ऋषिः अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति। एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्यमानाः ‘तद्येनास्तपस्यमानन् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादयः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कर्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।
पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य अतिसुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। शाकल्यः ऋग्वेदस्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम आत्रेयोऽस्ति। गार्ग्यः सामवेदस्य पदकारः अस्ति।
This article uses material from the Wikipedia संस्कृतम् article ऋषिः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.