तिल्या

सः रामानुजस्य जीवितकालः । सहस्रवर्षेभ्यः पूर्वं तमिलुराज्यस्य चिदम्बरम् इति प्रदेशे गोविन्दराजस्वामी मन्दिरं बहुविशालं, प्रधानं च आसीत् । तस्मिन् काले तावत् विशालमन्दिरम् अन्यत् नासीत् । कुमुदिनि इति वाराङ्गना तत्र नृत्यसेवां करोति स्म । निश्चितदिनानां सायङ्काले सा आगत्य नृत्यसेवां कृत्वा ततः गच्छति स्म । तस्याः पुत्री तिल्या । देवालयस्य पार्श्वे एव कुमुदिन्याः गृहमासीत् । देवालये धनुर्मासे प्रातः सायं च तिरुप्पावै उपन्यासः भवति स्म । कुतूहलेन पञ्चवर्षीय बालिका तिल्या अपि तत्र गच्छति स्म । श्रेष्ठविद्वान् रङ्गाचार्यः प्रवचनं करोति स्म । एतेन प्रवचनेन तिल्या बहुधा आकृष्टा । प्रवचनस्य गोदादेव्याः धनुर्माससेवया एषा मोहिता जाता । सेवाद्वारा सा श्रीकृष्णं कथं प्राप्तवती इति तिल्या ज्ञातवती । स्वस्य हृदयेऽपि गोविन्दराजस्वामिनं प्रतिष्ठापितवती । तस्य विषये एव चिन्तनं करोति स्म । मात्रा शिक्षितं नृत्यं तस्मै गोविन्दाय एव अर्पितम् इति निश्चितवती ।

गोविन्ददासी

बाल्ये अङ्कुरिता एषा भावना यौवने इतोऽपि दृढा जाता । स्वस्य सर्वस्वमपि गोविन्दराजस्वामिने इति चिन्तितवती । सा अनुपमसौन्दर्यवती, नवयौवनकान्त्या प्रकाशिता अभवत् । तस्याः हासः पुष्पाणां निरस्यमिव, चलनं हंसचलनमिव, सम्भाषणं मौक्तिकानां वृष्टिः इव आसीत् । गोविन्दराजस्वामिना विना सा अन्यत्र कुत्रापि नृत्यं न करोति स्म । चिदम्बरस्य कवयः, गायकाः, रूपवन्ताः, धनिकाः च तस्याः नृत्यं पश्यन्ति स्म । देवाय तस्याः भावं दृष्ट्वा एते स्वेषां निमित्तमेव सा भावभङ्गिं प्रदर्शयति इति चिन्तयन्ति स्म । किन्तु तिल्यायाः ध्यानं तु गोविन्दराजस्वामेः प्राप्तेः विना अन्यत्र नासीत् । तस्य प्रीत्यर्थं, प्राप्त्यर्थं च सा नृत्यति स्म । वाराङ्गनावृत्त्याः प्रवेशार्थं माता कुमुदिनी अनुरोधं कृतवती । किन्तु तिल्या स्वस्य रूपयौव्वनसौन्दर्याणि भगवतः गोविन्दस्य सेवायामेव आरक्षितानि इति निश्चितवती ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

हिन्द-यूरोपीयभाषाःउपमेयोपमालङ्कारःक्रीडानाटकम् (रूपकम्)जेम्स ७ (स्काटलैंड)नेपोलियन बोनापार्ट१३ मार्चआस्ट्रेलिया२८ अप्रैलअलाबुजया किशोरीयो यो यां यां तनुं भक्तः...रजनीशःसूत्रलक्षणम्०४. ज्ञानकर्मसंन्यासयोगःटेबल्-टेनिस्-क्रीडाशिश्नम्दर्शन् रङ्गनाथन्पञ्चतन्त्रम्बांकुडामण्डलम्कालिदासःरजतम्मोल्दोवाअन्ताराष्ट्रियः व्यापारःआङ्ग्लभाषाकाव्यम्कर्मयोगः (गीता)पी वी नरसिंह राव्९९१दृष्ट्वा तु पाण्डवानीकं...प्रत्ययःयमनवसिष्ठस्मृतिःजीवनीबिहार विधानसभा१५८९भारतस्य अर्थव्यवस्थाकणादः७१९मनसा, पञ्जाब्भारतीयभूगोलम्शर्करायदा यदा हि धर्मस्य...चार्वाकदर्शनम्पाणिनिःसुरभिद्विचक्रिकाअव्यक्ताद्व्यक्तयः सर्वाः...संस्कृतसाहित्येतिहासः१६ अगस्तशुष्कफलानिमन्त्रःसूरा अल-नासवार्तकीअरावलीवेदव्यासःअविनाशि तु तद्विद्धि...२५ सितम्बरपीठम्कठोपनिषत्मेघदूतम्बिहारीततः श्वेतैर्हयैर्युक्ते...निरुक्तम्२२ जनवरीकौशिकी नदीत्रिविक्रमभट्टःपाषाणयुगम्महाभाष्यम्हेन्री बेक्वेरलअन्तरतारकीयमाध्यमम्आर्यभटःजैनदर्शनम्🡆 More