योगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम्

तदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभावः ? इति— स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा ॥३॥ कथं तर्हि ? दर्शितविषयत्वात्—

तदा द्रष्टुः स्वरूपेऽवस्थानम्


समाधिपादस्य तृतीयं सूत्रम्
योगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम्
सूत्रसङ्ख्या १/३
सूत्रप्रकारः स्वरूपवर्णनम्
पूर्वसूत्रम् योगश्चित्तवृत्तिनिरोधः
अग्रिमं सूत्रम् वृत्तिसारूप्यमितरत्र

सूत्रसारः

व्यासभाष्यम्

भावार्थः

द्रष्टुः (पुरुषस्य) चित्तवृत्तिः निरुद्धकाले तथैव चेतनमात्रे (शुद्धपरमात्मि) स्वस्य स्वरूपे स्थिता भवति, यथा कैवल्ये भवति। चित्तस्य व्युत्थानम् (निरुद्धावस्थायाः इतरावस्थासु) अवस्थासु अपि पुरुषः स्वस्य स्वाभाविके असङ्गे चेतनरूपे एव स्थितः भवति। परन्तु चित्तस्य उपाधित्वात् चित्तवत्तेः अनुसारम्, अर्थात् शान्ति-क्रोध-मूढादि-चित्तवृत्ति-अनुसारं प्रतीतः भवति। वृत्ति-निरुद्धावस्थायां वृत्तीनां निरोधत्वात् पुरुषस्य निरोधः न भवति, परन्तु चित्तरूपस्य उपाधेः (sobriquet -सोब्रके(ट्) - giving a title, like- I am Man, woman, good, bad etc.) अभावत् अर्थात् वृत्तेः अभावात् यदा औपाधिक-शान्ति-स्थिरता-क्रोध-आदिरूपस्य अभावो जायते, तदा पुरुषः स्वस्य उपाधिरहिते (without title) रूपे अवस्थितः भवति। अभिप्रायोऽस्ति यत्, विवेक-ख्यातेः प्राप्तौ सत्यां वस्तूनि, आकारे च परिणामरहिते चित्ते कर्तृत्वस्य अभिमानं निवृत्तं भवति। अर्थात्, अहं कर्ता अस्मि, अहं सुखी अस्मि, अहं दुःखी अस्मि इत्यादीनाम् अभिमानभावाना निवृत्तिः भवति, चित्ते (अन्तःकरणे) वृत्तिरूपाः परिणामाः (वृत्तीनाम् आगमनम्) अपि निरुद्धाः भवन्ति; तस्यां स्थित्याम् एव आत्मनः (consciousness) स्वरूपे अवस्थितिः भवति।

चितिशक्तिः वास्तविकतया नित्या अस्ति, अतः स्वरूपात् कदाऽपि प्रच्युता न भवति। यथा निरोधकाले पुरुषस्य स्वभावः भवति, तथैव व्युत्थानकाले अपि भवति, किन्तु अविवेकत्वात् सा प्रतीतिः भवति। उदाहरणत्वेन, यदा भ्रमत्वात् (because of illusion) शुक्तौ (सीप में/oyster(ओईस्टर)/shell) रजतस्य (चाँदी/silver) ज्ञानं भवति, तदा तस्मिन् भ्रमकाले तस्य भ्रमस्य कारणेन शुक्तेः अभावः न भवति, प्रत्युत रजतस्य उत्पत्तिः अपि न भवति। अर्थात्, शुक्तिं यदि कोऽपि रजतं स्वीकरोति, तर्हि शुक्तिः रजतरूपेण परिणतः न भवति। तत्र रजतस्य उत्पत्तिः न भवति। ततः भ्रमे दूरे सति यदा वास्तविकतायाः ज्ञानं भवति यत्, एषा शुक्तिः अस्ति, न तु रजतः इति, तस्मिन् समये ज्ञानप्रकाशत्वात् शुक्तेः उत्पत्तिः भवति, रजत्य अभावः च न भवति। अर्थात्, पश्चात् शुक्तित्वेन तस्य परिचये प्राप्ते रजतस्य अभावः न भवति, न तु शुक्तिः उत्पन्ना भवति। परन्तु केवलं अस्ति उत नास्ति ("it is" or "It is not") (भावस्य उत अभावस्य) इत्येतयोः बोधः एव भवति। एवं ज्ञाने सति वास्तविक-वस्तोः नाम्ना नवीनतया व्यवहारः आरभते। तावदेव भवति। तत्र किमपि विशेषं परिवर्तनं न भवति। तथैव चिति-शक्तिः सर्वदा निर्विकारा भवति, किन्तु व्युत्थानकाले अविवेककत्वात् अन्यरूपेण (अन्यरूपेण इत्युक्ते किम्?) अनुभूयते, सा एव चितिः निरोधकाले कैवल्यसदृशा शान्ता च अनुभूयते। एतावान् एव निरोधे, व्युत्थानकाले च भेदः अस्ति।

विवेक-ख्यातिः अन्तिमतमा सात्त्विकी वृत्तिः अस्ति, यस्यां चित्तद्वारा आत्मनः साक्षात्कारः भवति। एतावान् एव पुरुषार्थस्य विषयः भवति। अर्थात्, पुरुषार्थं कृत्वा जीव/पुरुषः अत्र पर्यन्तम् आन्तुं शक्नोति। अत्र यः आत्मसाक्षात्कारः भवति, तस्मात् चित्तस्य सात्त्विकता अत्यधिकतया वर्धते, फलतः वृत्तिभ्यः अपि आसक्तिः अपाभवति। वृत्तिभ्यः आसक्तेः निवृत्तिः एव परवैराग्यम् उच्यते। एवं चित्ते काऽपि वृत्तिः न अवशिष्यते, दृष्टुः च शुद्धे परमात्मनि अवस्थितिः भवति।

दृष्टा, पुरुषः, चितिशक्तिः, दृक्शक्तिः, चेतनः, आत्मा इत्येते शब्दाः एकार्थकवाचकाः सन्ति।

अभ्यासः, उपाधिः, आरोपः, भ्रमः इत्येते शब्दाः एकार्थकवाचकाः सन्ति।

प्रश्नः - निरोधात् भिन्नायां व्युत्थान-अवस्थायां पुरुषस्य किं स्वरूपं भवति? (व्युत्थानकाले चितिशक्तिः अविवेकत्वात् अन्यरूपेण अनुभूयते, तर्हि अन्येन केन रूपेण अनुभूयते?)

विशेषव्याख्या

1) व्यात्थानकालः -

2) निरोधावस्थायाः, व्युत्थानकालस्य च मध्ये भेदः - चिति-शक्तिः सर्वदा निर्विकारा भवति, किन्तु व्युत्थानकाले अविवेककत्वात् अन्यरूपेण () अनुभूयते, सा एव चितिः निरोधकाले कैवल्यसदृशा, वास्तविकस्वरूपा, शान्ता च अनुभूयते। एतावान् एव निरोधे, व्युत्थानकाले भेदः अस्ति।

3) परवैराग्यम् - यः आत्मसाक्षात्कारः भवति, तस्मात् चित्तस्य सात्त्विकता अत्यधिकतया वर्धते, फलतः वृत्तिभ्यः अपि आसक्तिः अपाभवति। वृत्तिभ्यः आसक्तेः निवृत्तिः एव परवैराग्यम् उच्यते।


पातञ्जलयोगसूत्राणि
योगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम्  पूर्वतनः
योगश्चित्तवृत्तिनिरोधः
तदा द्रष्टुः स्वरूपेऽवस्थानम् (योगसूत्रम्) अग्रिमः
वृत्तिसारूप्यमितरत्र
योगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम् 
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः


सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

योगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम् सूत्रसारःयोगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम् व्यासभाष्यम्योगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम् भावार्थःयोगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम् विशेषव्याख्यायोगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम् सम्बद्धाः लेखाःयोगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम् बाह्यसम्पर्कतन्तुःयोगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम् उद्धरणम्योगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम् अधिकवाचनाययोगसूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम्

🔥 Trending searches on Wiki संस्कृतम्:

संयुक्ताधिराज्यम्नेताजी सुभाषचन्द्र बोसकळसआदिशङ्कराचार्यः११५५अद्वैतसिद्धिःजातीकैवल्य-उपनिषत्१३७२मध्यमव्यायोगःकठोपनिषत्द्युतिशक्तिःकार्बनशिरोवेदनावर्णः११९नेपोलियन बोनापार्टनारिकेलम्हरीतकीचातुर्वर्ण्यं मया सृष्टं...दशरूपकम् (ग्रन्थः)नवग्रहाःमोहम्मद रफीमनुस्मृतिःकाव्यम्वालीबाल्-क्रीडाकराचीसूत्रलक्षणम्अदितिःनवम्बर४४४वसुदेवःवेतालपञ्चविंशतिकाक्षीरम्अश्वघोषःविश्वामित्रःमानसिकस्वास्थ्यम्वैराग्यशतकम्जलमालिन्यम्मई१८०९तुलसीदासःप्याप्रातिशाख्यम्चन्दनम्०७. ज्ञानविज्ञानयोगःसायणःभरद्वाजमहर्षिःसंस्कृतवर्णमालाइण्डोनेशियाभोजपुरी सिनेमाओट्टो वॉन बिस्मार्कशशि तरूर्फरवरी १५लन्डन्बुधवासरःभाषाविज्ञानम्वा१८७३ब्रह्मयज्ञःमुन्नार्उत्तराभाद्राव्लाडिमिर लेनिनगीतगोविन्दम्कुण्डलिनी (मुद्रा)विकिःबेट्मिन्टन्-क्रीडाहठप्रदीपिकामाण्डूक्योपनिषत्स घोषो धार्तराष्ट्राणां...🡆 More