करुणरसः

करुणस्य शोकः स्थायिभावो भवति । इष्टजनविराहदिभिर्हृदये जायमानं दुःखं शोक उच्यते । आदिशब्देनाऽत्र विनाशशापक्लेशबन्धनव्यसनप्रभृतयो ग्राह्याः । एको रसः करुण एव- इति भवभूतिः उत्तररामचरिते करुणरसस्य महत्त्वं वर्णयति ।

करुणरसः ।
दुखरसा ।
दुखरसा ।

पुत्रादिवियोगमरणादिजन्मावैकल्याख्यश्चित्तवृत्तिविशेषश्शोकः इति रसगङ्गाधरे स्पष्टीकृतम्। विक्षेपार्थे, "कृ”धातौ 'उनन्’ आदेशे अच् प्रत्यये "करुण" शब्दस्योत्पत्तिः सम्भवति। ईप्सितस्य नाशोभूत्वा, अनिष्टप्राप्तेः वर्णनात् करुणरसस्य प्रादुर्भावः भवति। अस्य रसस्य वर्णनं भरतः एवं स्पष्टीकरोति।

“इष्टवधदर्शनाद्यप्रियववचनस्य संश्रावाद्वापि।
एभिर्भावविशेषैः करुणरसो नाम संभवति॥ इति॥

कष्टेस्थितान् दृष्ट्वा, कदाचित् दुःखवशात्, वेदनायाः प्रभावात्, इष्टजनस्य वियोगात्, सम्पत्तिनाशादीनां दर्शनेन उत श्रवणेन वा सात्विकभावः उत्पत्स्यते. अनेन दैन्य, आलस्य, आवेग, विषादः, जडः, उन्मादः चिन्ता इत्यादि व्यभिचारिभावैः शोकस्थायिभावः करुणरसः भवति। त्यागः, आर्तता, दीनता इत्यादयः करुणरसकारकाः भवन्ति। निर्वेदः, ग्लानिः, चिन्ता, मोहः, अश्रु, वैवर्ण्यादयः करुणरसस्य पूरकाः भवन्ति। अस्य करुणरसस्य विभावाः विरहतापः, निर्धनिकता, मरणमित्यादयः भवन्ति। अनुभावाः शोकः, पिपासा, वर्णव्यत्यासादयः भवन्ति। अन्ततः गत्वा इष्टवियोगः उत अनिष्टसंयोगः एव करुणरसः भवति।

करुणरसप्रतिपादकाः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य तोडिरागः, आसावरिरागः, शिवरञ्जनीरागः इत्यादयाः रागाः भवन्ति।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सितम्बर ६२८८आहारःमार्गरेट थाचर१६२१७३१वामनपुराणम्७७६१०३८१०६९यामिमां पुष्पितां वाचं…जनवरी ११विकिमीडियाहिन्दुमहासागरः१७४७विष्णुः१८५आर्षसाहित्यम्मारिया टेरेसासितम्बर ११कलिङ्गयुद्धम्रोजा लक्जेम्बर्गअजमेरइव६६वेदान्तदेशिकःअथर्वशिरोपनिषत्भगिनी निवेदिता२९६इण्डोनेशियामनुस्मृतिःव्लादिमीर पुतिन४८८मुख्यपृष्ठम्१२७८विद्यारण्यःकल्पना चावलाअहो बत महत्पापं...१२०२४१५मोहिनीयाट्टम्कोबाल्ट१३६३दुमका१६१३वेदाविनाशिनं नित्यं...भारतस्य नृत्यकलाःदाण्डीयात्राकालिदासः३१७१५४३गर्भधारणम्२१३१०८२१०७७ए आर् राजराजवर्मा४ जूनडियेगो माराडोनाजनवरी ८७२४एषा तेऽभिहिता साङ्ख्ये...भाषाविज्ञानम्यदा यदा हि धर्मस्य...जार्ज २अर्जुनविषादयोगःभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)सुबन्तम्पादकन्दुकक्रीडा२३५५९९मध्यप्रदेशराज्यम्६७२🡆 More