि किंचिदपि स्वतो न करोति न कारयति च देही कस्तर्हि कुर्वन्कारयंश्च प्रवर्तत इत्युच्यते। स्वभावस्तु स्वो भावः स्वभावोऽविद्यालक्षणा प्रकृतिर्मायाप्रवर्तते दैवी हीत्यदिना वक्ष्यमाणा ।।14।।


श्रीमद्भगवद्गीतायाः श्लोकाः
न कर्तृत्वं न कर्माणि...  पूर्वतनः
सर्वकर्माणि मनसा...
न कर्तृत्वं न कर्माणि... अग्रिमः
नादत्ते कस्यचित्पापं...
न कर्तृत्वं न कर्माणि... 
न कर्तृत्वं न कर्माणि...

१)संन्यासं कर्मणां कृष्ण... २)संन्यासः कर्मयोगश्च... ३)ज्ञेयः स नित्यसंन्यासी... ४)साङ्ख्ययोगौ पृथग्बालाः... ५)यत्साङ्ख्यैः प्राप्यते स्थानं... ६)संन्यासस्तु महाबाहो... ७)योगयुक्तो विशुद्धात्मा... ८)नैव किञ्चित्करोमीति... ९)प्रलपन्विसृजन्गृह्णन्... १०)ब्रह्मण्याधाय कर्माणि... ११)कायेन मनसा बुद्ध्या... १२)युक्तः कर्मफलं त्यक्त्वा... १३)सर्वकर्माणि मनसा... १४)न कर्तृत्वं न कर्माणि... १५)नादत्ते कस्यचित्पापं... १६)ज्ञानेन तु तदज्ञानं... १७)तद्बुद्धयस्तदात्मानः १८)विद्याविनयसम्पन्ने... १९)इहैव तैर्जितः सर्गो... २०)न प्रहृष्येत्प्रियं प्राप्य... २१)बाह्यस्पर्शेष्वसक्तात्मा... २२)ये हि संस्पर्शजा भोगाः... २३)शक्नोतीहैव यः सोढुं... २४)योऽन्तःसुखोऽन्तरारामः... २५)लभन्ते ब्रह्मनिर्वाणम्... २६)कामक्रोधवियुक्तानां... २७)स्पर्शान्कृत्वा बहिर्बाह्यान्... २८)यतेन्द्रियमनोबुद्धिः... २९)भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

न कर्तृत्वं न कर्माणि... श्लोकःन कर्तृत्वं न कर्माणि... पदच्छेदःन कर्तृत्वं न कर्माणि... अन्वयःन कर्तृत्वं न कर्माणि... शब्दार्थःन कर्तृत्वं न कर्माणि... अर्थःन कर्तृत्वं न कर्माणि... शाङ्करभाष्यम्न कर्तृत्वं न कर्माणि... सम्बद्धाः लेखाःन कर्तृत्वं न कर्माणि... बाह्यसम्पर्कतन्तुःन कर्तृत्वं न कर्माणि... उद्धरणम्न कर्तृत्वं न कर्माणि... अधिकवाचनायन कर्तृत्वं न कर्माणि...

🔥 Trending searches on Wiki संस्कृतम्:

भाषाविज्ञानम्त्वमेव माता च पिता त्वमेव इतिचार्वाकदर्शनम्सितम्बर २१देवनागरीअग्रिजेन्तोजेम्स ७ (स्काटलैंड)भारतस्य संविधानम्गाम्बिया२०१०रत्नावलीरामःरवीना टंडनभारविः१५४२श्रीनिवासरामानुजन्वाल्मीकिःउपनिषद्कालिदासःअन्ताराष्ट्रियः व्यापारःमदर् तेरेसा१८५३२११रीतिसम्प्रदायः१८२६शुनकःफिनिक्स्, ऍरिझोनाअथ केन प्रयुक्तोऽयं...सामवेदःविशाखाजर्मनभाषानक्षत्रम्हितोपदेशःसेम पित्रोडाभक्तियोगःमीमांसादर्शनम्धर्मःवायुमण्डलम्अर्थशास्त्रम् (शास्त्रम्)दिसम्बर ३१शुक्लरास्याअरिस्टाटल्स्वास्थ्यम्१३८७रामपाणिवादः३१ अक्तूबर१४०रामायणम्१४३१पञ्चतन्त्रम्मुङ्गारु मळे (चलच्चित्रम्)मिकी माउसपारदः१४४८१६४८५ दिसम्बरईरानरिच्मन्ड्ऐडॉल्फ् हिटलर्क्षमा राववास्तुविद्या४४४३२कर्मण्येवाधिकारस्ते...संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्इन्दिरा गान्धी🡆 More