नान्देडमण्डलम्

नान्देडमण्डलं (मराठी: नान्देड जिल्हा, आङ्ग्ल: Nanded District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नान्देड इत्येतन्नगरम् | मण्डलमिदं 'नान्देड गुरुद्वारा' इति सिक्खसम्प्रदायिनां स्थानार्थं प्रसिद्धम् ।

नान्देडमण्डलम्

Nanded District

नान्देड जिल्हा
मण्डलम्
महाराष्ट्रराज्ये नान्देडमण्डलम्
महाराष्ट्रराज्ये नान्देडमण्डलम्
देशः नान्देडमण्डलम् India
जिल्हा नान्देडमण्डलम्
उपमण्डलानि अर्धापूर, भोकर, बिलोली, देगलूर, धर्माबाद, हदगाव, हिमायतनगर, कंधार, किनवट, लोहा, माहूर, मुदखेड, मुखेड, नांदेड, नायगाव, उमरी
विस्तारः १०,४२२ च.कि.मी.
जनसङ्ख्या(२०११) ३३,६१,२९२
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://nanded.nic.in
सचखण्डगुरुद्वारा
सचखण्डगुरुद्वारा
नान्देडमण्डलम्
देवी-रेणुका
नान्देडमण्डलम्
सिद्धेश्वरमन्दिरम्
नान्देडमण्डलम्
कन्धारगड कोटः

इतिहासः

महाराष्ट्रराज्यस्य मराठवाडा-विभागे स्थितम्, ऐतिहासिकदृष्ट्याऽपि महत्त्वपूर्णं मण्डलमिदम् । महिमभट्टस्य 'लिळाचरित्रम्' इत्यस्मिन् ग्रन्थे नान्देडविभागस्य उल्लेखः लभ्यते । नान्देडविभागपरिसरे सातवाहन-चालुक्य-राष्ट्रकूट-देवगिरियादव-बहामनीराजानाम् आधिपत्यमासीत् । यदा औरङ्गजेब दख्खनाधिपत्ये आसीत् तदा नान्देडप्रदेशस्य अपि समावेशः आसीत् तस्मिन् । अनन्तरं परिसरोऽयं 'तेलङ्गाणा'विभागे समाविष्टः जातः । औरङ्गजेब इत्यस्य मृत्योः अनन्तरं औरङ्गजेब-पुत्रेण सह सिक्खपन्थीयानां दशमः गुरूः गुरुगोविन्दसिंहः अत्र आगत्य निवासं कृतवान् । तदा सः अत्रस्थानां सिक्खसम्प्रदायिनां मार्गदर्शनं कृतवान् । सः तस्य जीवनस्य अन्तिमकाले नान्देडमण्डले आसीत् । अस्य स्मृत्यर्थं नान्देडस्थाने गुरुद्वाराणां निर्माणं जातम् । तदनन्तरम् अयं प्रदेशः हैदराबाद-संस्थाने समाविष्टः । स्वातन्त्र्योत्तर-काले महाराष्ट्रराज्ये मण्डलत्वेन इदं समाविष्टम् ।

भौगोलिकम्

नान्देडमण्डलस्य विस्तारः १०,४२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि आन्ध्रप्रदेशराज्यं, पश्चिमदिशि लातूरमण्डलं, परभणीमण्डलं च, उत्तरदिशि यवतमाळमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्मिन् मण्डले ९५४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी गोदावरी नदी अस्ति । मण्डलस्य उत्तर-ईशान्यभागयोः सातमाळपर्वतावलिः, मुदखेड उपशैलाः सन्ति ।


कृष्युत्पादनम्

आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । खरीप-ऋतौ यवनालः(ज्वारी), कार्पासः, सोयाबीन, 'तूर', माषः, कलायः, कुसुम्भं(करडई), शमा(जवस), मुद्गः, मरीचिका, कदलीफलम्, इक्षुः इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूमः, चणकः, यवनालः (ज्वारी), 'करडई' इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । वनपूरितपर्वतेषु शाकोटकवृक्षाः(साग), वंशवृक्षः(bamboo) च सन्ति । बीडमण्डलेऽपि कृषिः वृष्ट्यअवलम्बिताऽस्ति ।

जनसङ्ख्या

नान्देडमण्डलस्य जनसङ्ख्या(२०११) ३३,६१,२९२ अस्ति । अस्मिन् १७,३०,०७५ पुरुषाः १६,३१,२१७ महिलाः सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.८४% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९४३ अस्ति । अत्र साक्षरता ७५.४५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षोडश-उपमण्डलानि सन्ति । तानि-

१ अर्धापूर २ भोकर ३ बिलोली ४ देगलूर ५ धर्माबाद ६ हदगाव ७ हिमायतनगर ८ कन्धार ९ किनवट १० लोहा ११ माहूर १२ मुदखेड १३ मुखेड १४ नान्देड १५ नायगाव(खैरगाव) १६ उमरी

लोकजीवनम्

मण्डलेऽस्मिन् ७३% जनाः ग्रामेषु निवसन्ति । तेषां उपजीविकासाधनं कृषिसम्बद्धानि कार्याणि एव अस्ति । उद्यमानां विकासः न्यूनः अस्ति । मण्डलजनाः मराठी-उर्दू-तेलुगु-वञ्जारी-भाषाः भाषन्ते । नान्देडमण्डले इतिहास-गणाः, चित्रशालाः, गायन-वादनविद्यालयाः, संस्कृतपाठशालाः, नैकाः शिक्षणसंस्थाः, नाट्यसङ्घाः, महिलासङ्घाः इत्यादयः सांस्कृतिकसंस्थाः कार्यरताः सन्ति । अत्रस्थाः जनाः उत्सवप्रियाः सन्ति ।

व्यक्तिविशेषाः

मण्डलेऽस्मिन् नैकाः विभूतयः अभवन् । यथा – गुरुगोविन्दसिंहः यः स्वस्य जीवनस्य अन्तिमकालम् अत्र यापितवान् । श्रीमतः वामन पण्डित इत्यस्य जन्मस्थानमस्ति मण्डलमिदम् ।

वीक्षणीयस्थानानि

  • सचखण्डगुरुद्वारा
  • रेणुकादेवी, माहूर
  • सहस्रकुण्ड-जलप्रपातः
  • उष्णजलकुण्डानि, उङ्केश्वर
  • कन्धार-दुर्गः
  • सिद्धेश्वरमन्दिरम्, देगलूर, होट्ट्ल
  • दुर्गः, नान्देडनगरम्
  • शिवमन्दिरम्, मुदखेड
  • अपरम्पार-स्वामिनः समाधिस्थलम्, मुदखेड
  • जलसिञ्चन-प्रकल्पः, शङ्करसागर-जलाशयः, असरजन
  • केशवराज-मठ
  • बारालिङ्ग-मन्दिरम्

बाह्यसम्पर्कतन्तुः


Tags:

नान्देडमण्डलम् इतिहासःनान्देडमण्डलम् भौगोलिकम्नान्देडमण्डलम् कृष्युत्पादनम्नान्देडमण्डलम् जनसङ्ख्यानान्देडमण्डलम् उपमण्डलानिनान्देडमण्डलम् लोकजीवनम्नान्देडमण्डलम् व्यक्तिविशेषाःनान्देडमण्डलम् वीक्षणीयस्थानानिनान्देडमण्डलम् बाह्यसम्पर्कतन्तुःनान्देडमण्डलम्आङ्ग्लभाषानान्देडमराठीभाषामहाराष्ट्र

🔥 Trending searches on Wiki संस्कृतम्:

अनुबन्धचतुष्टयम्१८८०वृत्तरत्नाकरम्बराक् ओबामा११८३१३८७२७ अक्तूबरकलिङ्गद्वीपः१९०२उत्तररामचरितम्जीवशास्त्रम्ज्येष्ठासरस्वती देवीवेदानां सामवेदोऽस्मि...व उ चिदम्बरम् पिळ्ळैसिन्धुसंस्कृतिःसलमान रश्दीकुतस्त्वा कश्मलमिदं...श्९०५रीतिसम्प्रदायःहनुमान्नासतो विद्यते भावो...नलःवाशिङ्टन्उपनिषद्२१ दिसम्बरलिबियामाधवीपाणिनिः२०१५अनन्यचेताः सततं...पञ्चगव्यम्जनवरी ५बुधवासरःविकिपीडियाचम्पूरामायणम्कुमारसम्भवम्१२ जुलाईयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)न्यायामृतम्जनवरी १८सर्पण-शीलःकर्मेन्द्रियाणि संयम्य...द्युतिशक्तिःसंभेपूस्वसाट्यूपव्याकरणम्ताम्रम्धर्मकीर्तिःदेशबन्धश्चित्तस्य धारणापेस्काराजिबूटी१५९५योगःपञ्चतन्त्रम्संस्कृतवाङ्मयम्कालिदासः११४५अन्ताराष्ट्रियः व्यापारःपञ्चाङ्गम्मनःमृच्छकटिकम्६८९प्लावनम्अग्निपुराणम्🡆 More