नादत्ते कस्यचित्पापं...

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चदशः (१५) श्लोकः ।

श्लोकः

नादत्ते कस्यचित्पापं... 
गीतोपदेशः
    नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
    अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥

पदच्छेदः

न आदत्ते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥

अन्वयः

विभुः कस्यचित् पापं न आदत्ते । सुकृतं च एव न । ज्ञानम् अज्ञानेन आवृतम् । तेन जन्तवः मुह्यन्ति ।

शब्दार्थः

    विभुः = परमेश्वरः
    कस्यचित् = कस्यचिदपि जीवस्य
    पापम् = दुरितम्
    न आदत्ते = न स्वीकरोति
    सुकृतं च = पुण्यमपि
    न एव = नैव स्वीकरोति
    ज्ञानम् = ज्ञानम्
    अज्ञानेन = अज्ञानेन
    आवृतम् = आच्छन्नम्
    तेन = तेन
    जन्तवः = जीवाः
    मुह्यन्ति = मोहं प्रप्नुवन्ति ।

अर्थः

परमात्मा कस्यापि जीवस्य पापं पुण्यं वा नैव गृाति । अज्ञानेन ज्ञानम् आवृतं भवति । तेन सर्वेऽपि जन्तवः मोहम् उपगच्छन्ति ।

शाङ्करभाष्यम्

परार्थतस्तु-नादत्ते नच गृह्णति भक्तस्यापि कस्याचित्पापं न चैवादत्ते सुकृतं भक्तैः प्रयुक्तं विभुः। किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतंमप्रयुज्यत इत्याह-अज्ञानेनावृतं ज्ञानं विवेकविज्ञानं तेन विवेकविज्ञानं तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्येवं मोहं गच्छन्त्यविवेकिनः संसारिणोजन्तूनां विवेकज्ञानेनात्मविषयेण नाशितमात्मनो भवति तेषामादित्यवद्यथादित्यःसमस्तं रूपजातमवभासयति तद्वज्ज्ञानं ज्ञेयं च वस्तु सर्वं प्रकाशयति तत्परमार्थतत्त्वम् ।।15।।


श्रीमद्भगवद्गीतायाः श्लोकाः
नादत्ते कस्यचित्पापं...  पूर्वतनः
न कर्तृत्वं न कर्माणि...
नादत्ते कस्यचित्पापं... अग्रिमः
ज्ञानेन तु तदज्ञानं...
नादत्ते कस्यचित्पापं... 
नादत्ते कस्यचित्पापं...

१)संन्यासं कर्मणां कृष्ण... २)संन्यासः कर्मयोगश्च... ३)ज्ञेयः स नित्यसंन्यासी... ४)साङ्ख्ययोगौ पृथग्बालाः... ५)यत्साङ्ख्यैः प्राप्यते स्थानं... ६)संन्यासस्तु महाबाहो... ७)योगयुक्तो विशुद्धात्मा... ८)नैव किञ्चित्करोमीति... ९)प्रलपन्विसृजन्गृह्णन्... १०)ब्रह्मण्याधाय कर्माणि... ११)कायेन मनसा बुद्ध्या... १२)युक्तः कर्मफलं त्यक्त्वा... १३)सर्वकर्माणि मनसा... १४)न कर्तृत्वं न कर्माणि... १५)नादत्ते कस्यचित्पापं... १६)ज्ञानेन तु तदज्ञानं... १७)तद्बुद्धयस्तदात्मानः १८)विद्याविनयसम्पन्ने... १९)इहैव तैर्जितः सर्गो... २०)न प्रहृष्येत्प्रियं प्राप्य... २१)बाह्यस्पर्शेष्वसक्तात्मा... २२)ये हि संस्पर्शजा भोगाः... २३)शक्नोतीहैव यः सोढुं... २४)योऽन्तःसुखोऽन्तरारामः... २५)लभन्ते ब्रह्मनिर्वाणम्... २६)कामक्रोधवियुक्तानां... २७)स्पर्शान्कृत्वा बहिर्बाह्यान्... २८)यतेन्द्रियमनोबुद्धिः... २९)भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

नादत्ते कस्यचित्पापं... श्लोकःनादत्ते कस्यचित्पापं... पदच्छेदःनादत्ते कस्यचित्पापं... अन्वयःनादत्ते कस्यचित्पापं... शब्दार्थःनादत्ते कस्यचित्पापं... अर्थःनादत्ते कस्यचित्पापं... शाङ्करभाष्यम्नादत्ते कस्यचित्पापं... सम्बद्धाः लेखाःनादत्ते कस्यचित्पापं... बाह्यसम्पर्कतन्तुःनादत्ते कस्यचित्पापं... उद्धरणम्नादत्ते कस्यचित्पापं... अधिकवाचनायनादत्ते कस्यचित्पापं...

🔥 Trending searches on Wiki संस्कृतम्:

अर्थःगेन्जी इत्यस्य कथाहिन्दीरवीना टंडनचीनीभाषाआर्यभटःअथ योगानुशासनम् (योगसूत्रम्)११३७अपि चेदसि पापेभ्यः...ज्येष्ठालाला लाजपत रायसेम पित्रोडाभारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःनवरात्रम्कफःविश्ववाराअथ केन प्रयुक्तोऽयं...अमरकोशःउपनिषद्इस्रेलम्मार्टिन राइलअशोकःवाशिङ्टन्बुधवासरःफिनिक्स्, ऍरिझोनासचिन तेण्डुलकर१२ फरवरीसामवेदःसंस्काराःनादिर-शाहःद्यज्ञःविज्ञानम्नवम्बर १८आस्ट्रेलियासंयुक्ताधिराज्यम्प्राचीनरसतन्त्रम्मई १५१८५३दीवजैनधर्मः१२१३सरदार वल्लभभाई पटेलदेशबन्धश्चित्तस्य धारणाभगवद्गीताविक्रमोर्वशीयम्संस्कृतभाषामहत्त्वम्लेलिह्यसे ग्रसमानः...सुन्दरकाण्डम्स्वास्थ्यम्तुलसीदासःवायुमण्डलम्उपमालङ्कारःयदा यदा हि धर्मस्य...५ दिसम्बरजलम्रजतम्अथर्ववेदःजुलाईवेदःद्युतिशक्तिःमईफरवरी ३माण्डूक्योपनिषत्इन्दिरा गान्धीपी टी उषाइतिहासःजैनदर्शनम्इष्टान्भोगान् हि वो देवा...योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)मन्त्रः🡆 More