नागपुरमण्डलम्

नागपुरमण्डलं (मराठी: नागपुर जिल्हा, आङ्ग्ल: Nagpur District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नागपुर इत्येतन्नगरम् | नारङ्गफलानाम् उत्पादने मण्डलमिदम् अग्रस्थाने वर्तते । भारतदेशस्य मध्यबिन्दुः(Zero Mile Indicator) अस्मिन्नेव मण्डले अस्ति । महाराष्ट्रराज्यस्य द्वितीया राजधानी अस्ति नागपुर इत्येतन्नगरम् । भारतदेशस्य स्वच्छेषु हरितेषु च मण्डलेषु द्वितीये स्थाने विराजते मण्डलमिदम् । आभारतं व्याघ्र-राजधानी इत्यपि ख्यातिः अस्य मण्डलस्य ।

नागपुरमण्डलम्

Nagpur district

नागपुर जिल्हा
मण्डलम्
महाराष्ट्रराज्ये नागपुरमण्डलम्
महाराष्ट्रराज्ये नागपुरमण्डलम्
देशः नागपुरमण्डलम् India
जिल्हा नागपुरमण्डलम्
उपमण्डलानि नागपुर, नागपुर ग्रामीण, सावनेर, कळमेश्वर, नरखेड, काटोल, पारशिवनी, रामटेक, हिङ्गणा, मौदा, कामठी, उमरेड, भिवापुर, कुही
विस्तारः ९,८९२ च.कि.मी.
जनसङ्ख्या(२०११) ४६,५३,५७०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://nagpur.nic.in
नागपुरमण्डलम्
कालिदास स्मारकम्
नागपुरमण्डलम्
कस्तूरचन्द पार्क
नागपुरमण्डलम्
जामा मस्जिद्
नागपुरमण्डलम्
अम्बाझरी तडागः
नागपुरमण्डलम्
'मारबत' उत्सवः

भौगोलिकम्

नागपुरमण्डलस्य विस्तारः ९,८९२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि भण्डारामण्डलं, पश्चिमदिशि अमरावतीमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि वर्धामण्डलम् अस्ति । अस्मिन् मण्डले १,२०५ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य मुख्यनदी वैनगङ्गा अस्ति । मण्डलेऽस्मिन् नैसर्गिकाः, मानवनिर्मिताः च बहवः तडागाः सन्ति । मण्डलेऽस्मिन् सामान्यतः उष्णं, शुष्कं च वातावरणं विद्यते ।

ऐतिहासिकं किञ्चित्

अस्मिन् परिसरे पाषाणयुगात् मानवानां निवासः अस्ति इति पुरातत्त्वीय-उत्खननेभ्यः ज्ञायते । मण्डलेऽस्मिन् राष्ट्रकूट-वाकाटक-चालुक्य(बादामि)-यादव-मुघल-मराठाराजानाम् आधिपत्यमासीत् । मण्डलमिदं कन्हाननद्याः उपनदी नाग इत्यस्याः तटे अस्ति अतः 'नागपुर' इति नाम । मराठासाम्राज्यानन्तरम् अयं परिसरः आङ्ग्लाधिपत्ये गतः । १९४७ तमे वर्षे 'सेन्ट्रल प्रोव्हिन्स् एण्ड बेरार' इति नाम्ना अयं परिसरः भारतदेशस्य मध्यप्रदेशराज्ये समाविष्टः । अनन्तरं यदा १९५६ तमे वर्षे भाषाधारेण राज्यनिर्मितिः जाता तदा मण्डलत्वेन अयं परिसरः महाराष्ट्रराज्ये समाविष्टः जातः । नागपुरपरिसरस्य इतिहासः वर्धामण्डले उपलब्धात् दशमे शतके लिखितात् ताम्रपत्रात् ज्ञातुं शक्यते । १ जानेवारी १८७७ दिनाङ्के भारतदेशस्य प्रथमः वस्त्रोद्यमः-'सेण्ट्रल इण्डिया स्पिनिङ्ग एण्ड विविङ्ग कं.लि.' नाम्ना टाटा-समूहेन अत्रैव स्थापितः । १९५६ तमे वर्षे बाबासाहेब आम्बेडकर महोदयः स्वस्य अनुयायिभिः सह बौद्धधर्मं प्रविष्टवान् । अयम् ऐतिहासिकप्रसङ्गोऽपि अत्रस्थः, तदर्थं 'दीक्षाभूमिः' इति स्मारकम् अपि स्थापितम् ।

जनसङ्ख्या

नागपुरमण्डलस्य जनसङ्ख्या(२०११) ४६,५३,५७० अस्ति । अस्मिन् २३,५८,९७५ पुरुषाः, २२,६८,५९५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे ४७० जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.४०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ८८.३९% अस्ति ।

कृषिः उद्यमश्च

यवनालः(ज्वारी), गोधूमः, कार्पासः, कलायः, चणकः, 'जवस', नारङ्गफलम् इत्यादीनि नागपुरमण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । नारङ्गफलानि आभारतं तु प्रसिद्धानि सन्ति एव, विदेशविक्रयणमपि भवति । वस्त्रोद्यमाः, तमाखुनालि-उत्पादनोद्यमाः, खाद्यतैलनिर्माणोद्यमाः, कर्गजोद्यमाः च प्रचलन्ति अत्र । मण्डलेऽस्मिन् जल-विद्युत्-इतरसंसाधनानां प्राचुर्यात् उद्यमानां विकासः जायमानः अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले चतुर्दश-उपमण्डलानि सन्ति । तानि-

  • नागपुर
  • नागपुर ग्रामीण
  • सावनेर
  • कळमेश्वर
  • नरखेड
  • काटोल
  • पारशिवनी
  • रामटेक
  • हिङ्गणा
  • मौदा
  • कामठी
  • उमरेड
  • भिवापुर
  • कुही

लोकजीवनम्

मण्डलेऽस्मिन् मराठीभाषा तथा मराठीभाषाप्रकारः 'वर्हाडी', हिन्दी इत्येताः मुख्यभाषाः प्रचलन्ति । भारतदेशे द्वितीयं हरितं, स्वच्छं च मण्डलमिदम् । दीपावलिः, होलिका(होळी), 'दसरा', गणेशोत्सवः, नवरात्र्युत्सवः इत्यादयः अत्रस्थजनानां प्रमुखोत्सवाः सन्ति । सिद्धरामेश्वरमन्दिरस्य यात्रा भवति, जनाः सोत्साहेन भागं वहन्ति । सार्वजनिकोत्सवेषु 'मानवी वाघ'-व्याघ्ररूपं धारयन्तः जनाः सहभागिनः भवन्ति । महाराष्ट्रशासनपक्षतः कालिदास-उत्सवः प्रतिवर्षं प्रचलति ।
विदर्भ इति महाराष्ट्रविभागे निवसतां जनानां 'मारबत' इति विशिष्टोत्सवः । आङ्ग्लप्रशासनसमये बाङ्काबाई नामिका महिला आसीत्, सा आङ्ग्लप्रशासकैः सह योगम् अकुर्वत् । अस्य प्रसङ्गस्य निषेधं सामान्यजनाः 'मारबत-बडग्या' इत्येतायां यात्रायां दर्शयन्ति । इदानीं दुष्टप्रवृत्तिनिवारणार्थम् इयं यात्रा भवति । बाङ्काबाई, तस्याः पतिः बडगा तथा दुष्टप्रवृत्तीनां ‌मूर्तीः कृत्वा शोभायात्रा भवति अनन्तरं तेषां मूर्तीनां दहनं जनाः कुर्वन्ति ।

वीक्षणीयस्थलानि

मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति -

१ ऐतिहासिकस्थलानि -

  • नागनद्याः तीरे कुही/खोपडी इत्यस्मिन्स्थलस्य उत्खनने महापाषाणयुगसम्बद्धअवशेषाः प्राप्ताः । ३००० वर्षेभ्यः प्राक् या संस्कृतिः आसीत् तस्याः विषये बहुमहत्वपूर्णा प्रज्ञप्तिः प्राप्यते । तस्याः प्रज्ञप्ते विदर्भसंस्कृत्याः इतरसंस्कृतिभिः सह विद्यमानाः सम्बन्द्धान् ज्ञातुं शक्नुमः । अतः महत्त्वपूर्णस्थलमिदम् ।
  • कस्तूरचन्द-पार्क
  • नगरधन-कोटः
  • सीताबर्डी-कोटः
  • भारतदेशस्य मध्यबिन्दुः (Zero mile indicator)
  • दीक्षाभूमिः

२ निसर्गरम्यस्थलानि -

  • सक्करदरा इत्यत्र 'लेक गार्डन'
  • गान्धि-सागर-तडागः
  • सातपुडा-सस्योद्यानम्
  • खेकरा तडागः
  • 'सेमिनरी हिल' उपशैलः
  • फुटाळा तडागः
  • अम्बाझरी तडागः

३ इतर-वीक्षणीयस्थलानि -

  • 'जपानी' पाटलपुष्पोद्यानम्
  • अन्ताराष्ट्रियं क्रीडाङ्गणम्
  • महाराज-उद्यानं तथा प्राणिसङ्ग्रहालयः
  • पेञ्च इत्यस्थं राष्ट्रियोद्यानम्, व्याघ्रप्रकल्पः च
  • रमण-विज्ञानकेन्द्रम्
  • मध्यवर्ती-सङ्ग्रहालयः(अजब बङ्गला)
  • नेरो-गेज-रेलयान-सङ्ग्रहालयः
  • गङ्गावतरणप्रतिमा
  • राष्ट्रियस्वयंसेवकसङ्घस्य मुख्यालयः

बाह्यसम्पर्कतन्तुः

Tags:

नागपुरमण्डलम् भौगोलिकम्नागपुरमण्डलम् ऐतिहासिकं किञ्चित्नागपुरमण्डलम् जनसङ्ख्यानागपुरमण्डलम् कृषिः उद्यमश्चनागपुरमण्डलम् उपमण्डलानिनागपुरमण्डलम् लोकजीवनम्नागपुरमण्डलम् वीक्षणीयस्थलानिनागपुरमण्डलम् बाह्यसम्पर्कतन्तुःनागपुरमण्डलम्आङ्ग्लभाषानागपुरभारतभारतम्मराठीभाषामहाराष्ट्र

🔥 Trending searches on Wiki संस्कृतम्:

क्प्रस्थानत्रयम्सुबन्धुःविक्रमोर्वशीयम्अन्तर्जालम्काव्यम्क्रीडाअभिषेकनाटकम्भूगोलीयनिर्देशाङ्कप्रणालीप्रशान्तमनसं ह्येनं...इतिहासः४१५राधाकेशःबाय्सीकोपनहागनब्रह्मापर्यटनम्वाङ्मे मनसि प्रतिष्ठिता५ दिसम्बररागद्वेषवियुक्तैस्तु...२१ जुलाईआश्लेषाअर्थशास्त्रम् (शास्त्रम्)वेदःहल्द्वानीवाशिङ्टन्पञ्चगव्यम्कफःडयोस्कोरिडीस्भाषा३ अक्तूबरसलमान रश्दीभक्तियोगःरिच्मन्ड्पुनर्गमनवादचम्पूरामायणम्इग्नेसी ल्युकसिविक्जमईअनन्यचेताः सततं...जलम्१५९५दिशा पटानीद टाइम्स ओफ इण्डिया२०१५कृष्णःभरतः (नाट्यशास्त्रप्रणेता)यास्कःसुनामीलकाराःपञ्चतन्त्रम्अर्थःसिडनी१०९०रजनीशःजे साई दीपकअक्षय कुमारहास्यरसःशब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)अभिनेता१९०२अथ केन प्रयुक्तोऽयं...संस्कृतभाषामहत्त्वम्रघुवंशम्दीपावलिः🡆 More