मालदामण्डलम्(Malda) वा "मालदहमण्डलम्" (बाङ्गला-মালদহ বা মালদা ) पश्चिमबङ्गराज्यस्य जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानीकोलकातातः २१५ कि मी उत्तरे अवस्थितम् । आम्रफलस्य तथा चीनांशुकस्य कृषिः अस्य मण्डलस्य उल्लेखयोग्यं वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतेः गम्भीरायाः(नृत्यप्रकारस्य) उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रम् इङ्गलिश-बाज़ारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं पश्चिमबङ्गराज्यस्य राजधानी आसीत् । मालदामण्डले पारम्परिकशिक्षा-संस्कृतेः पोषणं क्रियते । इङ्गलिश-बाजारनगरस्य विस्तृतरूपेण पुरातन-मालदानगरं महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति।
मालदामण्डलम् | |
गुगल् मानचित्रम् | |
विवरणम् | पश्चिमबङ्गस्य मण्डलमिदम् |
राज्यम् | पश्चिमबङ्गः, भारतम् |
निर्माणकालः | १८ अगस्ट्, १९४७ |
वातावरणम् | आर्द्र-शुष्कश्च |
एस्.टी.डी. कोड | ०३५१२ |
ए.टी.एम् | नगरे सर्वत्र लभ्यते |
प्रशासनिकविभागः | जलपाइगुडि |
केन्द्रनगरम् | इङ्गलिश्-बाजार |
लोकसभाकेन्द्राणि | उत्तरमालदा, दक्षिणमालदा |
जनसङ्ख्या (२०११) | ३९,९७,९७० |
विस्तीर्णता | ६७३३ वर्ग कि मी (२,५९९.६ वर्ग मील्) |
विस्तीर्णता | ६७३३ वर्ग कि मी (२,५९९.६ वर्ग मील्) |
भारतीय-मान-समयः | +५:३० (यु टी सि) |
एरोड्राम् (डोमेस्टिक् एयर् लैन्स्) | |
मालदा टाउन् (पूर्व रेल्) | |
चित्तरञ्जनबस् स्थानकम् | |
बस्, टैक्सी इत्यादि | |
दर्शनीयस्थलम् | गौड ऐतिहासिकक्षेत्रम्, आदिना मृगसंरक्षणालयः, पाण्डुया |
जालस्थानम् | http://malda.nic.in/ |
मालदा इति नामकरणम् अस्य मण्डलस्य आदिवासिगणः मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसिभाषायाः शब्दः "माल"(धनसम्पदः) एवं बाङ्गलाभाषायाः शब्दः "दह" इत्येतयोः समन्वयेन मालदह इति सिद्ध्यति ।
महर्षिपाणिनि गौडपुरम् इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे पश्चिमबङ्गराज्यस्य मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम्।
मालदामण्डलस्य पश्चिमदिशि बिहारराज्यम् अस्ति । तथा उत्तरदिशि उत्तरदिनाजपुरं दक्षिणदिनाजपुरमण्डलञ्च स्तः । पूर्वदिशि बाङ्गलादेशः तथा दक्षिणे मुर्शिदावादमण्डलं विराजते ।
This article uses material from the Wikipedia संस्कृतम् article मालदामण्डलम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.